Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 15

Prakāśa 15: रत्यालम्बनविभावप्रकाशः

प्रकाशः 15 • रत्यालम्बनविभावप्रकाशः

Prakāśa 15 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1849 Verses • Citations: SP 15.1–1849 • 4 Lexicon Terms • Page 16 of 62 (Verses 30 shown)
बाला भ्रूभङ्गजिह्माक्षी पश्‍यति स्फुरिताधरा॥ १३५॥
दंतक्खअं कओले कअग्गहुव्वेल्लिअं च धम्मिल्लं।
णिद्दालसं च दिट्ठिं, बहुएॅ बहुमण्णइ अणंगो॥ १३६॥
(दन्तक्षतं कपोले कचग्रहोद्वेल्लितं च धम्मिल्लम्।
निद्रालसां च दृष्टिं वध्वा बहुमन्यते अनङ्गः॥)
प्रगल्भा यथा—(काव्याद. २.२६१)
कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम्।
अवेत्य कान्तमबला लीलापद्मं न्यमीलयत्॥ १३७॥
पुनर्भूरक्षता, क्षता, यातायाता यायावरा च।
अवाप्‍तकन्यातुलया सत्यवत्या समागतः।
विमुक्तचिन्तया रेजे राजा राजीवलोचनः॥ १३८॥
मयेन निर्मितां लङ्कां लब्ध्वा मन्दोदरीमपि।
रेमे मूर्तो दशाग्रीवलक्ष्मीमिव विभीषणः॥ १३९॥
सावज्ञाः पतिपादयोर्धृतगुरुव्रीडा गुरूणां ततौ ? सोन्माथा ममतामुखे स्थित/स्मित—कृतावज्ञा सखीसंसदि।
शक्राभ्यर्थनया कथञ्चन पुनः प्रत्यागताया गृहे तारायास्तरलं स्खलन्ति गगने गर्भालसा दृष्टयः॥ १४०॥
क्रमेण सद्भर्तृचतुष्टयादिति प्रसूय साऽष्टौ तनयांस्तनूदरी।
दरीषु विन्ध्याद्रिवरस्य माधवी महत् तपस्तप्‍तुमथोपचक्रमे॥ १४१॥
सामान्या ऊढा, अनूढा, स्वयंवरा, स्वैरिणी, वेश्या च।
तुषारलेशाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः।
अगूढभावाऽपि विलोकने सा न लोचने मीलयितुं विषेहे॥ १४२॥
कन्यारत्‍नमयोनिजन्म भवतामास्ते वयं चार्थिनो रत्‍नं यत् क्‍वचिदस्ति तत् परिणमत्यस्मासु शक्रादपि।
कन्यायाश्च परार्थतैव हि मता, तस्याः प्रदानादहं बन्धुर्वो भविता, पुलस्त्यपुलहप्रष्ठाश्च सम्बन्धिनः॥ १४३॥
← Previous (Ch. 14) Full Table of Contents Next (Ch. 16) →