Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 15

Prakāśa 15: रत्यालम्बनविभावप्रकाशः

प्रकाशः 15 • रत्यालम्बनविभावप्रकाशः

Prakāśa 15 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1849 Verses • Citations: SP 15.1–1849 • 4 Lexicon Terms • Page 4 of 62 (Verses 30 shown)
विचित्रमणिसङ्करस्फुरदुरुप्रभाभासुरं निमेषविमुखी दृशं मम मुहुः समापादयन्।
कुरङ्गतिलकानने तव तदेणचर्मांशुकं करिष्यति पयोधरे सुरधनुर्विलासोदयम्॥
६. धीरोदात्तानुकूलसाधारणो यथा—(शाकु. ३.१७)
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे।
समुद्ररशना चोर्वी सखी च युवयोरियम्॥ २३॥
७. धीरोदात्तदक्षिणासाधारणो यथा—
देवि ! त्वद्वदनारविन्दसुहृदामेषां सरोजन्मनां पश्‍य व्योमनि लोहितायति रवावेषा दशा वर्तते।
इत्थं सङ्कुचदम्बुजानुकरणव्योजपनीताञ्जलेः शम्भोर्वञ्चितपार्वतीकमुचितं सन्ध्यार्चितं पातु वः॥ २४॥
८. धीरोदात्तदक्षिणसाधारणो यथा—(विक्र. ३.१३)
अनेन कल्याणि ! मृणालकोमलं व्रतेन गात्रं ग्लपयस्यकारणम्।
प्रसादमाकाङ्‍क्षति यस्तवोत्सुकः स किं त्वया दासजनः प्रसाद्यते॥ २५॥
धीरोद्धतस्तु तामसः मध्यमकनिष्ठकानुकूलदक्षिणशठधृष्टासाधारणसाधारण— व्यतिकरात् चतुश्चत्वारिंशत्प्रकारः।
१. धीरोद्धतमध्यमो यथा—(मामा. ५.६१)
प्रणयिसखीसलीलपरिहासरसाधिगतै— लैलितशिरिषपुष्पहननैरपि ताम्यति यत्।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पतति शिरस्यकाण्डयमदण्ड इवैष भुजः॥ २६॥
२. धीरोद्धतकनिष्ठो यथा—(जाह. १०.८६)
एकस्मिञ्छयनें मया मयसुतामालिङ्ग्य निद्रालसा— मुन्निदं शयितेन मे चरणयोः संवाहनव्यापृता।
पादाग्रेण तिलोत्तमा स्तनतटे सस्‍नेहमापीडिता हर्षावेगसमर्पितानि पुलकान्यद्यापि नो मुञ्चति॥ २७॥
३. धीरोद्धतानुकूलो यथा—(मामा. ५.२७)
त्वत्पाणिपङ्कजपरिग्रहधन्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः।
भ्राम्यन् नृमांसपणनाय परेतभूमौ आकर्ण्य भीरु ! रुदितानि तवागतोऽस्मि॥ २८॥
अत्रान्तरे रणित/ललितहारलतानितम्ब॥ २९॥
चंदो वि राइं आहिंडिऊण गोसम्मि होइ विच्छाओ।
तुं पुण जाआपरिमलपसाहणो सोहसि भमंतो॥ ३०॥
(चन्द्रोऽपि रात्रिमाहिण्ड्य प्रभाते भवति विच्छायः।
त्वं पुनर्जायापरिमलप्रसाधनः शोभसे भ्रमन्॥)
← Previous (Ch. 14) Full Table of Contents Next (Ch. 16) →