अनुबन्धो यथा—(किराता. १७.८)
तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य।
निर्वापयिष्यन्निव रोषतस्तं प्रस्नापयामास मुखं निदाघः॥ ६९॥
प्रकर्षो यथा—(सूमु. १०)
करस्पर्शानन्दात् पुलकितपृथूरोजकलशे श्रमाम्भो वामार्धे वमति मदनाकूतसुलभम्।
विभोर्वारं वारं कृतसमाधिकोद्धूलनविधिः/धे— स्तनौ भस्मस्नानं कथमपि समाप्तं विजयते॥ ७०॥
सम्पर्को यथा—(माघ. १०.८०)
प्राप्य मन्मथमदादतिभूमिं दुर्वहस्तनभराः सुरतस्य।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः॥ ७१॥
अनुगमो यथा—(रघु. ८.५१)
सुरतश्रमवारिबिन्दवो न तु तावद् विरमन्ति ते मुखे।
स्वयमस्तमितास्यहो! बत क्षयिणां देहभृतामसारता॥ ७२॥
(१८. स्वरभेदः)
हर्षादिजन्मा वाग्भङ्गः स्वरभेदः। तस्य
जन्म यथा—
वासिष्ठैः सुकृतोद्भवोऽध्वरशतैरस्त्यग्निकुण्डोद्भवो भूपालः परमार इत्यधिपतिः सप्ताब्धिकाञ्चेर्भुवः।
अद्याप्युद्गतहर्षगद्गदगिरो गायन्ति यस्यार्बुदे विश्वामित्रजयोज्झितस्य भुजयोर्विस्फूर्जितं गुर्जराः॥ ७३॥
(तिम.)
अनुबन्धो यथा—(रघु. ८.४३)
विलकाप स बाष्पगद्गदः सहजामप्यवधूय धीरताम्।
अभितप्तमयोऽपि मार्दवं भजते; कैव कथा शरीरिषु॥ ७४॥
प्रकर्षो यथा—(उराच. १.१२)
आनन्दाश्रुतरङ्गलोचनयुगं मार्गार्पितं बिभ्रती हर्षाद् गद्गदया गिरा परिजनं व्यापारयन्ती मुहुः।
सैषा स्वाशयनिर्विकल्पहृदया सौख्याच्चिरप्रार्थिता— दम्बा निष्करुणेन दग्धविधिना दूरं विसंवादिता॥ ७५॥
संपर्को यथा—(सूमु. ३)
पि पि प्रिय स स स्वयं मु मु मुखासवं देहि मे त त त्यज दु दु द्रुतं भ भ भ भाजनं काञ्चनम्।
इति स्खलितजल्पितं मदवशात् कुरङ्गीदृशः प्रगे हसितहेतवे सहचरीभिरध्यैयत॥ ७६॥
अनुगमो यथा—(किराता. ९.५०)
पाणिपल्लवविधूननमन्तस्सीत्कृतानि नयनार्धनिमेषाः।
योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य॥ ७७॥