Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 14

Prakāśa 14: हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

प्रकाशः 14 • हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

Prakāśa 14 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 841 Verses • Citations: SP 14.1–841 • 4 Lexicon Terms • Page 21 of 29 (Verses 30 shown)
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्षामतरः प्रकामविनतावंसौ छविः पाण्डुरा।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी॥ १७०॥
निपतितेऽधिशिरोधरमायते सममरन्नि(त्‍नि)युगेऽयुगचक्षुषः।
त्रिचतुरेषु पदेषु किरीटिना लुलितमौलि मदादिव चस्खले॥ १७१॥
निरतिशयप्रयासजन्मा (म)नःशरीरायासाः श्रमः। तस्य
तनुरियं तरलायतलोचने श्वसितकम्पितपीनघनस्तनी।
श्रममपास्य गता तपसे पुनः किमिति सम्भ्रमकारिणि खिद्यते॥ १७२॥
स्खलयति वचनं ते संश्रयत्यङ्गमङ्गं जनयति मुखचन्द्रोद्भासिनः स्वेदबिन्दून्।
मुकुलयति च नेत्रे सर्वथा सुभ्रु ! खेद— स्त्वयि विलसति तुल्यं वल्लभालोकनेन॥ १७३॥
स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणाद् अद्यापि स्तनवेपथुं न जहति श्वासः प्रमाणाधिकः।
बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयामिताः पर्याकुला मूर्धजाः॥ १७४॥
औत्सुक्यमात्रमवसाययति प्रतिष्ठा क्लिश्नातिं लब्धपरिपालनवृत्तिरेव।
नैव श्रमापनयनाय न च श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम्॥ १७५॥
निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तिनिर्ह्रादिविभूषणारवः।
नितम्बिनीनां भृशमादधे धृतिं नभःप्रायाणादवनौ परिक्रमः॥ १७६॥
दैवादिभिस्संरम्भविघातो विषादः। तस्य
हेलोल्लोलक्षुभितकरुणोज्जृम्भणस्तम्भनार्थं यो यो यत्‍नः कथमपि समाधीयते तन्नमन्तः (तं तमन्तः ?)।
भित्त्वा भित्त्वा प्रसरति बलात् कोऽपि चेतोविकार— स्तोयस्येवाप्रतिहतरवः सैकतं सेतुमोघः॥ १७७॥
व्यर्थं यत्र कपीन्द्रसख्यमपि मे, क्लेशः कपीनां वृथा प्रज्ञा जाम्बवतो न यत्र, न गतिः पुत्रस्य वायोरपि।
← Previous (Ch. 13) Full Table of Contents Next (Ch. 15) →