Skip to main content
Search
Ch. 8 RV 8.86
Full Chapter
RV • Chapter 8: Canto 8

RV 8.86

Canonical Ref: RV 8.86
Metrical Form: वियोगिनी
Sanskrit (Devanāgarī)
अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिः । स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अपेति॥ किंतु, अपशोकमना निर्दुःखचित्तः सन् कुटुम्बिनीं पत्नीं निवापदत्तिभिः पिण्डोदकादिदानैरनुगृह्णीष्व। तर्पयेत्यर्थः। अन्यथा दोषमाह-अतिसंततमविच्छिन्नं स्वजनानां बन्धूनाम्। `बन्धुस्वस्वजनाः समाः` इत्यमरः (अ.को.2|6|34)। अश्रु कर्तृ प्रेतं मृतं दहतीति प्रचक्षते मन्वादयः किल। अत्र याज्ञवल्क्यः (याज्ञ.प्राय.1।11)-`श्लेष्माश्रु बन्धिभिर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः। अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥` इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 8.86. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 8.85) All Verses in Chapter 8 Next Verse (RV 8.87) →