Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 15

Prakāśa 15: रत्यालम्बनविभावप्रकाशः

प्रकाशः 15 • रत्यालम्बनविभावप्रकाशः

Prakāśa 15 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1849 Verses • Citations: SP 15.1–1849 • 4 Lexicon Terms • Page 1 of 62 (Verses 30 shown)
शृङ्गारप्रकाशे पञ्चदशः प्रकाशः
रत्यालम्बनविभावप्रकाशः
यदुक्तं१ 'तैः सविभावानुभावैः प्रकाशमानः शृङ्गारो विशेषतः स्वदते', तत्र प्रायेण रतिप्रीत्यै विभावादीन् उदाहरणतो वक्ष्यामः।
द्विविधो विभावः — आलम्बनविभाव उद्दीपनविभावश्च।
यमालम्ब्य रत्यादय उत्पद्यन्ते स आलम्बनविभावो नायकादिः। तत्र—
नायकश्चतुर्धा धीरोदात्त—धीरोद्धत—धीरललित—धीरप्रशान्तभेदात्।
धैर्यं हि नाम नायकव्यपदेशहेतुरिन्द्रियाविकारकारणं चित्तधर्मः, येन सतां
सत्यपि गर्वादिहेतौ गुणसमूहे नोत्सेकादयो जायन्ते॥ १॥
तद्(धैर्यं) यत्र गुणसन्निवेशचारुत्वादुदात्तं स धीरोदात्तः। यथा—
कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतशालिनी॥ २॥
यत्र गुणानां हीनाधिकयोगादुपहतं (धैर्यं) स धीरोद्धतः। यथा— (उराच. ६.१९)
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम्।
कौमारकेऽपि गिरिवद् गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एषः॥ ३॥
यत्र तु सन्निवेशसौकुमार्याद् विलासमसृणं (धैर्यं) स धीरललितः। यथा—(कुसं.२.६४)
अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्ज्य कण्ठे।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्‍त्रः शतमुखमुपतस्थे प्राञ्जलिः पुष्पधन्वा॥ ४॥
तत्र त्वमीषामेव शास्‍त्रार्थावगमपरिणत्या तदतिसत्त्वोत्तरं स धीरप्रशान्तः। यथा—
१. अत्रैव ६१६ पृष्ठे प्रथमपङ्क्तौ।
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः।
तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना॥ ५॥
त एते गुणप्रकृतिप्रवृत्तिपरिग्रहभेदाद् यथासम्भवं द्वादशधा भवन्ति।
← Previous (Ch. 14) Full Table of Contents Next (Ch. 16) →