Skip to main content
Search
MBh
Mahābhārata • Parva 9 (Śalyaparva) • Adhyāya 60

Śalyaparva Adhyāya 60

शल्यपर्व • अध्यायः 60

Śalyaparva Adhyāya 60 of the classical Mahābhārata with 66 verses.

Total: 66 Verses • Citations: MBh 9.60.1–66 • 250 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे । पाण्डवाः सृञ्जयाश्चैव किमकुर्वत संजय ॥
English Translation
Dhritarashtra said “Secing Duryodhana struck down in battle by Bhimasena, what, O Sanjaya did the Pandavas and the Srinjayas do?"
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे । सिंहेनेव महाराज मत्तं वनगजं वने ॥
प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः । पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने ॥
आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे । नैतान्हर्षसमाविष्टानियं सेहे वसुंधरा ॥
धनूंष्यन्ये व्याक्षिपन्त ज्याश्चाप्यन्ये तथाक्षिपन् । दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीः ॥
English Translation
Some stretched their bows; others drew their bowstrings. Some blew their huge conchs; other beat their drums.
चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताः । अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः ॥
दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम् । कौरवेन्द्रं रणे हत्वा गदयातिकृतश्रमम् ॥
इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे । त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः ॥
चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः । दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् ॥
English Translation
Who else, but you, O Vrikodara, could kill the heroic Duryodhana while moving about in various ways and performing various manoeuvres.
वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम् । अशक्यमेतदन्येन संपादयितुमीदृशम् ॥
English Translation
You have brought these hostilities, to a close which none could do! This feat of yours is incapable of being done by any other warrior!
कुञ्जरेणेव मत्तेन वीर संग्राममूर्धनि । दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया ॥
English Translation
By good luck, you have, O hero, like an infuriate elephant, crushed with your foot the head of Duryodhana on the field of battle!
सिंहेन महिषस्येव कृत्वा संगरमद्भुतम् । दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ ॥
English Translation
By good luck, O sinless one, you have quaffed the blood of Dussasana on the field of battle!
ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम् । मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा ॥
English Translation
By good luck, you have by your own energy, placed your foot on the head of all those that had injured the just king Yudhishthira!
अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च । भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ॥
English Translation
For your having defeated the foes and having slain Duryodhana, by good luck, O Bhima, your fame has extended over the whole world.
एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः । तथा त्वां निहतामित्रं वयं नन्दाम भारत ॥
English Translation
Bards and eulogists praised Shakra after the fall of Vritra as we are now applauding you, O Bharata, after the fall of your foes.
दुर्योधनवधे यानि रोमाणि हृषितानि नः । अद्यापि न विहृष्यन्ति तानि तद्विद्धि भारत । इत्यब्रुवन्भीमसेनं वातिकास्तत्र संगताः ॥
English Translation
Know O Bharata, that the joy we felt upon the fall of Duryodhana has not yet decreased the least.' The assembled eulogists on that occasion addressed to Bhimasena these words,
तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह । ब्रुवतः सदृशं तत्र प्रोवाच मधुसूदनः ॥
English Translation
Whilst, viz., Panchalas and the Pandavas, all filled with joy were thus expressing themselves, the slayer of Madhu addressed them, saying-Ye kings, it is not becoming to kill a slain fe with such cruel words repeatedly. This wicked man has already been slain.
न न्याय्यं निहतः शत्रुर्भूयो हन्तुं जनाधिपाः । असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः ॥
तदैवैष हतः पापो यदैव निरपत्रपः । लुब्धः पापसहायश्च सुहृदां शासनातिगः ॥
बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः । पाण्डुभ्यः प्रोच्यमानोऽपि पित्र्यमंशं न दत्तवान् ॥
English Translation
This sinful, shameless, and covetous wretch, surrounded by sinful counsellors and ever malignant of the advice of wise friends, encountered his death even then when he refused, though repeatedly urged to the contrary by Vidura, Drona, Kripa and Sanjaya, to give to the sons of Pandu their paternal share in the kingdom which thcy had begged of him.
नैष योग्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः । किमनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा ॥
English Translation
This wretch is not to be regarded either as a friend or an enemy! What use in using harsh words to him who has now become a piece of wood.
रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः । दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः ॥
इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः । अमर्षवशमापन्न उदतिष्ठद्विशां पते ॥
स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम् । दृष्टिं भ्रूसंकटां कृत्वा वासुदेवे न्यपातयत् ॥
अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तत् । क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत ॥
प्राणान्तकरणीं घोरां वेदनामविचिन्तयन् । दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत् ॥
कंसदासस्य दायाद न ते लज्जास्त्यनेन वै । अधर्मेण गदायुद्धे यदहं विनिपातितः ॥
ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रयच्छता । किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः ॥
घातयित्वा महीपालानृजुयुद्धान्सहस्रशः । जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा ॥
English Translation
Having caused the destruction of thousands of kings, who always fought fairly through various kinds of unfair means, do you not feel any shame or abhorrence for those acts?
← Previous (Ch. 1278) Full Table of Contents Next (Ch. 1280) →