Skip to main content
Search
Ch. 8 RV 8.50
Full Chapter
RV • Chapter 8: Canto 8

RV 8.50

Canonical Ref: RV 8.50
Metrical Form: वियोगिनी
Sanskrit (Devanāgarī)
दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना । सहतां हतजीवितं मम प्रबलामात्मकृतेन वेदनाम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): दयितामिति॥ इदं मम हतजीवितं कुत्सितं जीवितं तावदादौ दयितामिन्दुमतीमन्वगादन्वगच्छद्यदि अन्वगादेव। `यदि` अत्रावधारणे। पूर्वं मूर्च्छितत्त्वादिति भावः। तर्हि तया दयितया विना किं किमर्थं विनिवृत्तं प्रत्यागतम्? प्रत्यागमनं न युक्तमित्यर्थः। अत एवात्मकृतेन स्वदुश्चेष्टितेन निवृत्तिरूपेण प्रबलामधिकां वेदनां दुःखं सहतां क्षमताम्। स्वयंकृतापराधेषु सहिष्णुतैव शरणमिति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 8.50. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 8.49) All Verses in Chapter 8 Next Verse (RV 8.51) →