Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 119

Ādiparva Adhyāya 119

आदिपर्व • अध्यायः 119

Ādiparva Adhyāya 119 of the classical Mahābhārata with 44 verses.

Total: 44 Verses • Citations: MBh 1.119.1–44 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः । ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ॥
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः । रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ॥
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् । आदाय विविशुः पौराः पुरं वारणसाह्वयम् ॥
सततं स्मान्वतप्यन्त तमेव भरतर्षभम् । पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ॥
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् । संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥
अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः । श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना ॥
बहुमायासमाकीर्णो नानादोषसमाकुलः । लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥
गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने । मा द्रक्ष्यसि कुलस्यास्य घोरं संक्षयमात्मनः ॥
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् । अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः । सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ॥
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् । वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥
तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता । वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥
ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम । देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥
अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा । अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥
धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि । बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ॥
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे । धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ॥
हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने । शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ॥
शतमेकोत्तरं तेषां कुमाराणां महौजसाम् । एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ॥
पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली । चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ॥
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः । आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ॥
फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा । तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ॥
प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः । सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ॥
न ते नियुद्धे न जवे न योग्यासु कदाचन । कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥
एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः । अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् । भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥
तस्य धर्मादपेतस्य पापानि परिपश्यतः । मोहादैश्वर्यलोभाच्च पापा मतिरजायत ॥
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः । मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ॥
अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् । प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुंधराम् ॥
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा । नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥
ततो जलविहारार्थं कारयामास भारत । चेलकम्बलवेश्मानि विचित्राणि महान्ति च ॥
← Previous (Ch. 118) Full Table of Contents Next (Ch. 120) →