Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 119

Ādiparva Adhyāya 119

आदिपर्व • अध्यायः 119

Ādiparva Adhyāya 119 of the classical Mahābhārata with 44 verses.

Total: 44 Verses • Citations: MBh 1.119.1–44 • 250 Lexicon Terms • Page 2 of 2 (Verses 14 shown)
प्रमाणकोट्यामुद्देशं स्थलं किंचिदुपेत्य च । क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलंकृताः । सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः । विहारावसथेष्वेव वीरा वासमरोचयन् ॥
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा । वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः । प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ॥
शीतं वासं समासाद्य श्रान्तो मदविमोहितः । निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ॥
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः । गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ॥
ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम् । उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः ॥
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः । कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु ॥
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः । त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥
प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् । सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥
भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् । कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम् ॥
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया । तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ॥
विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् । भीमसंहननो भीमस्तदप्यजरयत्ततः ॥
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥
English Translation
Thereupon the son of the Sun, Karna and the son of Subala, Sakuni, tried by various means to cause the death of the Pandavas.
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥
English Translation
The Pandavas, however, counteracted them one after the other as they were made and in obedience to the counsel of Vidura, they never talked it afterwards.
← Previous (Ch. 118) Full Table of Contents Next (Ch. 120) →