Skip to main content
Search
MBh
Mahābhārata • Parva 12 (Śāntiparva) • Adhyāya 21

Śāntiparva Adhyāya 21

शान्तिपर्व • अध्यायः 21

Śāntiparva Adhyāya 21 of the classical Mahābhārata with 20 verses.

Total: 20 Verses • Citations: MBh 12.21.1–20 • 250 Lexicon Terms
अत्रैवोदाहरन्तीममितिहासं पुरातनम् । इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः ॥
English Translation
Regarding this subject is cited an old history, viz., the discourse that Brihaspati, asked by Indra, delivered to him.
संतोषो वै स्वर्गतमः संतोषः परमं सुखम् । तुष्टेर्न किंचित्परतः सुसम्यक्परितिष्ठति ॥
English Translation
Brihaspati said 'Contentment is the highest heaven, and the greatest bliss. There is nothing superior to Contentment. Contentment heads all.
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः । तदात्मज्योतिरात्मैव स्वात्मनैव प्रसीदति ॥
English Translation
When one contracts all his desires like a tortoise drawing in all his limbs, then the native cffulgence of his soul soon manifests itself.
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति । कामद्वेषौ च जयति तदात्मानं प्रपश्यति ॥
English Translation
When one does not fear any creature, nor any creature is frightened at one, when one contracts onc's desire and hatred, then is one said to see one's soul.
यदासौ सर्वभूतानां न क्रुध्यति न दुष्यति । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥
English Translation
When one, seeks to injure nobody in deed, word, and thought, and cherishes no desire, he is said to attain to Brahma.
एवं कौन्तेय भूतानि तं तं धर्मं तथा तथा । तदा तदा प्रपश्यन्ति तस्माद्बुध्यस्व भारत ॥
English Translation
Thus, O son of Kunti, creatures reap fruits according to the religion they follow-Awaken yourself by this thought, O Bharata.
अन्ये शमं प्रशंसन्ति व्यायाममपरे तथा । नैकं न चापरं केचिदुभयं च तथापरे ॥
यज्ञमेके प्रशंसन्ति संन्यासमपरे जनाः । दानमेके प्रशंसन्ति केचिदेव प्रतिग्रहम् । केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते ॥
राज्यमेके प्रशंसन्ति सर्वेषां परिपालनम् । हत्वा भित्त्वा च छित्त्वा च केचिदेकान्तशीलिनः ॥
एतत्सर्वं समालोक्य बुधानामेष निश्चयः । अद्रोहेणैव भूतानां यो धर्मः स सतां मतः ॥
अद्रोहः सत्यवचनं संविभागो धृतिः क्षमा । प्रजनः स्वेषु दारेषु मार्दवं ह्रीरचापलम् ॥
धनं धर्मप्रधानेष्टं मनुः स्वायंभुवोऽब्रवीत् । तस्मादेवं प्रयत्नेन कौन्तेय परिपालय ॥
यो हि राज्ये स्थितः शश्वद्वशी तुल्यप्रियाप्रियः । क्षत्रियो यज्ञशिष्टाशी राजशास्त्रार्थतत्त्ववित् ॥
असाधुनिग्रहरतः साधूनां प्रग्रहे रतः । धर्मे वर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मवित् ॥
पुत्रसंक्रामितश्रीस्तु वने वन्येन वर्तयन् । विधिना श्रामणेनैव कुर्यात्कालमतन्द्रितः ॥
य एवं वर्तते राजा राजधर्मविनिश्चितः । तस्यायं च परश्चैव लोकः स्यात्सफलो नृप । निर्वाणं तु सुदुष्पारं बहुविघ्नं च मे मतम् ॥
एवं धर्ममनुक्रान्ताः सत्यदानतपःपराः । आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः ॥
English Translation
They who follow such duties and practise charity and ascetic penances, penances, who are compassionate and are freed from desire and anger, who are engaged in ruling their subjects with righteousness and fighting for the sake of kine and Brahmanas, attain hereafter to a high end.
प्रजानां पालने युक्ता दममुत्तममास्थिताः । गोब्राह्मणार्थं युद्धेन संप्राप्ता गतिमुत्तमाम् ॥
English Translation
They who follow such duties and practise charity and ascetic penances, penances, who are compassionate and are freed from desire and anger, who are engaged in ruling their subjects with righteousness and fighting for the sake of kine and Brahmanas, attain hereafter to a high end.
एवं रुद्राः सवसवस्तथादित्याः परंतप । साध्या राजर्षिसंघाश्च धर्ममेतं समाश्रिताः । अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः ॥
English Translation
For this the Rudras, with the Vasus and the Adityas, O destroyer of foes, and the Sadhyas and innumerable other kings adopt this religion. practising carefully the duties laid down by that religion, they attain to heaven through those acts of theirs.
← Previous (Ch. 1348) Full Table of Contents Next (Ch. 1350) →