Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 14

Prakāśa 14: हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

प्रकाशः 14 • हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

Prakāśa 14 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 841 Verses • Citations: SP 14.1–841 • 4 Lexicon Terms • Page 25 of 29 (Verses 30 shown)
एता मता श्वपचपातकदीपरोगा— दागच्छ X X X परंपरिक्षया वः॥ २०४॥
अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि ! विमुञ्च त्वं लतापाशमेनम्।
चलितमिव निरोद्ध‍ुं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि॥ २०५॥
स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्‍नाक्षपर्यस्तरथं क्षणेन।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार॥ २०६॥
दुःखक्रोधाननन्दजं नयनजलमश्रु। तस्य
उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया विहतानुबन्धम्।
अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति॥ २०७॥
अनुबन्धो यथा—(विक्रमो. ५.१५)
किं सुन्दरि ! प्ररुदितासि ममोपपन्ने वंशस्थितेरधिगमान्महति प्रमोदे।
पीनोन्नतस्तननिपातिभिरानयन्ती मुक्तावलीविरचनां पुनरुक्तमस्रै॥ २०८॥
ततः कैरप्युक्ते परिणयविधौ काष्ठमुनिभिः पुराणैरातङ्कग्लपितहृदयेन क्षितिभृता।
*मोहः(/स्‍नेहः) द्विरुपात्तः उद्‍देशे (द्र. पृ. ६१४) विना वाचं नैतत् क्षममिति विधायाननमधः पतद्वाष्पाम्भोभिर्लिखितमिव दत्तं प्रतिवचः॥ २०९॥
अयं तावद् बाष्पस्‍त्रटित इव मुक्तामणिसरो विसर्पन् धाराभिर्लुठति धरणीं जर्झरकणः।
निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति च भराध्यातहृदयः॥ २१०॥
अकृतकबलारम्भैर्वक्त्रैर्भयस्थगितेक्षणैः किमपि वलितग्रीवं स्थित्वा मुहुर्मृगपङ्क्तयः।
गगनमसकृत् पश्यन्त्येतास्तथाश्रुघनैर्मुखैः— र्निपतति यथा शृङ्गाग्रेभ्यो भ्रमन्नयनोदकम्॥ २११॥
सर्वेन्द्रियास्तमयः प्रलयः। तस्य
तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम्।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव॥ २१२॥
← Previous (Ch. 13) Full Table of Contents Next (Ch. 15) →