Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 121

Ādiparva Adhyāya 121

आदिपर्व • अध्यायः 121

Ādiparva Adhyāya 121 of the classical Mahābhārata with 24 verses.

Total: 24 Verses • Citations: MBh 1.121.1–24 • 250 Lexicon Terms
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया । इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् ॥
नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः । नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान् ॥
महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा । ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः ॥
तस्या वायुः समुद्धूतो वसनं व्यपकर्षत । ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥
तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् । प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः ॥
अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम । भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः । चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् । पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ॥
भरद्वाजोऽपि भगवानारुरोह दिवं तदा । ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः । शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत ॥
अग्निहोत्रे च धर्मे च दमे च सततं रता । अलभद्गौतमी पुत्रमश्वत्थामानमेव च ॥
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः । तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ॥
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् । अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ॥
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् । तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ॥
स शुश्राव महात्मानं जामदग्न्यं परंतपम् । ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ॥
वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् । आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् ॥
हिरण्यं मम यच्चान्यद्वसु किंचन विद्यते । ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन ॥
तथैवेयं धरा देवी सागरान्ता सपत्तना । कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ॥
शरीरमात्रमेवाद्य मयेदमवशेषितम् । अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च । वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ॥
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव । सप्रयोगरहस्यानि दातुमर्हस्यशेषतः ॥
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः । सरहस्यव्रतं चैव धनुर्वेदमशेषतः ॥
प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः । प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ॥
← Previous (Ch. 120) Full Table of Contents Next (Ch. 122) →