Skip to main content
Search
KS
Kumārasambhavam • Chapter 06

Canto 6

षष्ठः सर्गः

Canto 6 of Kumārasambhavam.

Total: 95 Verses • Citations: KS 6.1–95 • 1 Lexicon Terms • Page 4 of 4 (Verses 5 shown)
KS 6.91 अनुष्टुप्
तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम् । अङ्कमारोपयामास लज्जमानामरुन्धती ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तामिति । प्रणामादरेण नमस्कारासक्त्या स्रस्ते जाम्बूनदे सुवर्णविकारौ वतंसके कनककुण्डले यस्यास्तां लज्जमानां तामम्बिकामरुन्धत्यङ्कमारोपयामास । `रुहः पोऽन्यतरस्याम्` (पा.7|3|43) इति पकारः अन्वयः: प्रणामादरस्रस्तजाम्बूनदवतंसकां लज्जमानां ताम् अरुन्धती अङ्कम् आरोपयामास ।
KS 6.92 अनुष्टुप्
तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् । वरस्यानन्यपूर्वस्य विशोकामकरोद्गुणैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति । दुहितृस्नेहेन पुत्रिकाप्रेम्णा विक्लवां वियोक्ष्यत इति भीताम् । अत एवाश्रूणि मुखे यस्यास्तामश्रुमुखीं तस्या अम्बिकाया मातरं तन्मातरं मेनां च । अन्या पूर्वं यस्यास्ति सोन्यपूर्वः । `सर्वनाम्नो वृत्तिविषये पुंवद्भावः` इति पूर्वपदस्य पुंवद्भावः । स न भवतीत्यनन्यपूर्वस्तस्यानन्यपूर्वस्य । सापत्न्यदुःखमकुर्वत इत्यर्थः । वरस्य वोढुर्गुणैर्मृत्युंजयत्वादिभिर्विशोकां निर्दुःखामकरोत् अन्वयः: दुहितृस्नेहविक्लवाम् अश्रुमुखीं तन्मातरं च अनन्यपूर्वस्य वरस्य गुणैः विशोकाम् अकरोत् ।
KS 6.93 अनुष्टुप्
वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना । ते त्र्यहादूर्ध्वमाख्याय चेलुश्चीरपरिग्रहाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वैवाहिकीमिति । चीरपरिग्रहा वल्कलमात्रवसनास्ते तपस्विनस्तत्क्षणं तस्मिन्नेव क्षणे हरबन्धुना हिमवता वैवाहिकीं विवाहयोग्यां तिथिं पृष्टाः केप्यनुयुक्ताः सन्तः । त्रयाणामह्नां समाहरस्त्र्यहः । `तद्धितार्थोत्तरपदसमाहारे च` (पा.2|1|51) इति समासः । `राजाहः सखिभ्यष्टच्` इति टच्प्रत्ययः । द्विगुत्वादेकवचनम् । `रात्राह्नाहाः पुंसि` (पा.2|4|29) इति पुलिङ्गता । तस्मात्त्र्यहादूर्ध्वमुपार्याख्याय चतुर्थेऽहनि विवाह इत्युक्त्वा चेरुश्चलिताः अन्वयः: चीरपरिग्रहाः ते तत्क्षणं हरबन्धुना वैवाहिकीं तिथिं पृष्टाः (सन्तः) त्र्यहात् ऊर्ध्वम् आख्याय चेरुः ।
KS 6.94 अनुष्टुप्
ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त इति । ते मुनयो हिमालयमामन्त्र्य साधु यामेत्यापृच्छ्य पुनः शूलिनं हरं संकेतस्थानस्थं प्राप्य सिद्धं निष्पन्नमर्थं प्रयोजनमस्मै निवेद्य च प्रापयित्वा च तद्विसृष्टास्तेन शूलिना विसृष्ठाः खमाकाशं प्रत्युद्ययुरुत्पेतुः । अत्र संक्षिप्तार्थाभिधानात्संक्षेपो नाम गुण उक्तः । तदुक्तम्- `संक्षिप्तार्थाभिधानं यत्संक्षेपः परिकीर्तितः` इति अन्वयः: ते हिमालयम् आमन्त्र्य पुनः शूलिनं प्राप्य सिद्धम् अर्थम् अस्मै निवेद्य च तद्विसृष्टाः खम् उद्ययुः ।
KS 6.95 पुष्पिताग्रा
पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः । कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पशुपतिरिति । उत्कं मनो यस्य स उत्कः । `उत्क उन्मनाः` (पा.5|2|80) इति निपातः । अद्रिसुतासमागमोत्कः पार्वतीपरिणयोत्सुकः पशुपतिरपि तानि । त्रीणीति शेषः । अहानि कृच्छ्रादगमयदयापयत् । कविराह-अमी भावा औत्सुक्यादयः संचारिणोऽवशमिन्द्रियपरतन्त्रमपरं पृथग्जनं कं न विप्रकुर्युर्न विकारं नयेयुः । यद्यस्माद्विभुं समर्थम् । जितेन्द्रियमिति यावत् । तं स्मरहरमपि स्पृशन्ति । विकुर्वन्तीत्यर्थः । अत्र विभुविकारसमर्थनादर्थादितरजनविकारः । कैमुतिकन्यायायादापततीत्यर्थापत्तिरलंकारः । तथा च सूत्रम्- `दण्डापूपिकयार्थान्तरपतनमर्थापत्तिः` इति । अर्थान्तरन्यास इति । अर्थान्तरन्यास इति केचित्, तदुपेक्षणीयम् । युक्तिस्तु विस्तरभयान्नोच्यते । पुष्पिताग्रावृत्तम् `-अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा` । इति लक्षणात् अन्वयः: अद्रिसुतासमागमोत्कः पशुपतिः अपि तानि अहानि कृच्छ्रात् अगमयत् । अमी भावाः अवशम् अपरं कं न विप्रकुर्युः, यत् विभुं तम् अपि स्पृशन्ति ।
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →