Skip to main content
Search
RV
Raghuvaṁśam • Chapter 04

Canto 4

चतुर्थः सर्गः (रघुदिग्विजयः)

Canto 4 of Raghuvaṁśam.

Total: 88 Verses • Citations: RV 4.1–88 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
RV 4.1 अनुष्टुप्
स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ । दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रघुर्गुरुणा पित्रा दत्तं राज्यं राज्ञः कर्म प्रजापरिपालनात्मकम्। पुरोहितादित्वाद्यक्। प्रतिपद्य प्राप्य। दिनान्ते सायंकाले सवित्रा सूर्येण निहितं तेजः प्रतिपद्य हुताशनोऽग्निरिव। अधिकं बभौ। `सौरं तेजः सायमग्निं संक्रमते। आदित्यो वा अस्तं यन्नग्निमनुप्रविशति। अग्निं वा आदित्यः सायं प्रविशति।` इत्यादिश्रुतिप्रामाण्यम् ॥
RV 4.2 अनुष्टुप्
दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् । पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दिलीपेति॥ दिलीपानन्तरं राज्ये प्रतिष्ठितमवस्थितं तं रघुं निशम्याकर्ण्यं पूर्वं दिलीपकाले राज्ञां हृदये प्रकर्षेण धूमोऽस्य संजातः प्रधूमितोऽग्निः संतापाग्निरुत्थित इव प्रज्वलित इव। पूर्वाभ्यधिकः संतापोऽभूदित्यर्थः। राजकर्तृकस्यापि निशमनस्याग्नावुपचारान्न समानकर्तृकत्वविरोधः ॥
RV 4.3 अनुष्टुप्
पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः । नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पुरुहूतेति॥ पुरुहूतध्वज इन्द्रध्वजः। स किल राजभिर्वृष्ट्यर्थं पूज्यत इत्युक्तं भविष्योत्तरे-`एवं यः कुरुते यात्रामिन्द्रकेतोर्युधिष्ठिर!। पर्यन्यः कामवर्षी स्यात्तस्य राज्ये न संशयः॥` इति। `चतुरस्रं ध्वजाकारं राजद्वारे प्रतिष्टितम्। आहुः शक्रध्वजं नाम पौरलोकसुखावहम्॥` इति च। पुरुहूतध्वजस्येव तस्य रघोर्नवमभ्युत्थानमभ्युन्नतिमभ्युदयं च पश्यन्तीति नवाभ्युत्थानदर्शिन्यः। उदूर्द्ध्वं प्रस्थिता उल्लसिताश्च नयनपङ्क्तयो यासां ताः सप्रजाः ससंतानाः प्रजाः जनाः। `प्रजा स्यात्संततौ जने` इत्युत्रयत्राप्यमरः। ननन्दुः ॥
RV 4.4 अनुष्टुप्
सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सममिति॥ द्विरद इव द्विरदैश्च गच्छतीति द्विरदगामिना। `कर्तर्युपमाने` (पा.3।2।79)इति, `सुप्यजातौ-` (पा.3।2।78)इति च णिनिः। तेन रघुणा समं युगपदेव द्वयं समाक्रान्तमधिष्ठितम्। किं तद्वयम्? पितुरागतं पित्र्यम्। `पितुर्यत-` (पा.4।3।79)इति यत्प्रत्ययः। सिंहासनम्। अखिलमरीणां मण्डलं राष्ट्रं च ॥
RV 4.5 अनुष्टुप्
छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण मेजे साम्राज्यदीक्षितम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): छायेति॥ अत्र रघोस्तेजोविशेषेण स्वयं संनिहितया लक्ष्म्या छत्रधारणं कृतमित्युत्प्रेक्षते-पद्मा लक्ष्मीः। `लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया` इत्यमरः (अ.को.1|1|31)। सा स्वयमदृश्या किल। `किल` इति संभावनायाम्। सती छायामण्डललक्ष्येण कान्तिपुञ्जानुमेयेन। न तु स्वरूपतो दृश्येन। `छायामण्डलम्` इत्यनेनानातपज्ञानं लक्ष्यते। `छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः` इत्युभयत्राप्यमरः। पद्मातपत्रेण पद्ममेवातपत्रं तेन कारणभूतेन साम्राज्यदीक्षितं साम्राज्ये साम्राज्यकर्मणि मण्डलाधिपत्ये दीक्षितमभिषिक्तं तं भेजे। अन्यथा कथमेतादृशी कान्तिसंपत्तिरिति भावः ॥
RV 4.6 अनुष्टुप्
परिकल्पितसांनिध्या काले काले च बन्दिषु । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): परिकल्पितेति॥ सरस्वती च काले काले सर्वेष्वपि योग्यकालेषु। `नित्यवीप्सयोः` (पा.8।1।4) इति वीप्सायां द्विर्वचनम्। बन्दिषु परिकल्पितसांनिध्या कृतसंनिधाना सती स्तुत्यं स्तोत्रार्हं तं रघुम्। अर्थ्याभिरर्थादनपेताभिः। `धर्मपथ्यर्थन्यायादनपेते` (पा.4।4।92)इति यत्प्रत्ययः। स्तुतिभिः स्तोत्रैः। उपतस्थे। देवताबुद्ध्या पूजितवतीत्यर्थः। देवतात्वं च-`ना विष्णुः वृथिवीपतिः` इति वा लोकपालात्मकत्वाद्वेत्यनुसंधेयम्। एवं च सति`उपाद्देवपूजासंगतिकरणमित्रकरणपथिषु`(वा.914) इति वक्तव्यादात्मनेपदं सिद्ध्यति॥
RV 4.7 अनुष्टुप्
मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः । तथाप्यनन्यपूर्वेव तस्मिन्नासीद्धसुंधरा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मन्विति॥ वसुंधरा मनुप्रभृतिभिर्मन्वादिभिर्मान्यैः पूज्यै राजभिर्भुक्ता यद्यपि। भुक्तैवेत्यर्थः। `यद्यपि` इत्यवधारणे। `अप्यर्थे यदि वार्थे `स्यात्` इति केशवः। तथापि तस्मिन् राज्ञि। अन्यः पूर्वो यस्याः साऽन्यपूर्वा। अन्यपूर्वा न भवतीत्यनन्यपूर्वा। अनन्योपभुक्तेवासीत्। तत्प्रथमपतिकेवानुरक्तवतीत्यर्थः॥
RV 4.8 अनुष्टुप्
स हि सर्वस्य लोकस्य युक्तदण्डतया मनः । आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ हि यस्मात्कारणात् स रघुर्युक्तदण्डतया यथापराधदण्डतया सर्वस्य लोकस्य मन आददे जहार। क इव? अतिशीतोऽत्युष्णो वा न भवतीति नातिशीतोष्णः। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। दक्षिणो दक्षिणदिग्भवो नभस्वान् वायुरिव। मलयानिल इवेत्यर्थः। `युक्तदण्डतया` इत्यत्र कामन्दकः-`उद्वेजयति तीक्ष्णेन मृदुना परिभूयते। दण्डेन नृपतिस्तस्माद्युक्तदण्डः प्रशस्यते ॥` इति ॥
RV 4.9 अनुष्टुप्
मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ । फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मन्देति। तेन रघुणा प्रजा गुरौ दिलीपविषये। सहकारोऽतिसौरभश्चूतः। `आम्रश्चूतो रसालोऽसौ सहकारोऽसौरभः` इत्यमरः। तस्य फलेन पुष्पोद्गमे पुष्पोदय इव। ततोऽपि गुणाधिकतया हेतुना मन्दोत्कण्ठा अल्पौत्सुक्याः कृताः। गुणोत्तरश्चोत्तरो विषयः पूर्वं विस्मारयतीति भावः॥
RV 4.10 अनुष्टुप्
नयविद्भिर्नवे राज्ञि सदसञ्चोपदर्शितम् । पूर्वं एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नयविद्भिरिति॥ नयविद्भिर्नीतिशास्त्त्रज्ञैर्नवे तस्मिन्राज्ञि विषये। तमधिकृत्येत्यर्थः। सद्धर्मयुद्धादिकम्, असत् कूटयुद्धादिकं चोपदर्शितम्। तस्मिन्राज्ञि पूर्वः पक्ष एवाभवत्। संकान्त इत्यर्थः। उत्तरः पक्षो नाभवत्। न संक्रान्त इत्यर्थः। तत्र सदसतोर्मध्ये सदेवाभिमतं नासत्। तदुद्भावनं तु ज्ञानार्थमेवेत्यर्थः। पक्षः साधनयोग्यार्थः। `पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु` इति केशवः॥
RV 4.11 अनुष्टुप्
पञ्जानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः । नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पञ्चानामिति॥ पृथिव्यादीनां पञ्चानां भूतानामपि गुणा गन्धादय उत्कर्षमतिशयं पुपुषुः। अत्रोत्प्रेक्षते-तस्मिन् रघौ नाम नवे महीपाले सति सर्वं क्स्तुजातं नवमिवाभवत्। तदेव भूतजातमिदानीमपूर्वगुणयोगादपूर्वमिवाभवदिति भावः ॥
RV 4.12 अनुष्टुप्
यथा प्रह्लादनाञ्चन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यथेति॥ यथा चन्दयत्याह्लादयतीति चन्द्र इन्दुः। चदिधातोरौणादिकोरप्रत्ययः। प्रह्लादनादाह्लादकरणादन्वर्थोऽनुगतार्थनामकोऽभूत्। यथा च तपतीति तपनः सूर्यः। नन्द्यादित्वाल्ल्युप्रत्ययः। प्रतापात् संतापजननादन्वर्थः। तथैव स राजा प्रकृतिरञ्जनादन्वर्थः सार्थकराजशब्दोऽभूत्। यद्यपि `राज` शब्दो राजतेर्दीप्त्यर्थात्कनिन्प्रत्ययान्तो न तु रञ्जेस्तथापि धातूनामनेकार्थत्वाद्रञअजनाद्राजेत्युक्तं कविना ॥
RV 4.13 अनुष्टुप्
कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने । चक्षुष्मत्ता तु शास्त्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): काममिति॥ विशाले तस्य रघोर्लोचने कामं कर्णान्तयोर्विश्रान्ते कर्णप्रान्तगते। चक्षुष्मत्ता तु। चक्षुःफलं त्वित्यर्थः। सूक्ष्मान् कार्यार्थान्कर्तव्यार्थान् दर्शयति प्रकाशयतीति सूक्ष्मकार्यार्थदर्शिना शास्त्त्रेणैव। शास्त्त्रं दृष्टिर्विवेकिनामिति भावः॥
RV 4.14 अनुष्टुप्
लब्धप्रशमनस्वस्थमथैनं समुपस्तिता । पार्थिवश्रीर्दितीयेव शरत्पङ्कजलक्षणा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लब्धेति॥ अथ लब्धस्य राज्यस्य प्रशमनेन परिपन्थिनामनुरञ्जनप्रतीकाराभ्यां स्थिरीकरणेन स्वस्थं समाहितचित्तमेनं रघुं पङ्कजलक्षणा पद्मचिह्ना। श्रियोऽपि विशेषणमेतत्। शरत्। द्वितीया पार्थिवश्री राजलक्ष्मीरिव। समुपस्थिता प्राप्ता। `रक्षा पौरजनस्य देशनगरग्रामेषु गुप्तिस्तथा योधानामपि संग्रहोऽपि तुलया मानव्यवस्थापनम्। साम्यं लिङ्गिषु दानवृत्तिकरणं त्यागः समानेऽर्चनं कार्याण्येव महीभुजां प्रशमनान्येतानि राज्ये नवे॥` इति॥
RV 4.15 अनुष्टुप्
निर्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा सुदुःसहः । प्रतापस्तस्य भानोश्च युगपद्व्यानशे दिशः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निर्वृष्टेति॥ निःशेषं वृष्टा निर्वृष्टाः। कर्तरि क्तः। अत एव लघवः, तैर्मेघैर्मुक्तवर्मा त्यक्तमार्गः। अत एव सुदुःसहः। तस्य रघोर्भानोश्च प्रतापः पौरुषमातपश्च। `प्रतापौ पौरुषातपौ` इति यादवः। यचुगपद्दिशो व्यानशे व्यापः ॥
RV 4.16 अनुष्टुप्
वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ । प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वार्षिकमिति॥ इन्द्रः। वर्षासु भवं वार्षिकम्, वर्षानिमित्तमित्यर्थः। `वर्षाभ्यष्ठक्` (पा.4।3।18) इति ठक्प्रत्ययः। धनुः संजहार। रघुर्जैत्रं जयशीलम्। `जेतृ`शब्दात्तृन्नन्तात् `प्रज्ञादिभ्यश्च` (पा.5।4।38) इति स्वार्थेऽण्प्रत्ययः। धनुर्दधौ। हि यस्मात् ताविन्द्ररघू प्रजानामर्थस्य प्रयोजनस्य वृष्टिविजयलक्षणस्य साधने विषये पर्यायेणोद्यते कार्मुके याभ्यां तौ पर्यायोद्यतकार्मुकौ। `पर्यायोद्यमविश्रमौ` इति पाठान्तरे पर्यायेणोद्यमो विश्रमश्च ययोस्तौ पर्यायोद्यमविश्रमौ। द्वयोः पर्यायकरणादक्लेशः इति भावः ॥
RV 4.17 अनुष्टुप्
पुण्डरीकातपत्रस्तं विकसत्काशचामरः । ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पुण्डरीकेति॥ पुण्डरीकं सिताम्भोजमेवात्तपत्रं यस्य स तथोक्तः। विकसन्ति काशानि काशाख्यतृणकुसुमान्येव चामरणि यस्य स तथोक्तः। ऋतुः शरदृतुः पुण्डरीकनिभातपत्रं काशनिभचामरं तं रघुं विडम्बयामासानुचकार। तस्य रघोः श्रियं पुनः शोभां तु न प्राप। `शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरिव दश्यते` इति शाश्वतः ॥
RV 4.18 अनुष्टुप्
प्रसादसुमुखे तस्मिंश्चन्द्रे च विशदप्रभे । तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रसादेति॥ प्रसादेन सुमुखे तस्मिन् रघौ विशदप्रभे निर्मलकान्तौ चन्द्रे च द्वयोर्विषये तदा चक्षुष्मतां प्रीतिरनुरागः समरसा समस्वादा। तुल्यभोगेति यावत्। `रसो गन्धे रसः स्वादे` इति विश्वः। आसीत्॥
RV 4.19 अनुष्टुप्
हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु । विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): हंसेति॥ हंसानां श्रेणीषु पङ्क्तिषु। तारासु नक्षत्रेषु। कुमुदानि येषु सन्तीति कुमुद्वन्ति। `कुमुद्वान्कुमुदप्राये` इत्यमरः (अ.को.2|1|10)। `कुमुदनडवेतसेभ्यो ड्यतुप्` (पा.4।2।87)। तेषु। कुमुदप्रायेष्वित्यर्थः। वारिषु च तदीयानां रघुसंबन्धिनां यशसां विभूतयः संपदः पर्यस्ता इव प्रसारिताः किम् ? इत्युत्प्रेक्षा। अन्यथा कथमेषां धवलिमेति भावः॥
RV 4.20 अनुष्टुप्
इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयम् । आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इक्ष्विति॥ इक्षूणां छायेक्षुच्छायम्। `छाया बाहुल्ये` (पा.2।4।22) इति नपुंसकत्वम्; तत्र निषण्णा इक्षुच्छायनिषादिन्यः। `इक्षुच्छायानिषादिन्यः` इति स्त्त्रीलिङ्गपाठ इक्षोश्छायेति विग्रहः; अन्यथा बहुत्वे नपुंसकत्वप्रसङ्गात्। शालीन् गोपायन्ति रक्षन्तीति शालिगोप्यः सस्यपालिकाः स्त्त्रियः। `कर्मण्यण्` (पा.3।2।1) । `टिड्ढाणञ-` (पा.4।1।15)इत्यादिना ङीप्। गोप्तू रक्षकस्य तस्य रघोः। गुणेभ्य उदयो यस्य तद्गुणोदयं गुणोत्पन्नमाकुमारं कुमारादारभ्य कथोद्घातः कथारम्भो यस्य तम्। कुमारैरपि स्तूयमानमित्यर्थः। यशो जगुर्गायन्ति स्म। अथवा, -कुमारस्य सतो रघोर्याः कथा इन्द्रविजयादयस्तत यशो जगुर्गायन्ति स्म। अथवा, -कुमारस्य सतो रघोर्याः कथा इन्द्रविजयादयस्तत आरभ्याकुमारकथम्। तत्राप्यभिविधावव्ययीभावः। आकुमारकथमुद्घातो यस्मिन् कर्मणि। गानकियाविशेषणमेतत्। `स्यादभ्यादानमुद्घात आरम्भः` इत्यमरः। `आकुमारकथोद्भूतम्` इति पाठे कुमारस्य सतस्तस्य कथभिश्चरितैरुद्भूतं यद्यशस्तद्यश आरभ्य यशो जगुरिति व्याख्येयम् ॥
RV 4.21 अनुष्टुप्
प्रससादोदयादम्भः कुम्भयोनेर्महौजसः । रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रससादेति॥ महौजसः कुम्भयोनेरगस्त्यस्य। `अगस्त्यः कुम्भसंभवः` इत्यमरः। उदयादम्भः प्रससाद प्रसन्नं बभूव। महौजसो रघोरुदयादभिभवाशङ्कि द्विषतां मनश्चुक्षुभे कालुष्यं प्राप। `अगस्त्योदये जलानि प्रसीदन्ति` इत्यमरः॥
RV 4.22 अनुष्टुप्
मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः । लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मदेति॥ मदोदग्रा मदोद्घाताः। ककुदेषामस्तीति ककुद्मन्तः। महाककुद इत्यर्थः। यवादित्वान्मकारस्य वत्वाभावः। सरितां कूलान्युद्रुजन्तीति कूलमुद्रुजाः। `उदि कूले रुजिवहोः` (पा.3।2।31) इति खश्प्रत्ययः। `अरुर्द्विषद्-` (पा.6।3।67)इत्यादिना मुमागमः। महन्त उक्षाणो महोक्षाः। `अचतुर-` (पा.5।4।77) इत्यादिना निपातनादकारान्तः। लीलाखेलं विलाससुभगं तस्य रघोरुत्साहवतो वपुष्मतः परभञ्जकस्य विक्रमं शौर्यम्। अनुप्रापुरनुचक्रुः॥
RV 4.23 अनुष्टुप्
प्रसवैः सप्तपर्णानं मदगन्धिभिराहताः । असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रसवैरिति॥ मदस्यैव गन्धो येषां तैर्मदगन्धिभिः। `उपमानाञअच` (पा.5।4।137)इतीकारः समासान्तः। सप्तपर्णानां वृक्षविशेषाणाम्। `सप्तपर्णो विशालत्वक्शारदो विषमच्छदः` इत्यमरः (अ.को.2|4|23)। प्रसवैः पुष्पैराहतास्तस्य रघोर्नागागजाः। `गजेऽपि नागमातङ्गौ` इत्यमरः (अ.को.2|4|23)। असूययेवाहतिनिमित्तया स्पर्धयेव सप्तधैव प्रसुस्रुवुर्मदं ववृषुः। प्रतिगजगन्धाभिमानादिति भावः। `करात्कटाभ्यां मेढाञ्च नेत्राभ्यां च मदस्रुतिः` इति पालकाप्ये। करान्नासारन्ध्राभ्यामित्यर्थः॥
RV 4.24 अनुष्टुप्
सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् । यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सरित इति॥ सरितो गाधाः सुप्रतराः कुर्वती। पथो मार्गांश्चाश्यानकर्दमाञ्शुष्कपङ्कान् कुर्वंती। `संयोगादेरातो धातोर्यण्वतः` (पा.8।4।43)इति श्यतेर्निष्ठातस्य नत्वम्। शरच्छरदृतुस्तं रघुं शक्तेरुत्साहृशक्तेः प्रथमं प्राग्यात्रायै दण्डयात्रायै चोदयामास प्रेरयामास। प्रभुमन्त्त्रशक्तिसंपन्नस्य शरत् स्वयमुत्साहमुत्पादयामासेत्यर्थः॥
RV 4.25 अनुष्टुप्
तस्मै रुम्यग्घुतो विह्निर्वाजिनीराजनाविधौ । प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्मा इति॥ वाजिनामश्वानां नीराजनाविधौ नीराजनाख्ये शान्तिकर्मणि सम्यग्विधिवद्धुतो होमसमिद्धो वह्निः। प्रगता दक्षिणं प्रदक्षिणम्। तिष्ठद्गुप्रभृतित्वादव्ययीभावः। प्रदक्षिणं याऽर्चिर्ज्वाला तस्या व्याजेन हस्तेनेव तस्मै जयं ददौ। उक्तं महायात्रायाम्-`इद्धः प्रदक्षिणगतो हुतभुङ् नृपस्य धात्रीं समुद्ररशनां वशगा करोति` इति। `वाजि`ग्रहणं गजादीनामप्युपलक्षणम्, तेषामपि नीराजनाविधानात् ॥
RV 4.26 अनुष्टुप्
स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः । षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ गुप्तौ मूलं स्वनिवासस्थानं प्रत्यन्तः प्रान्तदुर्गं च येन स गुप्तमूलप्रत्यन्तः। शुद्धपार्ष्णिरुद्धृतपृष्टशत्रुः सेनया रक्षितपृष्ठदेशो वा। अयान्वितः शुभदैवान्वितः। `अयः शुभावहो विधिः` इत्यमरः। स रघुः षड्विधं मौलभृत्यादिरूपं बलं सैन्यम्। `मौलं भृत्यः सुहृच्छ्रेणी द्विषदाटविकं बलम्`इति कोशः। आदाय दिशां जिगीषया जेतुमिच्छया प्रतस्थे चचाल ॥
RV 4.27 अनुष्टुप्
अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः । पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अवाकिरन्निति॥ वयोवृद्धाः पौरयौषितस्तं रघुं प्रयान्तं लाजैराचारलाजैः। मन्दरोद्धूतैः पृषतैर्बिन्दुभिः क्षीरोर्मयः क्षीरसमुद्रोर्मयोऽच्युतं विष्णुमिव। अवाकिरन् पर्यक्षिपन्॥
RV 4.28 अनुष्टुप्
स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा । अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ प्राचीनबर्हिर्नाम कश्चिन्महाराज इति केचित्। प्राचीनवर्हिरिन्द्रः। `पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिस्तथा`इतीन्द्रपर्यायेषु हलायुधाभिधानात्। तेन तुल्यः स रघुः। अनिलेनानुकूलवातेनोद्धूतैः केतुभिर्ध्वजैरहितान् रिपून्। तर्जयन्निव भर्त्सयन्निव। तर्जभिर्त्स्योरनुदात्तेत्त्वे।ञपि चक्षिङो ङित्करणेनानुदात्तेत्त्वनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनात्परस्मैपदमिति वामनः। प्रथमं प्राचीं दिशं ययौ ॥
RV 4.29 अनुष्टुप्
रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रजोभिरिति॥ किं कुर्वन्? स्यन्दनोद्धूतै रजोभिर्घनसंनिभैर्वर्णतः क्रियातःपरिमाणताश्च मेघतुल्यैर्गजैश्च यथाक्रमं व्योमाकाशं भुवस्तलमिव भूतलं च व्योमेव कुर्वन्। `ययौ`इति पूर्वेण संबन्धः॥
RV 4.30 अनुष्टुप्
प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् । ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रताप इति॥ अग्रे प्रतापस्तेजोविशेषः। `स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्` इत्यमरः। ततः शब्दः सेनाकलकलः। तदनन्तरं परागो धूलिः। `परागः पुष्परजसि धूलिस्नानीययोरपि`इति शब्दाध्याहारेण योज्यम्। इतीत्थं चतुःस्कन्धेव चतुर्व्यूहेव। `स्कन्धः प्रकाण्डे कायांशे विज्ञानादिषु पञ्चसु। नृपेसमूहे व्यूहे च` इति हैमः। सा चमूर्ययौ ॥
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →