Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 14

Prakāśa 14: हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

प्रकाशः 14 • हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

Prakāśa 14 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 841 Verses • Citations: SP 14.1–841 • 4 Lexicon Terms • Page 15 of 29 (Verses 30 shown)
देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै— र्यत्‍नेनापि न याति लोचनपथं कान्तेति जानन्नपि।
उद्‍ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाऽश्रुपूर्णे दृशौ तामाशां पथिकस्तथाऽपि किमपि ध्यायन् मुहुर्वीक्षते॥ ११७॥
पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः॥ ११८॥
प्रयान्तीव प्राणाः सुतनु ! हृदयं ध्वंसत इव जवलन्तीवाङ्गानि प्रसरति समन्तादिव तमः।
त्वराप्रस्तावोऽयं न खलु परिहासस्य विषय— स्तदक्ष्णोरानन्दं वितर मयि मा भूरकरुणा॥ ११९॥
भूयो भूयस्सविधनगरीरथ्यया पर्यटन्तं दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था।
साक्षात् कामं नवमिव रतिर्मालती माधवं यद् गाढोत्कण्ठा लुलितलुलितैरङ्गकैस्ताम्यतीति॥ १२०॥
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितबाष्पवृष्टिकलुषश्चिन्ताजडं दर्शनम्।
वैक्लब्यं मम तावदीदृशमहो स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः॥ १२१॥
दृष्टश्रुतानुमितेषु प्राप्‍तिपरिहारार्थमुपायपरिभावना मनसश्चिन्ता। तस्या जन्म यथा—
सन्ध्या रागवती स्वभावकुटिला गङ्गा द्विजिह्वः फणी वक्रोऽन्तर्मलिनः शशी च सततं जात्यैव मूर्खो वृषा।
इत्थं दुर्जनसङ्कुले पतिगृहे वासः कथं सह्यतां देव्याः पाणिनिविष्टमास्यमसकृच्‍चिन्तान्वितं पातु वः॥ १२२॥
अङ्गेनाङ्गं प्रतनु तनुना गाढतप्‍तेन तप्‍तं सास्रेणास्रद्रवम् अविरतोत्कण्ठमुत्कण्ठितेन।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥ १२३॥
लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्‍तेव च वज्रलेपघटितेवान्तर्निखातेव च।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि— श्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्‍ना प्रिया॥ १२४॥
संपर्को यथा—(महानाटकं ३.२४)
हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्यसे।
वत्स राम ! गतोऽसीति सन्तापादनुमीयसे॥ १२५॥
व्रीहिः स्तम्बकरिः प्रभूतपयसः प्रत्यागता धेनवः प्रत्युज्जीवितमिक्षुणा भृशमिति ध्यायन्नपेतान्यधीः।
← Previous (Ch. 13) Full Table of Contents Next (Ch. 15) →