Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 14

Prakāśa 14: हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

प्रकाशः 14 • हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

Prakāśa 14 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 841 Verses • Citations: SP 14.1–841 • 4 Lexicon Terms • Page 10 of 29 (Verses 30 shown)
भयानुरागाद्यपेक्षचित्तविक्षोभजः कम्पो वेपथुः।
मा गर्वमुद्‌वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति।
अन्याऽपि किं सखि! न भाजनमीदृशानां वैरी न चेद् भवतु वेपथुरन्तरायः॥ ७८॥
रम्भोरु! संहर भयं क्षमते विकारमुत्कम्पितस्स्तनभरस्य न मध्यभागः।
इत्थं त्वयैव कथितप्रणयप्रसादः सङ्कल्पनिर्वृतिषु संस्तुत एष दासः॥ ७९॥
आतङ्कश्रमसाध्वसव्यतिकंरोत्कम्पः कथं सह्यता— मङ्गैर्मुग्धमधूकपुष्परुचिभिर्लावण्यसारैरयम्।
उन्नद्धस्तनकुम्भकुङ्‌मलगुरुश्वासावभुग्‍नस्य ते मध्यस्य त्रिवलीतरङ्गकजुषो भङ्गः प्रिये! मा च भूत्॥ ८०॥
वारंवारं तिरयति दृशावुद्गतो बाष्पपूर— स्तत्सङ्कल्पोपहितजडिम स्तम्भमभ्येति गात्रम्।
सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधुषु नितरां वर्तते; किं करोमि॥ ८१॥
पप्फुरिअ उट्ठदलअं (अत्रैव पृ. १०.३६५)
वर्णनानुरागादिजन्मा मनस्सङ्कोचो व्रीडा। तस्या
जन्म यथा—(रघु. ७.२३, कुंस. ७.७५)
तयोरपाङ्गप्रतिसारितानि किञ्चिद् व्यवस्थापितसंहृतानि।
ह्नीयन्त्रणामानशिरे मनोज्ञामन्योलोलानि विलोचनानि॥ ८२॥
अद्यौवावां रणमुपगतौ तातमम्बां च दृष्ट्वा घ्रातस्ताभ्यां शिरसि विनतोऽहं च दुश्शासनश्च।
तस्मिन् बाले प्रसभमरिणा प्रापिते तामवस्थां पार्श्वं पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा॥ ८३॥
द्विषन्निहतरक्षसां सुतसुहृद्वधूबान्धव— प्रलापमतिदुस्सहं प्रथितखेदमाकर्णयन्।
निजान्यपि मुखान्यहो नमितकन्धरो दुर्मना न संप्रति दशाननः सुचिरमीक्षते लज्जया॥ ८४॥
प्रत्यग्रारिकृताभिमन्युनिधनप्रोद्ध‍ूततीव्रक्रुधः कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयः।
पार्थस्याकृतशात्रवप्रतिकृतरेन्तश्शुचा मुह्यतो हा वत्सेति गिरस्स्फुरन्ति न पुनर्निर्यान्ति कण्ठाद् बहिः॥ ८५॥
← Previous (Ch. 13) Full Table of Contents Next (Ch. 15) →