Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 120

Ādiparva Adhyāya 120

आदिपर्व • अध्यायः 120

Ādiparva Adhyāya 120 of the classical Mahābhārata with 22 verses.

Total: 22 Verses • Citations: MBh 1.120.1–22 • 250 Lexicon Terms
कृपस्यापि महाब्रह्मन्संभवं वक्तुमर्हसि । शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान् ॥
महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः । पुत्रः किल महाराज जातः सह शरैर्विभो ॥
न तस्य वेदाध्ययने तथा बुद्धिरजायत । यथास्य बुद्धिरभवद्धनुर्वेदे परंतप ॥
अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः । तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ॥
धनुर्वेदपरत्वाच्च तपसा विपुलेन च । भृशं संतापयामास देवराजं स गौतमः ॥
ततो जालपदीं नाम देवकन्यां सुरेश्वरः । प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ॥
साभिगम्याश्रमपदं रमणीयं शरद्वतः । धनुर्बाणधरं बाला लोभयामास गौतमम् ॥
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने । लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत् ॥
धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि । वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत ॥
स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् । अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ॥
यस्त्वस्य सहसा राजन्विकारः समपद्यत । तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत ॥
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः । जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह ॥
शरस्तम्बे च पतितं द्विधा तदभवन्नृप । तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः ॥
मृगयां चरतो राज्ञः शंतनोस्तु यदृच्छया । कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ॥
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च । व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् । स राज्ञे दर्शयामास मिथुनं सशरं तदा ॥
स तदादाय मिथुनं राजाथ कृपयान्वितः । आजगाम गृहानेव मम पुत्राविति ब्रुवन् ॥
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् । गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत् ॥
कृपया यन्मया बालाविमौ संवर्धिताविति । तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः ॥
निहितौ गौतमस्तत्र तपसा तावविन्दत । आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा ॥
चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च । निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा । सोऽचिरेणैव कालेन परमाचार्यतां गतः ॥
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः । धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः । वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः ॥
← Previous (Ch. 119) Full Table of Contents Next (Ch. 121) →