Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 15

Prakāśa 15: रत्यालम्बनविभावप्रकाशः

प्रकाशः 15 • रत्यालम्बनविभावप्रकाशः

Prakāśa 15 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1849 Verses • Citations: SP 15.1–1849 • 4 Lexicon Terms • Page 10 of 62 (Verses 30 shown)
तद् भूयः शिशुशुकशारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति॥ ७७॥
९. धीरललितासाधारणानुकूलो यथा—(मामा. १.३९)
जगति जयिनस्तेते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः॥ ७८॥
१०. धीरललितसाधारणानुकूलो यथा—(विक्र. १.२०)
एषा मनो मे प्रसभं शरीरात् पितुः पदं मध्यममुत्पतन्ती।
सुराङ्गना कर्षति खण्डिताग्रात् सूत्रं मृणालादिव राजहंसी॥ ७९॥
११. धीरललितासाधारणदक्षिणो यथा—(कुसं. ८.४८)
तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मां प्रति।
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि! विनोदयिष्यति॥ ८०॥
१२. धीरललितसाधारणदक्षिणो यथा—
वाचो भामिनि! किं तवाद्य परुषाः सुभ्रु! भ्रुवोर्विभ्रमः॥ ८१॥ (पृ. ८६३)
१३. धीरललितासाधारणशठो यथा—(उराच. १.४६)
अपूर्वकर्मचण्डालमयि मुग्धे! विमुञ्च माम्।
श्रिताऽसि चन्दन भ्रान्त्या दुर्विपाकं विषद्रुमम्॥ ८२॥
दूरादेव विलोक्य दुग्धधवलां राधामुखेन्दुद्युतिं मुग्धे मोहिनि! मुञ्च मां हलधरस्यैषा प्रभा दृश्‍यते।
इत्थं व्याजविसर्जितव्रजवधूहर्षप्रसन्नाननः कृष्णो वाञ्छितसङ्गमद्विगुणितप्रेमोत्सवः पातु वः॥ ८३॥
१५. धीरललितासाधारणधृष्टो यथा—
क्लाम्यन्ती यदुपेक्षितासि पुरतः कामो यदग्रे हतः क्लिष्टं यत् तपसा वपुर्यदपि च प्रोक्ता वटुच्छाद्मना।
तत् सर्वं प्रणतस्य मेऽद्य दयिते दाक्षायाणि! क्षम्यता— मित्युक्त्वा चरणाब्जयोर्विजयते लुण्ठन् शिवायाः शिवः॥ ८४॥
१६. धीरललितसाधारणधृष्टो यथा—(रत्‍ना. २.२०)
प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः।
न मे दोषोऽस्तीति त्वमिदमपि विज्ञास्यसि मृषा किमेतस्मिन् वक्तुं क्षममिति न वेद्मि प्रियतमे!॥ ८५॥
१७. धीरललितानुकूलोत्तमो यथा—(विक्र. १.११)
यदृच्छया त्वं सकृदप्यवन्ध्ययोः पथि स्थिता सुन्दरि! यस्य नेत्रयोः।
त्वया विना सोऽपि समुत्सुको भवेत् सखीजनस्ते किमुतार्द्रसौहृदः॥ ८६॥
१८. धीरललितदक्षिणोत्तमो यथा—
प्रत्यग्रोज्झितगोकुलस्य शयनादुत्स्वप्‍नमूढस्य मा मा गोत्रस्खलितादुपैतु च दिवा राधेति भीरोरिति।
रात्रावस्वपतो दिवा च विजने लक्ष्मीति चाभ्यस्यतो राधां संस्मरतः श्रियं रमयतः खेदो हरेः पातु वः॥ ८७॥
← Previous (Ch. 14) Full Table of Contents Next (Ch. 16) →