Skip to main content
Search
Ch. 8 RV 8.83
Full Chapter
RV • Chapter 8: Canto 8

RV 8.83

Canonical Ref: RV 8.83
Metrical Form: वियोगिनी
Sanskrit (Devanāgarī)
तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता । वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तत्तस्मात्तस्या अपायचिन्तयाऽलम्। तस्य मरणं न चिन्त्यमित्यर्थः। निषेधक्रियां प्रति करणत्वाञ्चिन्तयेति तृतीया। कुतो न चिन्त्यमत आह-उत्पत्तिमतां जन्मवतां विपद्विपत्तिरुपस्थिता सिद्धा। जातस्य हि ध्रुवो मृत्युरित्यर्थः। तथापि कलत्ररहितस्य किं जीवितेन तत्राह-त्वयेयं वसुधा भूमिरवेक्ष्यतां पाल्यताम्। हि यस्मान्नृपा वसुमत्यां पृथिव्या कलत्रिणः कलत्रवन्तः। अतो न शोचितव्यमित्यर्थः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 8.83. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 8.82) All Verses in Chapter 8 Next Verse (RV 8.84) →