Skip to main content
Search
RV
Raghuvaṁśam • Chapter 08

Canto 8

अष्टमः सर्गः (अजविलापः)

Canto 8 of Raghuvaṁśam.

Total: 95 Verses • Citations: RV 8.1–95 • 1 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
RV 8.61 वियोगिनी
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ । अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसांप्रतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मिथुनमिति॥ ननु हे प्रिये! सहकारस्तरुविशेषः फलिनी प्रियंगुलता चेमौ त्वया मिथुनं परिकल्पितं मिथुनत्वेनाभ्यमानि। अनयोः फलिनी-सहकारयोर्विवाहसत्क्रियां विवाहमङ्गलमविधायाकृत्वा गम्यत इत्यसांप्रतमुक्तम्। मातृहीनानां न किंचित्सुखमस्तीति भावः ॥
RV 8.62 गीति
कुसुमं कृतदोहदस्त्वया यदशोकोऽयतमुदीरयिष्यति । अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम्? ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कुसुममिति॥ वृक्षादिपोषकं दोहदम्। त्वया कृतं दोहदं पादताडनरूपं यस्य सोऽयमशोको यत्कुसुममुदीरयिष्यति प्रसविष्यते। तवालकानामाभरममाभरणभूतं तत्कुसुममुदीरयिष्यति प्रसविष्यते। तवालकानामाभरणमाभरणभूतं तत्कुसुमं कथं नु केन प्रकारेण निवापमाल्यतां दाहाञ्जलेरर्ध्यतां नेष्यामि? `निवापः पितृदानं स्यात्` इत्यमरः ॥
RV 8.63 वियोगिनी
स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् । अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि! शोच्यसे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्मरतेति॥ अन्यदुर्लभम्। किंतु स्मर्तव्यमेवेत्यर्थः। सशब्दं ध्वनियुक्तं नूपुरं मञ्जीरं यस्य तं चरणेनानुग्रहं पादेन ताडनरूपं स्मरतेव चिन्तयतेव कुसुमान्येवाश्रूणि तद्वर्षिणाऽमुना पुरोवर्तिनाऽशोकेन। हे सुगात्रि!`अङ्गगात्रकण्ठेभ्यश्च` इति वक्तव्यान्ङीप्। त्वं शोच्यसे ॥
RV 8.64 वियोगिनी
तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया । असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि! सुप्यते? ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तवेति॥ तव निःश्वसितानुकारिभिर्बकुलैर्बकुसुमैर्मया समं सार्धमर्धचितामर्धं यथा तथा रचितां विलासमेखलामसमाप्यापूरयित्वा। किंनरस्य देवयोनिविशेषस्य कण्ठ इव कण्ठो यस्यास्तत्संबुद्धिर्हे किन्नरकण्ठि!`अङ्गगात्रकण्ठेभ्यश्च` इति ङीप्। किमिदं सुप्यते निद्रा क्रियते? `वचिस्वपि-` (पा.6।1।15)इत्यादिना संप्रसारणम्। अनुचितमिदं स्वपनमित्यर्थः ॥
RV 8.65 वियोगिनी
समदुःखसुखः सखीजनः प्रतिपञ्चन्द्रनिभोऽयमात्मजः । अहमेकरसस्तथापि ते व्यवसायः प्रतिपात्तिनिष्ठुरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): समेति॥ सखीजनः समदुःखसुखः, त्वद्दुःखेन दुःखी, त्वत्सुखेन सुखीत्यर्थः। अयमात्मजो बालः, प्रतिपञ्चन्द्रनिभः। दर्शनीयो वर्धिष्णुश्चेत्यर्थः। `प्रतिपत्`शब्देन द्वितीया वक्षअयते; प्रतिपदि चन्द्रस्यादर्शनात्। अहमेकरसोऽभिन्नरामः। `शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः` इत्यमरः (अ.को.3|3|242)। तथापि। जीवितसामग्रीसत्त्वेऽपीत्यर्थः। ते तव व्यवसायोऽस्मत्परित्यागरूपो व्यापारः प्रतिपत्त्या निश्चयेन निष्ठुरः क्रूरः। `प्रतिपत्तिः पदप्राप्तौ प्रकृतौ गौरवेऽपि च। प्रागल्भ्ये च प्रबोधे च` इति विश्वः। स्मर्तुं न् शक्यः किमुताधिकर्तुमिति भावः ॥
RV 8.66 वियोगिनी
धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः । गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): धृतिरिति॥ अद्य मे धृतिर्धैर्यं प्रतीतिर्वाऽस्तं नाशमिता। रतिः क्रीडाच्युता गता। गेयं गानं विरतम्। ऋतुर्वसन्तदिर्निरुत्सवः। आभरणानां प्रयोजनं गतमपगतम्। शेतेऽस्मिन्निति शयनीयं तल्पम्। `कृत्यल्युटो बहुलम्` (पा.3।3।113)इत्यधिकरणार्थेऽनीयर्प्रत्ययः। परिशून्यम्। त्वां विना सर्वमपि निष्फलमिति भावः ॥
गृहीणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गृहीणीति॥ त्वमेव गृहिणी दाराः। अनेन सर्वं कुटुम्बं त्वदाश्रयमिति भावः। सचिवो बुद्धिसहायो मन्त्री। सर्वो हितोपदेशस्त्वदायत्त इत्यनेनोच्यते। मिथो रहसि सखी नर्मसचिवः। सर्वोपभागस्त्वदाश्रय इत्यमुना प्रकटितम्। ललिते मनोहरे कलाविधौ वादित्रादिचतुःषष्टिकलाप्रयोगे प्रियशिष्या। प्रियत्वं प्राज्ञत्वादित्यभिसंधिः। सर्वानन्दोऽनेन त्वन्निबन्धन इत्युद्वाटितम्। अतस्त्‌वां समष्टिरूपां हरताऽत एव करुणाविमुखेन कृपाशून्येन मृत्युना मे मत्संबन्धि किं वत्सु न हृतं वद। सर्वमपि हृतमित्यर्थः ॥
RV 8.68 वियोगिनी
मदिराक्षि! मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे । अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मदिरेति॥ माद्यत्यनयेति मदिरा लोकप्रसिद्धा। तथापि `नार्यो मदिरलोचनाः` इत्यादिप्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे आक्षिणी यस्यास्तत्संबुद्धिर्हे मदिराक्षि! मदाननेनार्पितं रसवत् स्वादुतरं मधु मद्यं पीत्वा बाष्पदूषितमश्रुतप्तं परलोकोपनतं परलोकप्राप्तं मे जलाञ्जलिं तिलोदकाञ्जलिं कथं न्वननन्तरं पास्यसि? तदनन्तरमिदमनर्हमित्यर्थः। यथाह भट्टमल्लः-`अनुपानं हिमजलं यवगोधूमनिर्मिते। दध्नि मद्ये विषे द्राक्षे पिष्टे पिष्ठमयेऽपि च॥` इति । तञ्चेहैव युज्यते। इदं तूष्णं लोकान्तरोपयोगि चेत्यायुर्वेदविराधात्कथमनुपास्यसीति भावः ॥
RV 8.69 वियोगिनी
विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् । अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विभव इति॥ विभव ऐश्वर्ये सत्यपि त्वया विनाऽजस्यैतावदेव सुखं गण्यताम्। यावत्त्या सह भुक्ते ततोऽन्यन्न किंचिद्भविष्यतीत्यर्थथः। कुतः? विलोभनान्तरैरन्यैर्विशेषेण लोभजनकवस्तुभिरैश्वर्यादिभिरहृतस्यानाकृष्टस्य मम सर्वे विषया भोगादयः। त्वदाश्रयास्त्वदधीनाः। त्वां विना मे न किंचिद्रोचत इत्यर्थः ॥
RV 8.70 वियोगिनी
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति । अकरोत्पृथिवीरुहानपि स्रुतशाखारसबाष्पदूषितान् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विलपन्निति॥ कोसलानामधिपोऽज इति करुणः शोकरसः स एवार्थस्तेन ग्रथितं संबद्धं यथा तथा प्रियां प्रतीन्दुमतीमुद्दिश्य विलपन्, पृथिवीरुहान् वृक्षानपि स्रुताः शाखारसा मकरन्दा एव बाष्पास्तैर्दूषितानकरोत्। अचेतनानप्यरोदयदित्यर्थः ॥
RV 8.71 वियोगिनी
अथ तस्य कथंचिदङ्कतः स्वजनस्तामपनीय सुन्दरीम् । विससर्ज तदन्त्यमण्डनामनलायागुरुचन्दनैधसे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ स्वजनो बन्धुवर्गः। तस्याजस्याङ्कत उत्सङ्गात् कथंचिदपिनीय। तद्दिव्यकुसुममेवान्त्यं मण्डनमलंकारो यस्यास्ताम्। तां सुन्दरीमगुरूणि चन्दनान्येधांसीन्धनानि यस्य तस्मा अनलायाग्नये विससर्ज विसृष्टवान्। `क्रियाग्रहणमपि कर्तव्यम्` इति क्रियामात्रप्रयोगे संप्रदानत्वाञ्चतुर्थी ॥
RV 8.72 वियोगिनी
प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् । न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रमदामिति॥ नृपतिरजः सन्नपि विद्धानपि शुचा शोकेन प्रमदामनुप्रमदया सह संस्थितो मृत इति वाच्यदर्शनान्निन्दादर्शनाद्देव्येन्दुमत्या सह शरीरमग्निसादग्न्यधीनं न चकार। `तदधीनवचने` (पा.5।4।54) इति सातिप्रत्ययः। जीविताशया प्राणेच्छया तु नेति ॥
RV 8.73 वियोगिनी
अथ तेन दशाहतः परे गुणशेषामपदिश्य भामिनीम् । विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ विदुषा शास्त्रज्ञेन तेनाजेन। गुणा एव शेषा रूपादयो यस्यास्तां गुणशेषां भामिनीमिन्दुमतीमपदिश्योद्दिश्य। दशानामह्रां समाहारो दशाहः। `तद्धितार्थ-` (पा.2।1।51) इत्यादिना समासः। समाहारस्यैकत्वादेकवचनम्। `राजाहःसखिभ्यष्टच्` (पा.5।4।51) इति टच्। `रात्राह्राहाः पुंसि` (पा.2।4।29) इति पुंवत्। ततस्तसिल्। तस्माद्दशाहतः पर ऊर्ध्वं कर्तव्या महर्द्धयो महासमृद्धयो विधयः क्रियाः पुरः पुर्या उपवन उद्यान एव समापिताः संपूर्णमनुष्ठिताः। `दशाहतः` इत्यत्र `विप्रः शुद्ध्योद्दशाहेन द्वादशाहेन भूमिपः`(5।83) इति मनुवचनविरोधो नाशङ्कनीयः; तस्य निर्गुणक्षत्रियविषयत्वात्। गुणवत्क्षत्रियस्य तु दशाहेन शुद्धिमाह पराशरः-`क्षत्रियस्तु दशाहेन स्वधर्मनिरतः शुचिः`इति। सूच्यतेऽस्यापि गुणवत्त्वं `विदुषा` इत्यनेन ॥
RV 8.74 वियोगिनी
स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः । परिवाहमिवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ तयेन्दुमत्या विना। क्षणदाया रात्रेरपायेऽपगमे यः शशाङ्कश्चन्द्रः स इव दृश्यत इति क्षणदापायशशाङ्कदर्शनः। प्रातःकालिकचन्द्र इव दृश्यमान इत्यर्थः। दृश्यत इति कर्मार्थे ल्युट्। सोऽजः पौरवधूमुखाश्रुषु स्वशुचः स्वशोकस्य परिवाहं जलोच्छ्वासमिवावलोकयन्। `जलोच्छ्वासाः परीवाहाः` इत्यमरः (अ.को.1|10|10)। स्वदुःखपूरातिशयमिव पश्यन् पुरीं विवेश। `वधू`ग्रहणात्तस्यामिन्दुमत्यां सख्याभिमानादजसमानदुःखसूचकपरीवाहोक्तिर्निर्वहति ॥
RV 8.75 वियोगिनी
अथ तं सवनाय दीक्षितः प्रणिधानाद्गुरुराश्रमस्थितः । अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ सवनाय यागाय दीक्षितो गुरुर्वसिष्ठ आश्रमे स्वकीयाश्रमे स्थितः सन्। तमजमभिषङ्गजडं दुःखमोहितं प्रणिधानाञ्चित्तैकाग्र्याद्विजज्ञिवाञ्ज्ञातवान्। `क्वसुश्च` (पा.3।2।107) इति क्वसुप्रत्ययः। इति वक्ष्यमाणप्रकारेण शिष्येणान्वबोधयत्किल। बुधेर्ण्यन्ताण्णिचि लङ् ॥
RV 8.76 वियोगिनी
असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् । न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुं पथश्च्युतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): असमाप्तेति॥ यतो हेतोर्मुनिरसमाप्तविधिरसमाप्तक्रतुस्ततस्तव तापकारणं दुःखहेतुं कलत्रनाशरूपं विद्वाञ्जानन्निपि । `विदेः शतुर्वसुः` (पा.7।1।36) इति वस्वादेशः। `न लोक-` (पा.2।3।69)इत्यादिना षष्ठीप्रतिषेधः। पथश्च्युतं स्वभावाद्भ्रष्टं भवन्तं प्रकृतौ स्वभावे स्थापयितुम्। समाश्वासयितुमित्यर्थः। स्वयं नोपस्थितो नागतः ॥
RV 8.77 वियोगिनी
मयि तस्य सुवृत्त! वर्तते लघुसंदेशपदा सरस्वती । श्रृणु विश्रुतसत्त्वसार! तां हृदि चैनामुपधातुमर्हसि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मयीति॥ हे सुवृत्त सदाचार! संदिश्यत इति संदेशः संदेष्टव्यार्थः। तस्य पदानि वाचकानि लघूनि संक्षिप्तानि संदेशपदानि यस्यां सा लघुसंदेशपदा तस्य मुनेः सरस्वती वाक् मयि वर्तते। हे विश्रुतसत्त्वसार प्रख्यातधैर्यातिशय। तां सरस्वतीं शुणु। एनां वाचं हृद्युपधातुं धर्तुं चार्हसि ॥
RV 8.78 वियोगिनी
पुरुषस्य पदेष्वजन्मनः समतीतं च भवञ्च भावि च । स हि निष्प्रतिधेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पुरुषस्येति॥ अजन्मनः पुराणपुरुषस्य भगवतस्त्रिविक्रमस्य पदेषु विक्रमषु। त्रिभुवनेष्वपीत्यर्थः। समतीतं भूतं च भवद्वर्तमानं च भावि भविष्यञ्चेति त्रितयं स मुनिर्निष्प्रतिधेनाप्रतिबन्धेन ज्ञानमयेन चक्षुषा ज्ञानदृष्ट्या पश्यति हि। अतस्तदुक्तिषु न संशयितव्यमित्यर्थथः॥
RV 8.79 वियोगिनी
चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा । प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): चरत इति॥ पुरा किल दुश्चरं तीव्रं तपश्चरतस्तृणबिन्दोस्तृणबिन्दुनामकात्कस्माञ्चिदृषेः परिशङ्कितो भीतः। कर्तरि क्तः। `भीत्रार्थानां भयहेतुः` (पा.1।4।25)इत्यपादानात्पञ्चमी। हरिरिन्द्रः समाधिभेदिनीं तपोविघातिनीं हरिणीं नाम सुराङ्गनामस्मै तृणबिन्दवे प्रजिघाय प्रेरितवान् ॥
RV 8.80 वियोगिनी
स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम् । अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा भुवि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स मुनिः। शमः शान्तिरेव वेला मर्यादा यस्याः। प्रलयोर्मिणा प्रलवकासतरङ्गेण। शमविघातकेनेत्यर्थः। `अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि` इत्यमरः (अ.को.3|3|207)। तपसः प्रतिबन्धेन विघ्नेन यो मन्युः क्रोधस्तेन हेतुना। प्रमुखेऽग्रे आविष्कृतचारुविभ्रमां प्रकाशितमनोहरविलासां तां हरिणीं भुवि भूलोके मानुषी मनुष्यस्त्री भवेत्यशपच्छशाप ॥
RV 8.81 वियोगिनी
भगवन्! परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे । इति चोपनतां क्षितिस्पृशं कृतवाना सुरपुष्पदर्शनात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भगवन्निति॥ हे भगवन्महर्षे! अयं जनः। परोऽस्यास्तीति स्वामित्वेन परवान् पराधीनः। `अयम्` इत्यात्मनिर्देशः। अहं पराधीनेत्यर्थः। मे मम प्रतिकूलाचरितमपरराधं क्षमस्वेत्यनेन प्रकारेणोपनतां शरणागतां च हरिणीमा सुरपुष्पदर्शनात् पुष्पदर्शनपर्यन्तम्। क्षितिं स्पृशतीति क्षितिस्पृक्, तां क्षितिस्पृशं मानुषीं कृतवानकरोत्। दिव्यपुष्पदर्शनं शापावधिरित्यनुगृहीतवानित्यर्थः ॥
RV 8.82 वियोगिनी
क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा । उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्रथेति॥ क्रथकैशिकानां राज्ञां वंशे संभवो यस्याः सा हरिणी तव भहिष्यभिषिक्ता स्त्री। `कृताभिषेका महिषी` इत्यमरः (अ.को.2|6|5)। भूत्वा चिराय दिवः स्वर्गाञ्च्युतं पतितं शापनिवृत्तिकारणं सुरपुष्परूपलब्धवती विवशा। अभूदिति शेषः। मृतेत्यर्थः॥
RV 8.83 वियोगिनी
तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता । वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तत्तस्मात्तस्या अपायचिन्तयाऽलम्। तस्य मरणं न चिन्त्यमित्यर्थः। निषेधक्रियां प्रति करणत्वाञ्चिन्तयेति तृतीया। कुतो न चिन्त्यमत आह-उत्पत्तिमतां जन्मवतां विपद्विपत्तिरुपस्थिता सिद्धा। जातस्य हि ध्रुवो मृत्युरित्यर्थः। तथापि कलत्ररहितस्य किं जीवितेन तत्राह-त्वयेयं वसुधा भूमिरवेक्ष्यतां पाल्यताम्। हि यस्मान्नृपा वसुमत्यां पृथिव्या कलत्रिणः कलत्रवन्तः। अतो न शोचितव्यमित्यर्थः॥
RV 8.84 वियोगिनी
उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया । मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उदय इति॥ उदयेऽभ्युदये सति मदेन यद्वाच्यं निन्दादुःखं तदुज्झता परिहरता सत्यपि मदहेतावमाद्यता त्वया यदात्मवदध्यात्मप्रचुरं श्रुतं शास्त्रम्। तज्जनितं ज्ञानमिति यावत्। आविष्कृतं प्रकाशितम्। तच्छ्रुतं मनसो ज्वरेसंताप उपस्थित प्राप्तेऽक्लीबतया धैर्येण लिङ्गेन पुनः प्रकाश्यताम्। विदुषा सर्वास्ववस्थास्वपि धीरेण भवितव्यमित्यर्थः ॥
RV 8.85 वियोगिनी
रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते । परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रुदतेति॥ रुदता भवता सा कुत एव लभ्यते? न लभ्यत एव। अनुम्रियत इत्यनुमृत्। क्विप्। तेनानुमृतानुमृतवताऽपि भवता पुनर्न लभ्यते। कथं न लभ्यत इत्याह-परलोकजुषां लोकान्तरभाजां देहिनाम्। गम्यत इति गतयो गम्यस्थानानि स्वकर्मभिः पूर्वाचरितपुण्यपापैर्भिन्नपथाः पृथक्कृतमार्गा हि। परत्रापि स्वस्वधर्मानुरूपफलभोगाय भिन्नदेहगमनान्न मृतेनापि लभ्यत इत्यर्थः ॥
RV 8.86 वियोगिनी
अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिः । स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अपेति॥ किंतु, अपशोकमना निर्दुःखचित्तः सन् कुटुम्बिनीं पत्नीं निवापदत्तिभिः पिण्डोदकादिदानैरनुगृह्णीष्व। तर्पयेत्यर्थः। अन्यथा दोषमाह-अतिसंततमविच्छिन्नं स्वजनानां बन्धूनाम्। `बन्धुस्वस्वजनाः समाः` इत्यमरः (अ.को.2|6|34)। अश्रु कर्तृ प्रेतं मृतं दहतीति प्रचक्षते मन्वादयः किल। अत्र याज्ञवल्क्यः (याज्ञ.प्राय.1।11)-`श्लेष्माश्रु बन्धिभिर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः। अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥` इति ॥
RV 8.87 वियोगिनी
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मरणमिति॥ शरीरिणां मरणं प्रकृतिः स्वभावः। ध्रुवमित्यर्थः। जीवितं विकृतिर्यादृच्छिकं बुधैरुच्यते। एवं स्थिते जन्तुः प्राणी क्षणमपि। अत्यन्तसंयोगे द्वितीया। श्वसञ्जिवन्नवतिष्ठते। यद्यसौ क्षणजीवी लाभवान्ननु। जीवने यथालाभं संतोष्टव्यम्;अलभ्यलाभात्, मरणे तु न शोचितव्यम्; अस्य स्वाभाव्यादिति भावः ॥
RV 8.88 वियोगिनी
अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अवेति॥ मूढचेतनो भ्रान्तबुद्धिः प्रियनाशमिष्टनाशं हृद्यर्पितं निखातं शल्यं शङ्कुमवगच्छति मन्यते। स्थिरधीर्विद्धांस्तु तदेव शल्यं समुद्धृतमुत्खातं मन्यते। प्रियनाशे सतीति शेषः। कुतः? कुशलद्वारतया। प्रियनाशस्य मोक्षोपायतयेत्यर्थः। विषयलाभविनाशयोर्यथाक्रमं हिताहितसाधनत्वामिमानः पामरणाम्। विपरीतं तु विपश्चितामिति भावः ॥
RV 8.89 वियोगिनी
स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा । विरहः किमिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्वेति॥ स्वस्य शरीरशरीरिणौ देहात्मानावपि यदा यतः श्रुतौ श्रुत्यवगतौ संयोगविपर्ययौ संयोगवियोगौ ययोस्तौ तथोक्तौ। तदा बाह्यैर्विषयैः पुत्रमित्रकलत्रादिभिर्विरहो विपश्चितं विद्वांसं किमिवानुतापयेत्त्वं वद। न किंचिदित्यर्थः। अथवा, -`स्व`शब्दस्य शरीरेणैव संबन्धः ॥
RV 8.90 वियोगिनी
न पृथग्जनवच्छुचो वशं वशिनामुत्तम! गन्तुमर्हसि । द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ वशिनामुत्तम जितेन्द्रियवर्य! पृथग्जनवत् पामरजनवत् शुचः शोकस्य वशं गन्तुं नार्हसि। तथा हि द्रुमसानुमतां तरुशिखरिणां किमन्तरं को विशेषः? वायौ सति द्वितयेऽपि द्विप्रकारा अपि। `प्रथमचरम-` (पा.1।1।33)इत्यादिना जसि विभाषया सर्वनामसंज्ञा। ते द्रुमसानुमन्तश्चलाश्चञ्चला यदि। सानुमतामपि चलने द्रुमवत्तेषामप्यचलसंज्ञा न स्यादित्यर्थः ॥
← Previous (Ch. 7) Full Table of Contents Next (Ch. 9) →