Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 15

Prakāśa 15: रत्यालम्बनविभावप्रकाशः

प्रकाशः 15 • रत्यालम्बनविभावप्रकाशः

Prakāśa 15 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1849 Verses • Citations: SP 15.1–1849 • 4 Lexicon Terms • Page 5 of 62 (Verses 30 shown)
६. धीरोद्धतधृष्टो यथा—(माघ. ११.३४)
नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम्।
प्रतिदिशमपरस्‍त्रीसङ्गशंसी विसर्पन् नवपरिमलगन्धः केन शक्यो वरीतुम् ?॥ ३१॥
७. धीरोद्धतासाधारणो यथा—(मामा.५.३२)
धैर्यं निधेहि हृदये हत एष पापः किंवा कदाचिदपि केनचिदन्वभावि।
सारङ्गसंहृतिविधाविभकुम्भकूटकुट्टाकपाणिकुलिशस्य हरेः प्रमादः॥ ३२॥
लाक्षागृहानलविषान्नसभाप्रवेशैः॥ ३३॥
९. धीरोद्धतासाधारणानुकूलो यथा—(मामा. ७.४)
अद्योर्जितं विजितमेव मया किमन्यदद्योत्सवः फलवतो मम यौवनस्य।
यस्य प्रसादसुमुखेन समुद्यतेयं देवेन बान्धवधुरा मकरध्वजेन॥ ३४॥
१०. धीरोद्धतसाधारणानुकूलो यथा—(वेसं. १.२०)
चञ्चद्भ‍ुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य।
स्त्यानावबद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि ! भीमः॥ ३५॥
११. धीरोद्धतासाधारणदक्षिणो यथा—(मामा. ६.२०)
आमूलकण्टकितकोमलबाहुनालमार्द्राङ्गुलीदलमनङ्गनिदाघतप्‍तः।
अस्याः करेण करमाकलयामि कान्तमारक्तपङ्कजमिव द्विरदः सरस्याः॥ ३६॥
१२. धीरोद्धतदक्षिणसाधारणो यथा—
आकृष्टां नटरावणेन सहसा दृष्ट्वा पुरो जानकीं— मन्तः—क्षोभ—विजृम्भमाण—भयद—भ्रूभङ्ग—भीमाकृतेः ।
शार्ङ्गास्फालकृतोद्यमे भयकरस्पृष्टाग्रभूमेः क्रुधा राधां/मां वीक्ष्य हरेः प्रकान्ति जयति व्रीडावनम्रं मुखम्॥ ३७॥१
१३. धीरोद्धतासाधारणशठो यथा—
वनभुवि सह पत्या प्रस्थितां वीक्ष्य सीतां गृहिणमनुयियासुर्जानकी शोकनिष्ठा।
गुरु—गुरुजन—लज्जाऽऽनम्र—वक्त्राऽम्बुजेन भ्रुकुटिपुटनिबन्धाद् वारिता लक्ष्मणेन॥ ३८॥२
१४. धीरोद्धतसाधारणशठो यथा—
तं तिअसकुसुमदामं हरिणा णिग्गहिअ—सुरहि—गंधामोअं।
अप्पपिणइअं पि दूमिअ—पणइणि—हिअएण रुप्पिणीअ विइण्णं॥ ३९॥
(तत् त्रिदशकुसुमदाम हरिणा निर्गतसुरभिगन्धामोदम्।
आत्मना नीतमपि दून—प्रणयिनी—हृदयेन रुक्मिण्यै वितीर्णम्॥)
१५. धीरोद्धतासाधारणधृष्टो यथा—(वेसं. २.२०)
← Previous (Ch. 14) Full Table of Contents Next (Ch. 16) →