Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 15

Prakāśa 15: रत्यालम्बनविभावप्रकाशः

प्रकाशः 15 • रत्यालम्बनविभावप्रकाशः

Prakāśa 15 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1849 Verses • Citations: SP 15.1–1849 • 4 Lexicon Terms • Page 18 of 62 (Verses 30 shown)
नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्‍नौ॥ १५२॥
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै— रनाविद्धं रत्‍नं मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमपि/मिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ १५३॥
अद्यापि तन्मनसि संपरिवर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या।
जीवेति मङ्गलविधिं परिहृत्य कोपात् कर्णे कृतं कनकपत्रमनालपन्त्या॥ १५४॥
उत्तमा धीरानूढा यथा—(कुसं. ६.१)
अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम्।
दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति॥ १५५॥
सस्वेदरोमाञ्चितकम्पिताङ्गी जाता प्रियस्पर्शसुखेन वत्सा।
मरुन्नवाम्भःप्रविधूतसिक्ता कदम्बयष्टिः स्फुटकोरकेव॥ १५६॥
उत्तमाऽधीराऽनूढा यथा—(मामा. १.२९)
अत्रान्तरे किमपि वाग्विभवातिवृत्तवैचित्र्यमुल्लसितविभ्रममुत्पलक्ष्याः।
तद् भूरिसात्त्विकविकारमपास्तधैर्यमाचार्यकं किमपि मान्मथ़/?/माविरासीत्॥ १५७॥
उत्तमा मुग्धा यथा—(गास. ७.७८)
मुद्धे अपत्तिअंती, पवाल—अंकुरअ—वण्ण—लोहिअए।
णिद्धोअ—धाउराए कीस सहत्थे पुणो धुअसि॥ १५८॥
(मुग्धे ! अप्रत्ययन्ती प्रवालाङ्कुरसवर्णलोहितौ।
निर्धौतधातुरागौ कस्मात् स्वहस्तौ पुनर्धावयसि॥)
उत्तमाधीरा मुग्धा यथा—(जाह. १०.५०)
द्वित्राण्यथ रथाद् भूमौ पदान्याधाय निस्सहा।
येयमत्र कियद् दूरमिति पप्रच्छ मैथिली॥ १५९॥
उत्तमा धीरा मुग्धा यथा—(वज्जाल. पृ.३७९)
कइआ गओ पिओ अज्ज पुत्ति ! अज्जेण कइ दिणा होंति ?।
एक्को, एद्दहमेत्तो भणिउं मोहं गआ बाला॥ १६०॥
{कदा गतः प्रियः ? अद्य पुत्रि ! अद्येति कति दिनानि भवन्ति ?।
एकः, एतावन्मात्रे भणिते मोहं गता बाला॥}
← Previous (Ch. 14) Full Table of Contents Next (Ch. 16) →