Skip to main content
Search
MBh
Mahābhārata • Parva 5 (Udyogaparva) • Adhyāya 51

Udyogaparva Adhyāya 51

उद्योगपर्व • अध्यायः 51

Udyogaparva Adhyāya 51 of the classical Mahābhārata with 20 verses.

Total: 20 Verses • Citations: MBh 5.51.1–20 • 250 Lexicon Terms
यस्य वै नानृता वाचः प्रवृत्ता अनुशुश्रुमः । त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः ॥
English Translation
Dhritarashtra said He, from whom we have never heard an untruthful word, he who has Dhananjaya to fight for him can possess himself the three worlds.
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः । अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् ॥
English Translation
I do not see any one equal in battle to the one who has the Gandiva bow, who seated on a car could oppose him, though I think about it day and night.
अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः । प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः ॥
English Translation
There is no equal in battle of the wielder of the Gandiva bow shooting winged arrows, Nalikas (muskets) and arrows penetrating into the heart.
द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ । माहात्म्यात्संशयो लोके न त्वस्ति विजयो मम ॥
English Translation
If the two heroes, these bulls among men, Drona and Karna, skillful in the use of weapons, the chief among those having strength and unconquerable in battle, oppose him?
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः । समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः । भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः ॥
English Translation
Partha of firm grasp on the bow however is able, mighty and has conquered fatigue; there will be terrible fight between them, but both sides will remain undefeated.
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः । अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् । वधे नूनं भवेच्छान्तिस्तयोर्वा फल्गुनस्य वा ॥
English Translation
All of these are heroes knowing the use of weapons and all of them have gained great fame, they may forego even the lordship over all the gods but not victory (in this battle).
न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते । मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः ॥
अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च । एकान्तविजयस्त्वेव श्रूयते फल्गुनस्य ह ॥
त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत् । जिगाय च सुरान्सर्वान्नास्य वेद्मि पराजयम् ॥
यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि । ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा ॥
कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः । युगपत्त्रीणि तेजांसि समेतान्यनुशुश्रुमः ॥
नैव नोऽस्ति धनुस्तादृङ्न योद्धा न च सारथिः । तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः ॥
शेषयेदशनिर्दीप्तो निपतन्मूर्ध्नि संजय । न तु शेषं शराः कुर्युरस्तास्तात किरीटिना ॥
अपि चास्यन्निवाभाति निघ्नन्निव च फल्गुनः । उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः ॥
अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः । गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम् ॥
अपि सा रथघोषेण भयार्ता सव्यसाचिनः । वित्रस्ता बहुला सेना भारती प्रतिभाति मे ॥
यथा कक्षं दहत्यग्निः प्रवृद्धः सर्वतश्चरन् । महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान् ॥
English Translation
My army consisting of numerous forces are flying away in all directions. As a great fire raging in all directions burns up withered grass urged by the wind, so will the great fire (in the shape of Arjuna's weapons) consume my army.
यदोद्वमन्निशितान्बाणसंघा;न्स्थाताततायी समरे किरीटी । सृष्टोऽन्तकः सर्वहरो विधात्रा; यथा भवेत्तद्वदवारणीयः ॥
English Translation
When Kiritin, incapable of being withstood, opposing them (iny men) in battle will shoot destructive showers of arrows upon them, it will be like the king of death directed by the all destroying Father.
यदा ह्यभीक्ष्णं सुबहून्प्रकारा;ञ्श्रोतास्मि तानावसथे कुरूणाम् । तेषां समन्ताच्च तथा रणाग्रे; क्षयः किलायं भरतानुपैति ॥
English Translation
When I shall see and hear innumerable kinds of evil omens in the camp of the Kurus and around them and before the battle, then will destruction come to the race of Bharata.
← Previous (Ch. 713) Full Table of Contents Next (Ch. 715) →