Skip to main content
Search
RV
Raghuvaṁśam • Chapter 08

Canto 8

अष्टमः सर्गः (अजविलापः)

Canto 8 of Raghuvaṁśam.

Total: 95 Verses • Citations: RV 8.1–95 • 1 Lexicon Terms • Page 2 of 4 (Verses 30 shown)
RV 8.31 वियोगिनी
बलमार्तभयोपशान्तये विदुषां सत्कृतये बहु श्रुतम् । वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): बलमिति॥ तस्य विभोरजस्य केवलं वसु धनमेव परप्रयोजनं परोपकारकं नाभूत्। किंतु गुणवत्तापि गुणत्वमपि परप्रयोजना परेषामन्येषां प्रयोजनं यस्यां सा। विधेयांशत्वेन प्राधान्याद्गुणवत्ताया विशेषणं विस्वित्यत्र तूहनीयम्। तथा हि-बलं पौरुषमार्तानामापन्नानां भयस्योपशान्तये निषेधाय। न तु स्वार्थं परपीडनाय वा। बहु भूरि श्रुतं विद्या विदुषां सत्कृतये सत्काराय। न तृत्सेकाय बभूव तस्य धनं परोपयोगीति किं वक्तव्यम्। बलश्रुतादयोऽपि गुणाः परोपयोगिन इत्यर्थः ॥
RV 8.32 वियोगिनी
स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः । नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ अवेक्षितप्रजोऽकुतोभयत्वेनानुसंहितप्रजः। `नित्यमसिच्प्रजामेधयोः` (पा.5।4।122) इत्यसिच्प्रत्ययः। न केवलं स्त्रैण इति भावः। शोभना प्रजा यस्यासा सुप्रजाः सुपुत्रवान्। पुत्रन्यस्तभार इति भावः। सोऽजः कदाचिद्देव्या महिष्येन्दुमत्या सह नगरोपवने। नन्दने नन्दनाख्येऽमरावत्युपकण्ठवने शचीसखः। शच्या सहेत्यर्थः। मरुतां देवानां पालयितेन्द्र इव। विजहार चिक्रीड॥
RV 8.33 वियोगिनी
अथ रोधसि दक्षिणोदधेः श्रितगोकर्णनिकेतमीश्वरम् । उपवीणयितुं ययौ रवेरुदयावृत्तिपथेन नारदः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ दक्षिणस्योदधेः समुद्रस्य रोधसि तीरे श्रितगोकर्णनिकेतमधिष्ठितगोकर्णाख्यस्थानमीश्वरं शिवमुपवीणयितुं वीणयोप समीपे गातुम्। `सत्यापाश-` (पा.3।1।25)इत्यादिना `वीणा`शब्दादुपगानार्थे णिच्प्रत्ययः। ततस्तुमुन्। नारदो देवर्षी रवेः सूेर्यस्य संबन्धिना। उदयावृत्तिपथेनाकाशमार्गेण ययौ जगाम। सूर्योपमानेनास्यातितेजस्त्वमुच्यते ॥
RV 8.34 वियोगिनी
कुसुमैर्ग्रथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम् । अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कुसुमैरिति॥ आपार्थिवैरभौमैः। दिव्यैरित्यर्थः। कुसुमैर्ग्रथितां रचिताम्। तस्य नारदस्यातोद्यस्य वाद्यस्य वीणायाः शिरस्यग्रे निवेशिताम्। `चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्` इत्यमरः (अ.को.1|7|6)। स्रजं मालां वेगवान्मारुतः। अधिवासे वासनायां स्पृहयेव। स्रजा स्वाङ्गं संस्कर्तुमित्यर्थः। `संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्` इत्यमरः (अ.को.2|6|135)। अहरत्किल। `किल`इत्यैतिह्ये ॥
RV 8.35 वियोगिनी
भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः । ददृशे पवनावलेपजं सृजती बाष्पमिवाञ्जनाविलम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भ्रमरैरिति॥ कुसुमानुसारिभिः पुष्पानुयायिभिर्भ्रमरैरलिभिः परिकीर्णा व्याप्ता मुनेर्नारदस्य परिवादिनी वीणा `वीणा तु वल्लकी। विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी॥` इत्यमरः (अ.को.1|7|4)। पवनस्य वायोरवलेपोऽधिक्षेपस्तज्जमञ्जनेन कज्जलेनाविलं कलुषं बाष्पमश्रु सृजतीव मुञ्चतीव। ददृशे दृष्टा। भ्रमराणां साञ्जनबाष्पबिन्दुसादृश्यं विवक्षितम्। `वा नपुंसकस्य` (पा.7।1।79) इति वर्तमाने `आच्छीनद्योर्नुम्` (पा.7।1।80)इति नुम्विकल्पः ॥
RV 8.36 वियोगिनी
अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् । नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितिम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अभिभूयेति॥ साऽमरस्रग्दिव्यमाला। मधुगन्धयोर्मकरन्दसौरभयोरतिशयेनाधिक्येन। वीरुधां लतानाम्। `लता प्रतानिनी वीरुत्` इत्यमरः (अ.को.2|4|9)। ऋतोः प्राप्तामार्तवीमृतुसंबन्धिनीं विभूतिं समृद्धिमभिभूय तिरस्कृत्य नृपतेरजस्य दयिताया इन्दुमत्या उर्वोर्विशालयोः स्तनयोर्ये कोटी चूचुकौ तयोः सुस्थितिं गोप्यस्थाने पतितत्वात्प्रशस्तं स्थानम् । आप प्राप्ता ॥
क्षणमात्रसखीं सुजातयोः स्तनयोस्तामत्रलोक्य विह्वला । निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्षणमिति॥ सुजातयोः सुजन्मनोः। सुन्दरयोरित्यर्थः। स्तनयोः क्षणमात्रं सखीं सखीमिव स्थिताम्। सुजातत्वसाधर्म्यात्स्रजः स्तनसखीत्वमिति भावः। तां स्रजमवलोक्येष्द्दृष्ट्वा विह्वला परवशा नरोत्तमप्रियेन्दुमती। तमसा राहुणा। `तमस्तु राहुः स्वर्भानुः` इत्यमरः (अ.को.1|3|28)। हृतचन्द्रा कौमुदी चन्द्रिकेव। निमिमील मुमोह, ममारेत्यर्थः। `निमीलो दीर्घनिद्रा च` इति हलायुधः। कौमुद्या निमीलनं प्रतिसंहारः ॥
RV 8.38 वियोगिनी
वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् । ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वपुषेति॥ करणैरिन्द्रियैरुज्झितेन मुक्तेन। `करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि` इत्यमरः (अ.को.3|3|61)। वपुषा निपतन्ती सेन्दुमती पतिमजमप्यपातयत् पातयति स्म। तथा हि-निषिच्यत इति निषेकः। तैलस्य निषेकस्तैलनिषेकः। क्षरत्तैलमित्यर्थः। तस्य बिन्दुना सह दीपार्चिर्दीपज्वाला मेदिनीं भुवमुपैति ननूपैत्येव। `ननु`अत्रावधारणे। `प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु` इत्यमरः (अ.को.3|3|263)। इन्दुमत्या दीपार्चिरुपमानम्। अजस्य तैलबिन्दुः। तत एव तस्या जीवितसमाप्तिस्तस्य जीवितशेषश्च सूच्यते ॥
RV 8.39 गीति
उभयोरपि पार्श्ववर्तिनां तुमुलेनार्तिरवेण विजिताः । विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उभयोरिति॥ उभयोर्दम्पत्योः पार्श्ववर्तिनां परिजनानां तुमुलेन संकुलेनार्तरवेण करुणस्वनेन वेजिता भीताः कमलाकरालयाः सरःस्थिता विहगा हंसादयोऽपि तत्रोपवने समदुःखा इव तत्पार्श्ववर्तिनां समानशोका इव चुक्रुशुः क्रोशन्ति स्म ॥
RV 8.40 वियोगिनी
नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता । प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नृपतेरिति॥ नृपतेरजस्य तमोऽज्ञआनं व्यजनादिभिः साधनैर्नुनुदेऽपसारितम्। `आदि`शब्देन जलसेककर्पूरक्षोदादयो गृह्यन्ते। सा त्विन्दुमती तथैव संस्थिता मृता। तथा` हि-प्रतिकारविधानं चिकित्सायुषो जीवितकालस्य शेषे सति विद्यमाने। `आयुर्जीवितकालो ना` इत्यमरः (अ.को.2|8|120)। फलाय सिद्धये कल्पत आरोग्याय भवति, नान्यथा। नृपतेरायुःशेषसद्भावात्प्रतीकारस्य साफल्यम्। तस्यास्तु तदभावाद्वैफल्यमित्यर्थः ॥
RV 8.41 वियोगिनी
प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात् । स निनाय नितान्तवत्सलः परिगृह्योचितमङ्कमङ्गनाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रतीति॥ अथ सत्त्वस्य चैतन्यस्य विप्लवाद्विनाशाद्धेतोः। `द्रव्यासुव्यवसायेषु सत्त्वम्` इत्यमरः। प्रतियोजयितव्या तन्त्रीभिर्योजनीया। न तु योजिततन्त्रीत्यर्थः। या वल्लकी वीणा। तस्याः समाऽवस्था दशा यस्यास्तामङ्गनां वनितां नितान्तवित्सलोऽतिप्रेमवान् सोऽजः परिगृह्य हस्ताभ्यां गृहीत्वोचितं परिचितमङ्कमुत्सङ्गं निनाय नीतवान्। वल्लकीपक्षे तु-सत्त्वं तन्त्रीणामवष्टम्भकः शलाकाविशेषः ॥
RV 8.42 वियोगिनी
पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया । समलक्ष्यत बिभ्रदाविलां मृगलेखेमुषसीव चन्द्रमाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पतिरिति॥ पतिरङ्कनिषण्णयोत्सङ्गस्थितया करणानामिन्द्रियाणामपायेनापगमेन हेतुना विभिन्नवर्णया विच्छायया तया। उषसि प्रातःकाल आविलां मलिनां मृगलेखां मृगरेखारूपं लाञ्छनं बिभ्रद्धारयंश्चद्रमा इव। समलक्ष्यतादृश्यत। इत्युपमा ॥
RV 8.43 वियोगिनी
विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् । अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विललापेति॥ सोऽजः सहजां स्वाभाविकीमपि धीरतां धैर्यमपहाय विप्रकीर्य बाष्पेण कण्ठगतेन गद्गदं विशीर्णाक्षरं यथा तथा ध्वनिमात्रानुकारिगद्गदशब्दैर्विललाप प्ररिदेवितवान्। `विलापः परिदेवनम्` इत्यमरः (अ.को.1|6|16)। अभितप्तमग्निना संतप्तमयो लोहमचेतनमपि मार्दवं मृदुत्वमवैरत्वं च भजते प्राप्नोति। शरीरिषु देहिषु। अभिसंतप्तेष्विति शेषः। विषये कैव कथा वार्ता? अनुक्तसिद्धमित्यर्थः ॥
RV 8.44 वियोगिनी
कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि । न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कुसुमानीति॥ कुसुमानि पुष्पाण्यपि। `अपि` शब्दो नितान्तमार्दवद्योतनार्थः। गात्रसंगमाद्देहसंसर्गादायुरपोहितुमपहर्तुं प्रभवन्ति यदि। हन्त विषादे। `हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः` इत्यमरः (अ.को.3|3|259)। प्रहरिष्यतो हन्तुमिच्छतो विधेर्दैवस्यान्यत् कुसुमातिरिक्तं किमिव वस्तु। `इव`शब्दो वाक्यालंकारे। कीदृशमित्यर्थः। साधनं प्रहरणं न भविष्यति न भवेत्? सर्वमपि साधनं भविष्यत्येवेत्यर्थः ॥
RV 8.45 वियोगिनी
अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः । हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथवेति॥ अथवा पक्षान्तरे। प्रजान्तकः कालो मृत्युः मृदु कोमलं वस्तु मृदुनैव वस्तुना हिंसितुं हन्तुमारभत उपक्रमते। अत्रार्थे हिमसेकेन तुषारनिष्यन्देन विपत्तिर्मृत्युर्यस्याः सा तथा नलिनी पद्मिनी मे पूर्वं प्रथमं निदर्शनमुदाहरणं मता, द्वितीयं निदर्शनं पुष्पमृत्युरिन्दुमतीति भावः ॥
RV 8.46 वियोगिनी
स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् । विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्रगिति॥ इयं स्रक् जीवितमपहन्तीति जीवितापहा यदि। हृदये वक्षसि। `हृदयं वक्षसि स्वान्ते` इत्यमरः। निहिता सती मां किं न हन्ति? ईश्वरेच्छया क्वचित् प्रदेशे विषमप्यमृतं भवेत् क्वचिदमृतं वा विषं भवेत् । दैवमेवात्र कारणमित्यर्थः ॥
RV 8.47 वियोगिनी
अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा । यदनेन तरुर्न पातितः क्षपिता तद्विटपाश्रिता लता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथवेति॥ अथवा मम भाग्यस्य विप्लवाद्विपर्ययात् एषः। स्रगित्यर्थः। विधेयप्राधान्यात्पुंलिङ्गनिर्देशः। वेधसा विधात्राऽशनिर्वैद्युतोऽग्निः कल्पितः। `दम्भोलिरशनिर्द्वयोः` इत्यमरः (अ.को.1|1|58)। अपूर्वत्वमेव स्पष्टयति-यद्यस्मात्कारणात्। अनेनाप्यशनिना प्रसिद्धाशनिना तरुस्तरुस्थानीयः स्वयमेव न पातितः। किंतु तस्य तरोर्विटपाश्रिता लता वल्ली क्षपिता नाशिता ॥
RV 8.48 वियोगिनी
कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि । कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे? ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कृतवतीति॥ मयि चिरं भूरिशोऽपराद्धेऽप्यपराधं कृतवत्यपि। राधेः कर्तरि क्तः। यदा यस्माद्धेतोः। यदेति हेत्वर्थः। `स्वरादौ पठ्यते यदेति हेतौ` इति गणव्याख्यानात्। अवधीरणामवज्ञां न कृतवत्यसि नाकार्षीः। तत्कथमेकपदे तत्क्षणे। `स्यात्तत्क्षण एकपदम्`इति विश्वः। निरागसं नितरामनपराधमिमं जनम्। `इमम्`इति स्वात्मनिर्देशः। मामित्यर्थः। आभाष्यं संभाष्यं न मन्यसे न चिन्तयसि? ॥
RV 8.49 वियोगिनी
ध्रुवमस्मि शठः शुचिस्मिते! विदितः कैतववत्सलस्तव । परलोकमसंनिवृत्तये यदनापृच्छ्य गतासि मामितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ध्रुवमिति॥ हे शउचिस्मिते धवलहसिते! शठो गूढविप्रियकारी कैतवेन कपटेन वत्सलः कैतवस्निग्धा इति ध्रुवं सत्यं तव विदितस्त्वया विज्ञातोऽस्मि। `मतिबुद्धि-` (पा.3।2।188) इत्यादिना कर्तरि क्तः। `क्तस्य च वर्तमाने` (पा.2।3।67)इति कर्तरि षष्ठी। कुतः? यद्यस्मात्, मामनापृच्छ्यानामन्त्र्य। इतोऽस्माल्लोकात्। परलोकमसंनिवृत्तयेऽपुनरावृत्तये गतासि ॥
RV 8.50 वियोगिनी
दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना । सहतां हतजीवितं मम प्रबलामात्मकृतेन वेदनाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दयितामिति॥ इदं मम हतजीवितं कुत्सितं जीवितं तावदादौ दयितामिन्दुमतीमन्वगादन्वगच्छद्यदि अन्वगादेव। `यदि` अत्रावधारणे। पूर्वं मूर्च्छितत्त्वादिति भावः। तर्हि तया दयितया विना किं किमर्थं विनिवृत्तं प्रत्यागतम्? प्रत्यागमनं न युक्तमित्यर्थः। अत एवात्मकृतेन स्वदुश्चेष्टितेन निवृत्तिरूपेण प्रबलामधिकां वेदनां दुःखं सहतां क्षमताम्। स्वयंकृतापराधेषु सहिष्णुतैव शरणमिति भावः ॥
RV 8.51 वियोगिनी
सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते । अथ चास्तमिता त्वमात्मना धिगिमां देहभृतामसारताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सुरतेति॥ सुरतश्रमेण संभृतो जनितः स्वेदलवोद्गमोऽपि ते तव मुखे ध्रियते वर्तते। अथ च त्वमात्मना स्वरूपेणास्तं प्राप्ताः। अतः कारणाद्देहभृतां प्राणिनामिमां प्रत्यक्षामसारतामस्थिरतां धिक् ॥
RV 8.52 वियोगिनी
मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम्? । ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मनसेति॥ मया मनसापि तव विप्रियं न कृतपूर्वम्। पूर्वं न कृतमित्त्यर्थः। सुप्सुपेति समासः। किं केन निमित्तेन मां जहासि त्यजसि? नन्वहं क्षितेः शब्दपतिः शब्दत एव पतिः। न त्वर्थत इत्यर्थः। भावनिबन्धनाऽभिप्रायनिबन्धना स्वाभावहेतुका मे रतिः, प्रेम तु त्वय्येव। अस्तीति शेषः ॥
RV 8.53 वियोगिनी
कुसुमोत्स्वचितान्वलीभृतश्चलयन्भृङ्गरुचस्तवालकान् । करभोरु! करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कुसुमेति॥ कुसुमैरुत्खचितानुत्कर्षेण रचितान् वलीभृतो भङ्गीयुक्तान्। कुटिलानित्यर्थः। भृङ्गरुचो नीलांस्तवालकांश्चलयन्कम्ययन् मारुतः हे करभोरु करभसदृशोरु!`मणिबन्धादाकनिष्ठं करस्य करभो बहिः` इत्यमरः। मे मनस्त्वदुपावर्तनशङ्कि तव पुनरागमने शङ्कावत्करोति। त्वदुज्जीवने शङ्कां कारयतीत्यर्थः ॥
RV 8.54 वियोगिनी
तदपोहितुमर्हसि प्रिये! प्रतिबोधेन विषादमाशु मे । ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नक्तमोषधिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ हे प्रिये! तत्तस्मात्कारणादाशु विषादं दुःखम्। नक्तं रात्रावोषधिस्तृणज्योतिराख्या लता ज्वलितेन प्रकाशेन तुहिनाद्रेर्हिमाचलस्य गुहागतं तमोऽन्धकारमिव। प्रतिबोधेन ज्ञानेनापोहितुं निरसितुमर्हसि ॥
RV 8.55 वियोगिनी
इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् । निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इदमिति॥ इदमुच्छ्वसितालकं चलितचूर्णकुन्तलं विश्रान्तकथं निवृत्तसंलापं तव मुखम्। निशि रात्रौ सुप्तं निमीलितं विरतोऽभ्यन्तराणामन्तर्वर्तिनां षट्पदानां स्वनो यत्र तत्। निःशब्दभृङ्गमित्यर्थः। एकपङ्कजमद्वितीयं पद्ममिव। मां दुनोति परितापयति ॥
RV 8.56 वियोगिनी
शशिनं पुरनेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम् । इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शशिनमिति॥ शर्वरी रात्रिः शशिनं चन्द्रं पुनरेति प्राप्नोति। द्वन्द्वीभूटचरतीति द्वन्द्वचरः तं पतत्रिणं चक्रवाकं दयिता चक्रवारी पुनरेति। इति हेतोस्तौ चन्द्र-चक्रवाकौ विरहान्तरक्षमौ विरहावधिसहौ। `अन्तरमवकाशावधिपरिधानन्तर्द्धिभेदतादर्थ्ये` इत्यमरः। अत्यन्तगता पुनरावृत्तिरहिता त्वं कथं न मां दहेर्न संतापयेः? अपि तु दहेरेवेत्यर्थः ॥
RV 8.57 वियोगिनी
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् । तदिदं विषहिष्यते कथं वद वामोरु! चिताधिरोहणम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नवेति॥ नवपल्लवसंस्तरे नूतनप्रवालास्तरणेऽप्यर्पितं स्थापितं मृदु ते तव यदङ्गं शरीरं दूयेत परिपप्तं भवेत्। वामौ सुन्दरौ ऊरू यस्याः सा हे वामोरु। `वामं स्यात्सुन्दरे सव्ये` इति केशवः। `संहितशफलक्षण-` इत्यादिनोङ्प्रत्ययः। तदिदमङ्गं चितायाः काष्ठसंचयस्याधिरोहणं कथं विषहिष्यते वद ॥
RV 8.58 वियोगिनी
इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी । गतिविभ्रमसादनीरवा न शुचा नानु मृतेन वक्ष्यते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इयमिति॥ इयं प्रथमाऽऽद्या रहःसखी। सुरतसमयेऽप्यनुयानादिति भावः। गतिविभ्रमसादेन नीरवा विलासोपरमेण निःशब्दा रशना मेखलाऽप्रतिबोधमपुनरुद्बोधं यथा तथा शायिनीम्। मृतामित्यर्थः। त्वामनु त्वया सह। `तृतीयार्थे` (पा.1।4।85)इत्यनुशब्दस्य कर्मप्रवचनीयत्वात् द्वितीया। शुचा शोकेन मृतेव न लक्ष्यत इति न। लक्ष्यत एवेत्यर्थः। संभाव्यनिषेधनिवर्तनाय द्वौ प्रतिषेधौ ॥
RV 8.59 वियोगिनी
कलमन्यभृतासु भाषितं कलहंसीषु मदालसं गतम् । पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कलमिति॥ त्रिदिवेति॥ युग्मम्। उभयोरेकान्वयः। अन्यभृतासु कोकिलासु कलं मधुरं भाषितं भाषणम्। कलहंसीषु विशिष्टहंसीषु मदालसं मन्थरं गतं गमनम्। पृषतीषु हरिणीषु विलोलमीक्षितं चञ्चला दृष्टिः। पवनेन वायुना धूतलतास्वीषत्कम्पितलतासु विभ्रमा विलासाः। इत्यमी पूर्वोक्ताः कलभाषणादयो गुणाः। एषु कोकिलादिस्थानेष्विति शेषः। त्रिदिवोत्सुकयापीह जीवन्त्येव स्वर्गं प्रति प्रस्थितयापि त्वया मामवेक्ष्य विरहासहं विचार्य सत्यं निहिताः। मत्प्राणधारणोपायतया स्थापिता इत्यर्थथः। तव विरहे गुरुव्यथमतिदुःखं मे हृदयं मनोऽवलम्बितुं स्थापयितुं न क्षमा न शक्ताः। ते तु तत्संगम एव सुखकारणः, नान्यथा। प्रत्युत प्राणानपहरन्तीति भावः ॥
RV 8.60 वियोगिनी
त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया । विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कलमिति॥ त्रिदिवेति॥ युग्मम्। उभयोरेकान्वयः। अन्यभृतासु कोकिलासु कलं मधुरं भाषितं भाषणम्। कलहंसीषु विशिष्टहंसीषु मदालसं मन्थरं गतं गमनम्। पृषतीषु हरिणीषु विलोलमीक्षितं चञ्चला दृष्टिः। पवनेन वायुना धूतलतास्वीषत्कम्पितलतासु विभ्रमा विलासाः। इत्यमी पूर्वोक्ताः कलभाषणादयो गुणाः। एषु कोकिलादिस्थानेष्विति शेषः। त्रिदिवोत्सुकयापीह जीवन्त्येव स्वर्गं प्रति प्रस्थितयापि त्वया मामवेक्ष्य विरहासहं विचार्य सत्यं निहिताः। मत्प्राणधारणोपायतया स्थापिता इत्यर्थथः। तव विरहे गुरुव्यथमतिदुःखं मे हृदयं मनोऽवलम्बितुं स्थापयितुं न क्षमा न शक्ताः। ते तु तत्संगम एव सुखकारणः, नान्यथा। प्रत्युत प्राणानपहरन्तीति भावः ॥
← Previous (Ch. 7) Full Table of Contents Next (Ch. 9) →