Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 15

Prakāśa 15: रत्यालम्बनविभावप्रकाशः

प्रकाशः 15 • रत्यालम्बनविभावप्रकाशः

Prakāśa 15 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1849 Verses • Citations: SP 15.1–1849 • 4 Lexicon Terms • Page 2 of 62 (Verses 30 shown)
१. गुणतः उत्तमः, मध्यमः, कनिष्ठ इति।
२. प्रकृतेः सात्त्विको राजसस्तामस इति।
३. प्रवृत्तेरनुकूलो दक्षिणः शठो धृष्ट इति।
४. परिग्रहादसाधारणः साधारण इति। तेषु—
महाकुलीनतादिचतुर्विंशतिगुणयोगादुत्तमः; यथा—
रामोऽसौ जगतीह विक्रमगुणैर्यातः प्रसिद्धिं परा— मस्मद्भाग्यविपर्ययाद् यदि परं देवो न जानाति तम्।
वन्दीवैष यशांसि गायति मरुद् यस्यैकबाणाहति— श्रेणीभूतविशालसालविवरोद्गीर्णैः स्वरैः सप्‍तभिः॥ ६॥
पादोनगुणसम्पद्योगान्मध्यमः यथा—(वेसं. ५.२७)
सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः।
रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वा मध्यमः पाण्डवोऽयम्॥ ७॥
अर्धगुणसम्पद्योगात् कनिष्ठः; यथा—
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः॥ ८॥
सत्त्वोत्कर्षात् सात्त्विकः; यथा—(उरा. ६.१३)
शक्‍त्या वक्षसि मग्‍नया सह मया मूढे प्लवङ्गाधिपे विद्राणेषु च विद्रवत्सु कपिषु प्राप्‍तावकाशो द्विषि।
मा भैष्टेति निरुन्धतः कपिबलान्यस्योद्भटभ्रूस्थिते— र्मर्मच्छेदविंसस्थुलाक्षरपदा वाचस्त्वया न श्रुताः॥ ९॥
रजउत्कर्षाद् राजसः; यथा—(रघु. १९.१३)
अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे।
वल्लकी च हृदयङ्गमस्वना मञ्जुवागपि च वामलोचना॥ १०॥
यो यः शस्‍त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां॰॥ ११॥
हृदयङ्गमप्रवृत्तिरनुकूलः; यथा—
किमिति कबरी यादृक्‌तादृग् ? दृशौ किमकज्जले ? न खलु लिखिताः पात्राङ्गुल्यः पत्रावल्यः किमद्य कपोलयोः।
अयमयमयं किञ्च क्लाम्यत्यसंस्मरणेन ते शशिमुखि ! सखीहस्तन्यस्तो विलासपरिच्छदः॥ १२॥
औपरोधिकप्रवृत्तिर्दक्षिणः; यथा—(रत्‍नाव. १.२५)
देवि ! त्वन्मुखपङ्कजेन शशिनश्छायातिरस्कारिणा पश्‍याब्जानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम्।
← Previous (Ch. 14) Full Table of Contents Next (Ch. 16) →