Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 14

Prakāśa 14: हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

प्रकाशः 14 • हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

Prakāśa 14 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 841 Verses • Citations: SP 14.1–841 • 4 Lexicon Terms • Page 14 of 29 (Verses 30 shown)
क्‍व नीलकण्ठ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना॥ १०९॥
ण कुणंचो चिअ माणं णिसासु सुह-सुत्त-दर-विबुद्धाणं।
सुण्णइअ-पास-परिमूसण-वेअणं जइ सि जाणंतो॥ ११०॥
(नाकरिष्य एव मानं निशासु सुखसुप्‍तदरविबुद्धानाम्।
शून्योकृतपार्श्वपरिमोषणवेदनां यद्यज्ञास्यः॥)
निद्रात्ययेषु चेतनालाभः प्रबोधः। तस्यष
स व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम्।
मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गीतमङ्गलः॥ १११॥
प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्‍न/कल्यदीपप्रभाणा— मात्मव्यापारगुर्वी जनितजललवा जृम्भितैः स्वाङ्गभङ्गैः।
नागाङ्कं मोक्तुमिच्छोः शयनमुरुफणाचक्रवाळोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः॥ ११२॥
क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगान् उदधिमहति राज्ये काव्यवद् दुर्विगाहे।
गहनमपररात्रप्राप्‍तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम्॥ ११३॥
उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विधूतनिद्रः।
अरमत मधुरस्वराणि श्रृण्वन् विहगविकूजितवन्दिमङ्गलानि॥ ११४॥
विस्त्रम्भादुपसृज्य पीडन—नमत्प्रोत्तुङ्गपीनस्तने श्वासावेग विकम्पिना स्तनयुगेनापीडिते वक्षसि।
ईषन्मीलितनेत्रया श्लथभुजापाशं चिरादागतो नाधन्यः परिरभ्यते दयितया जाग्रत्स्वपत्या निशि॥ ११५॥
चतुर्विंशतिरित्येते भावा हर्षादिसंज्ञकाः!
(संप्रयोगाश्रयाः प्रोक्‍तास्तैस्तैर्युक्‍तैर्निदर्शनैः)॥१
अतः परं प्रवक्ष्यन्ते विप्रलम्भसमाश्रयाः।
चतुर्विंशतिरुत्कण्ठाचिन्तास्मृत्यादयोऽपरे॥ ११६॥
तत्र प्रायेण विप्रलम्भाश्रयभावचतुर्विंशादिकं उदाह्नियन्ते। तत्र मनसोऽशान्तिरुत्कण्ठा। तस्या
← Previous (Ch. 13) Full Table of Contents Next (Ch. 15) →