Skip to main content
Search
KD
Kādambarīsaṅgraha • Chapter 01

Complete Text

सर्गः 1

Complete Text of Kādambarīsaṅgraha.

Total: 268 Verses • Citations: KD 1.1–268 • 1 Lexicon Terms • Page 7 of 9 (Verses 30 shown)
अथ तं प्रयासन्नसमुद्रविद्रुमप्रभापाटलितमिवाभिनवोदयरागलोहितं रजनिकरमुदितं विलोकयन्तीम्, अन्धकारितहदयाम्, तरलिकोत्सङ्गविधृतशरीराम्, मूर्च्छा मां निमीलितलोचनामकार्षीत् । अचिरेण च संभ्रान्ततरलिकोपनीताभिः चन्दनचर्चाभिः तालवृन्तानिलैश्चोपलब्धसंज्ञा, तामेवाकुलाकुलां रुदतीं तरलिकामपश्यम् । उन्मीलितलोचनां च मां सा कृतपादप्रणामा बद्धाञ्जलिरवादीत् — “ भर्तृदारिके, किं लज्जया गुरुजनापेक्षया वा । प्रसीद । प्रेषय माम् । आनयामि ते हृदयदयितं जनम् । उत्तिष्ठ, स्वयं वा तत्र गम्यताम् ” इत्येवंवादिनीम् ‘ उत्तिष्ठ, यथाकथंचिदनुगतजीविता संभावयामि हृदयदयितं जनम् ’ इत्यभिदधाना कथंचिदवलम्ब्य तामेवोदतिष्ठम् । उच्चालितायाश्च मे दुर्निमित्तनिवेदकमस्पन्दत दक्षिणं लोचनम् । उपजातशङ्का चाचिन्तयम् — ‘ इदमपरं किमप्युपक्षिप्तं दैवेन ’ इति ॥
अथ नातिदूरोद्गतेन चन्दनरसनिर्झरनिकरानिव क्षरता अमृतसागरपूरानिवोगिरता चन्द्रमण्डलेन प्लाव्यमाने ज्योत्नया भुवनान्तराले, महावराहदंष्ट्रामण्डलनिभेन शशिना क्षीरसागरोदरादिवोद्ध्रियमाणे महीमण्डले, चन्द्रोदयानन्दनिर्भरे विलासमय इव प्रीतिमय इव जीवलोके, प्रदोषसमये, गृहीतविविधकुसुमताम्बूलाङ्गरागपटवासचूर्णया तरलिकयानुगम्यमाना, रक्तांशुकेन कृतशिरोवगुण्ठना, केनचिदात्मीयेनापि परिजनेनानुपलक्ष्यमाणा, तस्मात्प्रासादशिखरादवातरम् ॥
अवतीर्य च प्रमदवनपक्षद्वारेण निर्गत्य तत्कालोचितैरालापैस्तया सह तमुद्देशमभ्युपागमम् । तत्र च मार्गलताकुसुमरजोधूसरं चरणयुगलं कैलासतटात् चन्द्रोदयप्रस्रुतचन्द्रकान्तमणिप्रस्रवणे प्रक्षालयन्ती, यस्मिन्प्रदेशे स आस्ते, तस्मिन्नेव चास्य सरसः पश्चिमे तटे, पुरुषस्येव रुदितध्वनि विप्रकर्षान्नातिव्यक्तमुपालक्षयम् । दक्षिणेक्षणस्फुरणेन च प्रथममेव मनस्याहितशङ्का, तेन सुतरामवदीर्णहृदयेव, किमप्यनिष्टमन्तः कथयतेव विषण्णेनान्तरात्मना ‘ तरलिके, किमिदम् ’ इति सभयमभिदधाना वेपमानगात्रयष्टिः तदभिमुखमतित्वरितमगच्छम् ॥
अथ निशीथप्रभावाद्दूरादेव विभाव्यमानस्वरमुन्मुक्तार्तनादम् “ हा हतोऽस्मि । हा दग्धोऽस्मि । हा वञ्चितोऽस्मि । हा किमिदमापतितम् । उत्सन्नोऽस्मि । दुरात्मन् मदनपिशाच पाप निर्घृण, किमिदमकृत्यमनुष्ठितम् । आः पापे दुष्कृतकारिणि दुर्विनीते महाश्वेते, किमनेन तेऽपकृतम् । आः पाप दुश्चरित चन्द्रचाण्डाल, कृतार्थोऽसीदानीम् । अपगतदाक्षिण्य दक्षिणानिलहतक, पूर्णास्ते मनोरथाः; कृतं कर्तव्यम् ; वहेदानी यथेष्टम् । हा भगवन् श्वेतकेतो पुत्रवत्सल, न वेत्सि मुषितमात्मानम् । हा धर्म, निष्परिग्रहोऽसि । हा तपः, निराश्रयमसि । हा सरस्वति, विधवासि। हा सत्य, अनाथमसि । हा सुरलोक, शून्योऽसि । सखे, प्रतिपालय माम् । अहमपि भवन्तमनुयास्यामि । न शक्नोमि भवता विना क्षणमप्यवस्थातुमेकाकी। कथमपरिचित इवादृष्टपूर्व इवाद्य मामेकपदे उत्सृज्य प्रयासि । कुतस्तवेयमतिनिष्ठुरता। कथय त्वत् ऋते क्व गच्छामि । कं याचे । कं शरणमुपैमि । अन्धोऽस्मि संवृत्तः । शून्या मे दिशो जाताः। निरर्थकं जीवितम् । अप्रयोजनं तपः । निःसुखाश्च लोकाः । केन सह परिभ्रमामि
कमालपामि । उत्तिष्ठ, देहि मे प्रतिवचनम् । क्व तन्ममोपरि सुहृत्प्रेम ? क्व सा स्मितपूर्वाभिभाषिता ? ” इत्येतानि चान्यानि च विलपन्तं कपिञ्जलमश्रौषम् ॥
तच्च श्रुत्वा, पतितैरिव प्राणैर्दूरादेव मुक्तैकताराक्रन्दा, सरस्तीरलतासक्तित्रुट्यमानांशुकोत्तरीया, यथाशक्ति त्वरितैरज्ञातसमविषमभूमिभागविन्यस्तैः पादप्रक्षेपैः प्रस्खलन्ती पदे पदे, केनाप्युत्क्षिप्य नीयमानेव तं प्रदेशं गत्वा, सरस्तीरसमीपवर्तिनि शशिमणिशिलातले विरचितं मृणालमयं शयनमधिशयानम्, अतिनिस्पन्दतया मत्पदशब्दमिवाकर्णयन्तम्, मनःक्षोभप्रायश्चित्तप्राणायामावस्थितमिव, ‘ मत्तः प्रियतरस्तवापरो जनो जातः ’ इति कुपितेनेव जीवितेन परित्यक्तम्, ‘ कठिनहृदये, दर्शनमात्रकेणापि न पुनरनुगृहीतोऽयनुगतो जनः ’ इति सप्रणयं मामुपालभमानमिव चक्षुषा, किंचिद्विवृताधरतया जीवितमपहर्तुमन्तःविष्टैः इव इन्दुकिरणैर्निर्गच्छद्भिर्दशनांशुभिः धवलितपुरोभागम्, मन्मथव्यथाविघटमानहृदयनिहितेन वामेन पाणिना ‘ प्रसीद, प्राणैः समं प्राणसमे, न गन्तव्यम् ’ इति हृदयस्थितां मामिव धारयन्तम्, अन्तिकस्थितेन चाचिरोद्गतजीवितमार्गमिवोद्ग्रीविणा विलोकयता तपःसुहृदा कमण्डलुना समुपेतम्, कपिञ्जलेन मद्दर्शनात् ‘ अब्रह्मण्यम् ’ इत्यूर्ध्वहस्तेन द्विगुणीभूतबाष्पोद्गमेनाक्रोशता कण्ठे परिष्वक्तम्, तत्क्षणविगतजीवितं तमहं पापकारिणी मन्दभाग्या महाभागमद्राक्षम् ॥
उद्भतमूर्छान्धकारा च पातालतलमिवावतीर्णा, तदा ‘ क्वाहमगमम्, किमकरवम्, किं व्यलपम् ’ इति सर्वमेव नाज्ञासिषम् । असवश्च मे तस्मिन्क्षणे किमतिकठिनतयास्य मूढहृदयस्य, किमनेकदुःखसहस्रसहिष्णुतया हतशरीरकस्य, किं विहिततया दीर्घशोकस्य, किं भाजनतया जन्मान्तरोपात्तस्य दुष्कृतस्य, किं दुःखदाननिपुणतया दग्धदैवस्य, किमेकान्तवामतया दुरात्मनो मन्मथहतकस्य, केन हेतुना, नोद्गच्छन्ति स्म ; तदपि न ज्ञातवती । केवलमतिचिराल्लब्धचेतना दुःखभागिनी, वह्नाविव पतितमसह्यशोकदह्यमानमात्मानमवनौ विचेष्टमानमपश्यम् । अश्रद्दधाना चासंभावनीयं तत्तस्य मरणम् आत्मनश्च जीवितम्, उत्थाय ‘ हा हा किमिदमुपनतम् ’ इति मुक्तार्तनादा, ‘ हा अम्ब, हा तात, हा सख्यः ’ इति व्यहरन्ती “ हा नाथ जीवितनिबन्धन, आचक्ष्व - क्व मामेकाकिनीमशरणाम् अकरुण, विमुच्य यासि । पृच्छ तरलिका त्वत्कृते मया यानुभूतावस्था । युगसहस्रायमाणः कृच्छ्रेण नीतो दिवसः । प्रसीद । सकृदप्यालप । दर्शय भक्तवत्सलताम् । ईषदपि विलोकय । पूरय मे मनोरथम् । आर्तास्मि । भक्तास्मि । अनुरक्तास्मि । अनाथास्मि । बालास्मि । अगतिकास्मि । दुःखितास्मि । अनन्यशरणास्मि । मदनपरिभूतास्मि । किमिति न करोषि दयाम् । कथय, किमपराद्धम् । किं वा नानुष्ठितं मया । कस्यां वा नाज्ञायामादृतम् । कस्मिन्वा त्वदनुकूले नाभिरतम् । येन कुपितं दासजनमकारणात् परित्यज्य व्रजन्न बिभेषि कौलीनात् । अलीकानुरागप्रतारणकुशलया किं वा मया वामया पापया, याहमद्यापि प्राणिमि । हा, हतास्मि मन्दभागिनी । कथं न त्वं जातः, न विनयः, न बन्धुवर्गः, न परलोकः । धिङ्मां दुष्कृतकारिणीम्, यस्याः कृते तवेयमीदृशी दशा वर्तते । नास्ति मत्सदृशी नृशंसहृदया, याहमेवंविधं भवन्तमुत्सृज्य गृहं गतवती । किं मे गृहण, किमम्बया, किं वा तातेन, किं बन्धुभिः, किं परिजनेन । हा, कमुपयामि शरणम् । अयि दैव, दर्शय दयाम् । विज्ञापयामि त्वाम् । देहि दयितदक्षिणाम् । भगवति भवितव्यते, कुरु कृपाम् । पाहि वनितामनाथाम् । भगवत्यो वनदेवताः, प्रसीद प्रयच्छतास्य प्राणान् । अव वसुन्धरे । सकललोकानुग्रहजननि रजनि, किमर्थं नानुकम्पसे । तात कैलास, शरणागतास्मि ते । दर्शय दयालुताम् ” इत्येतानि चान्यानि च व्याक्रोशन्ती, कियद्वा स्मरामि, ग्रहगृहीतेवोन्मत्तेव व्यलपम् ॥
उपर्युपरि पतितनयनजलधारानिकरच्छलेन विलीयमानेव, तज्जीवितायेवात्ममरणाय स्पृहयन्ती, करतलेन कपोलयोर्ललाटे अंसयोर्हृदये च परामृशन्ती, ‘ पुण्डरीक, निष्ठुरोऽसि । एवमप्यार्तां न गणयसि माम् ’ इत्युपालभमाना, मुहुर्मुहुरेनमन्वनयम् । मुहुर्मुहुः कण्ठे गृहीत्वा व्याक्रोशम् । ‘ अयि भगवन्, प्रसीद, प्रत्युजीवयैनम् ’ इति मुहुर्मुहुः कपिञ्जलस्य पादयोरपतम् । महुर्मुहुश्च तरलिकां कण्ठे गृहीत्वा प्रारुदम् ”
इत्येवमात्मवृत्तान्तमावदयन्त्या एव तस्याः समतिक्रान्तं कथमप्यतिकष्टमवस्थान्तरम् अनुभवन्त्या इव चेतनां जहार मूर्छा । वेगान्निपतन्ती च शिलातले तां ससंभ्रमं प्रसारितकरः परिजन इव जातपीडश्चन्द्रापीडो विधृतवान् । अश्रुजलाद्रेण च तदीयेनैवोत्तरीयवल्कलप्रान्तेन शनैः शनैर्वीजयन्, संज्ञां ग्राहितवान् । उपजातकारुण्यश्च बाष्पसलिलोत्पीडेन प्रक्षाल्यमानकपोल्युगलो लब्धचेतनामवादीत् — “ भगवति, मया पापेन तवायं पुनरग्निवतामुपनीतः शोकः, येनेदृशीं दशामुपनीतासि । तदलमनया कथया । संह्रियतामियम् । अहमप्यसमर्थः श्रोतुम् । अतिक्रान्तान्यपि हि संकीर्त्यमानानि प्रियजनविश्वासवचनान्यनुभवसमां वेदनामुपजनयन्ति सुहृज्जनस्य दुःखानि । तन्नार्हसि कथं कथमपि विधृतनिमानसुलभानसून् पुनः पुनः स्मरणशोकानलेन्धनतामुपनेतुम् ” इति ॥
एवमुक्ता दीर्घमुष्णं च निश्वस्य, बाष्पायमाणलोचन सनिर्वेदमवादीत् — “ राजपुत्र, या तदा तस्यामतिदारुणायां हतनिशायामेभिरतिनृशंसैरसुभिर्न परित्यक्ता, ते मामिदानीं परित्यजन्तीति दूरापेतम् । नूनमपुण्योपहतायाः पापाया मम भगवानन्तकोऽपि परिहरति दर्शनम् । कुतश्च मे कठिनयहृदयायाः शोकः सर्वमिदमलीकमस्य दुरात्मनः शठहृदयस्य । सर्वथाहमनेन त्यक्तत्रपेण निरपत्रपाणामग्रेसरी कृता । यया वज्रमय्येवेदमनुभूतम्, ततः का गणना कथनं प्रति । किं वा परमतः कष्टतरमाख्येयमन्यद्भविष्यति, यन्न शक्यते श्रोतुमाख्यातुं वा । केवलमस्य वज्रपातस्यानन्तरमाश्चर्यं यदभूत्, तदावेदयामि । आत्मनश्च प्राणधारणकारणलव इवाव्यक्तो यः समुत्पन्नः, तं च कथयामि । यया दुराशामृगतृष्णिकया गृहीताहमिदमुपरतकल्पं परकीयमिव भारभूतमप्रयोजनमकृतज्ञं च हतशरीरं वहामि । तदलं श्रूयताम् । ततश्च तथाभूते तस्मिन्नवस्थान्तरे, मरणैकनिश्चया तत्तद्बहु विलप्य तरलिकामब्रवम् — ‘ अयि उत्तिष्ठ निष्ठुरहृदये कियद्रोदिषि । काष्ठान्याहृत्य विरचय चिताम् । अनुसरामि जीवितेश्वरम् ’ इति ॥
अत्रान्तरे, झटिति चन्द्रमण्डलविनिर्गतो गगनादवतीर्य, धवलदुकूलपल्लवकल्पितोष्णीषग्रन्थिः, कुमुदधवलदेहः, महाप्रमाणः पुरुषो महापुरुषलक्षणोपेतो दिव्याकृतिः, बाहुभ्यां मृणालधवलाङ्गुलिभ्यामतिशीतलस्पर्शाभ्यां तमुपरतमुत्क्षिपन्, दुन्दुभिनादगम्भीरेण स्वरेण ‘ वत्से महाश्वेते, न परित्याज्यास्त्वया प्राणाः । पुनरपि तवानेन सह भविष्यति समागमः ’ इत्येवमादृतः पितेवाभिधाय, सहैवानेन गगनतलमुदपतत् । अहं तु तेन व्यतिकरेण सभया सविस्मया सकौतुका चोन्मुखी ‘ किमिदम् ’ इति कपिञ्जलमपृच्छम् । असौ तु ससंभ्रममदत्त्वैवोत्तरमुदतिष्ठत् । ‘ दुरात्मन्, क्व मे वयस्यमपहृत्य गच्छसि ’ इत्यभिधाय, उन्मुखः संजातकोपो बध्नन् सवेगमुत्तरीयवल्केन परिकरम्, उत्पतन्तं तमेवानुसरन्नन्तरिक्षमुदगात् । पश्यन्त्या एव च मे सर्व एव ते तारागणमध्यमविशन् ॥
मम तु तेन द्वितीयेनेव प्रियतममरणेन कपिञ्जलगमनेन द्विगुणीकृतशोकायाः, सुतरामदीर्यत हृदयम् । किंकर्तव्यतामूढा च तरलिकामब्रवम् — ‘ अयि, न जानासि ? किमेतत् ’ इति । सा तु तदवलोक्य, स्त्रीस्वभावकातरा, तस्मिन्क्षणे शोकाभिभाविना भयेनाभिभूता, वेपमानाङ्गयष्टिः, मम मरणशङ्कया च वरकी विषण्णहृदया सकरुणमवादीत् — “ भर्तृदारिके, न जानामि पापकारिणी। किं तु महदिदमाश्चर्यम् । अमानुषाकृतिरेष पुरुषः । समाश्वासिता चानेन गच्छता सानुकम्पं पित्रेव भर्तृदारिका । प्रायेण चैवंविधा दिव्याः स्वप्नेऽप्यविसंवादिन्यो भवन्त्याकृतयः । किमुत साक्षात् । न चाल्पमपि विचारयन्ती कारणमस्य मिथ्याभिधाने पश्यामि । अतो युक्तं विचार्यात्मानम् अस्मात् प्राणपरित्यागव्यवसायान्निवर्तयितुम् । अतिमहत्खल्विदमाश्वासस्थानमस्यामवस्थायाम् । स च तमनुसरन्गत एवं कपिञ्जलः । तस्माच्च ‘ कुतोऽयम् ? को वायम् ? किमर्थं वानेनायमपगतासुरुत्क्षिप्य नीतः ? क्व वा नीतः ? कस्माच्चासंभावनीयेनामुना पुनः समागमाशाप्रदानेन भर्तृदारिका साश्वासिता ? ’ इति सर्वमुपलभ्य, जीवितं वा मरणं वा समाचरिष्यसि । अदुर्लभं हि मरणमध्यवसितम् । पश्चादप्येतद्भविष्यति । न च जीवन्कपिञ्जलो भर्तृदारिकामदृष्ट्वा स्थास्यति । तेन तत्प्रत्यागमकालावधयोऽपि तावद्ध्रियन्ताममी प्राणाः ” इत्यभिदधाना पादयोर्मे न्यपतत् । अहं तु सकललोकदुर्लङ्घ्यतया जीविततृष्णायाः, क्षुद्रतया च स्त्रीस्वभावस्य, तया च तद्वचनोपनीतया दुराशामृगतृष्णिकया, कपिञ्जलप्रत्यागमनकाङ्क्षया च, तस्मिन्काले तदेव युक्तं मन्यमाना, नोत्सृष्टवती जीवितम् । आशया हि किमिव न क्रियते । तां च पापकारिणी कालरात्रिप्रतिमां वर्षसहस्रायमाणां नरकमयीमिवाग्निमयीमिव उत्सन्ननिद्रा, तथैव क्षितितले विचेष्टमाना, तस्मिन्नेव सरस्तीरे तलिकाद्वितीया क्षपां क्षपितवती ॥
प्रत्युषसि तूत्थाय तस्मिन्नेव सरसि स्नात्वा, कृतनिश्चया, तत्प्रीत्या तमेव कमण्डलुमादाय, तान्येव च वल्कलानि तामेव चाक्षमालां गृहीत्वा, बुद्ध्वा निःसारतां संसारस्य, दृष्वा च निष्ठुरतां दैवस्य, चिन्तयित्वा चातिबहुलदुःखतां स्नेहस्य, अवधार्य चाकाण्डभङ्गुरतां सर्वसुखानाम्, अविगणय्य तातमम्बां च, परित्यज्य सह परिजनेन सकलबन्धुवर्गम्, निवर्त्य विषयसुखेभ्यो मनः, संयम्येन्द्रियाणि, गृहीतब्रह्मचर्या, तस्य जनस्याश्रुमोक्षमात्रेण किल कृतज्ञतां दर्शयन्ती, तदनुरागकृशमिदमपुण्यबहुलम् अस्तमितलज्जम् अमङ्गलभूतम् अनेकक्लेशायाससहस्रनिवासं दग्धशरीरकं बहुविधैर्नियमशतैः शोषयन्ती, वन्यैश्च फलमूलवारिभिर्वर्तमाना, त्रिसन्ध्यमत्र सरसि स्नानमुपस्पृशन्ती शरणार्थिनी प्रतिदिनमर्चयन्ती देवमनाथशरणं त्र्यम्बकम्, अस्यामेव गुहायां तरलिकया सह दीर्घशोकमनुभवन्ती चिरमवसम् । साहमेवंविधा पापकारिणी, निर्लक्षणा, निर्लज्जा, निःस्नेहा च, नृशंसा च, गर्हणीया, निष्प्रयोजनोत्पन्ना, निष्फलजीविता, निरवलम्बना, नि:सुखा च । किं मया दृष्टया पृष्टया वा कृतब्राह्मणवधमहापातकया करोति महाभागः ” इत्युक्त्वा पाण्डुना वल्कलोपान्तेन शशिनमिव शरन्मेघशकलेनाच्छाद्य वदनम्, दुर्निवारबाष्पवेगमपारयन्ती निवारयितुम्, उन्मुक्तकण्ठमतिचिरमुचैः प्रारोदीत् ॥
चन्द्रापीडस्तु प्रथममेव तस्या रूपेण, विनयेन, दाक्षिण्येन, मधुरालापतया, निःसङ्गतया च, अतितपस्वितया च, शुचितया च, उपारूढगौरवोऽभूत् । तदानीं तु तेनापरेण दर्शितसद्भावेन स्ववृत्तान्तकथनेन तया च कृतज्ञतया हृतहदयः सुतराम् आरोपितप्रीतिरभवत् । आर्द्रीकृतहृदयश्च शनैःशनैरेनामभाषत — “ भगवति, क्लेशभीरुरकृतज्ञः सुखासङ्गलुब्धो लोकः, स्नेहसदृशं कर्मानुष्ठातुमशक्तः, निष्फलेनाश्रुपातमात्रेण स्नेहमुपदर्शयन् रोदिति । त्वया तु कर्मणैव सर्वमाचरन्त्या किमिव न प्रेमोचितमाचेष्टितम् ,येन रोदिषि । तदर्थं च जन्मनःप्रभृति समुपचितपरिचयः प्रेयानसंस्तुत इव परित्यक्तो बान्धवजनः । संनिहिता अपि तृणावज्ञयावधीरिता विषयाः । मुक्तानि अतिशयितशुनासीरसमृद्धीनि ऐश्वर्यसुखानि । मृणालिनीवातितनीयस्यपि नितरां तनिमानमनुचितैः संक्लेशैरुपनीता तनुः । गृहीतं ब्रह्मचर्यम् । आयोजितस्तपसि महत्यात्मा । वनिताजनदुष्करमपि अङ्गीकृतमरण्यावस्थानम् । अपि चानायासेनैवात्मा दुःखाभिहतैः परित्यज्यते । महीयसा तु यत्नेन गरीयसि क्लेशे निक्षिप्यते केवलम् । यदेतदनुमरणं नाम, तदतिनिष्फलम् । अविद्वज्जनाचरित एष मार्गः । मोहविलसितमेतत् । अज्ञानपद्धतिरियम्। रभसाचरितमिदम् । क्षुद्रदृष्टिरेषा। मौर्ख्यस्खलितमिदम्, यदुपरते पितरि भ्रातरि सुहृदि भर्तरि वा प्राणाः परित्यज्यन्ते । स्वयं चेन्न जहति, न परित्याज्याः। अत्र हि विचार्यमाणे स्वार्थ एव प्राणपरित्यागोऽयम् असह्यशोकवेदनाप्रतीकारत्वादात्मनः । उपरतस्य तु न कमपि गुणमावहति । न तावत्तस्यायं प्रत्युज्जीवनोपायः। न धर्मोपचयकारणम् । न शुभलोकोपार्जनहेतुः । न निरयपातप्रतीकारः । न दर्शनोपायः । न परस्परसमागमनिमित्तम् । अन्यामेव स्वकर्मफलपरिपाकोपचिताम् असाववशो नीयते कर्मभूमिम् । असावपि आत्मघातिनः केवलमेनसा संयुज्यते । जीवस्तु जलाञ्जलिदानादिना बहूपकरोति उपरतस्यात्मनश्च । मृतस्तु नोभयस्यापि । स्मर तावत् प्रियामेकपत्नीं रतिं भर्तरि मकरकेतौ सकलाबलाजनहृदयहारिणि हरनयनहुताशनदग्धेऽपि अविरहिताम् असुभिः, उत्तरां च विराटदुहितरं बालां बालशशिनीव नयनानन्दहेतौ विनयवति विक्रान्ते च पञ्चत्वमभिमन्यावुपगतेऽपि धृतदेहाम् ॥
प्रोन्मुच्येतापि जीवितम्, संदिग्धोऽप्यस्य समागमो यदि स्यात् । भगवत्या तु ततः पुनः स्वयमेव समागमसरस्वती समाकर्णिता । अनुभवे च को विकल्पः । कथं च तादृशानाम् अप्राकृताकृतीनां महात्मनामवितथगिरां गरीयसापि कारणेन गिरि वैतथ्यमास्पदं कुर्यात् । उपरतेन च सह जीवन्त्याः कीदृशी समागतिः । अतो निःसंशयम् असौ उपजातकारुण्यो महात्मा पुनः प्रत्युजीवनार्थमेव एनमुत्क्षिप्य सुरलोकं नीतवान् । अचिन्त्यो हि महात्मनां प्रभावः । बहुप्रकाराश्च संसारवृत्तयः । चित्रं च दैवम् । आश्चर्यातिशययुक्ताश्च तपःसिद्धयः । अनेकविधाश्च कर्मणां शक्तयः । अपि च सुनिपुणमपि विमृशद्भिः किमिवान्यत्तदपहरणे कारणमाशङ्क्यते जीवितप्रदानात् ऋते । न चासंभाव्यमिदमवगन्तव्यं भगवत्या । चिरप्रवृत्त एष पन्थाः । तथा हि — अर्जुनमश्वमेधतुरगानुसारिणम् आत्मजेन बभ्रुवाहननाम्ना समरशिरसि शरापहृतप्राणम्, उलूपी नाम नागकन्यका सोच्छासमकरोत् । अभिमन्युतनयं च परीक्षितम् अश्वत्थामास्त्रपावकपरिप्लुष्टम् उदरादुपरतमेव निर्गतम्, उत्तराप्रलापोपजनितकृपो भगवान्वासुदेवो दुर्लभानसून् प्रापितवान् । अत्रापि कथंचिदेवमेव भविष्यति । तथापि किं क्रियते । क उपालभ्यते । प्रभवति हि भगवान्विधिः । बलवती च नियतिः । आत्मेच्छया न शक्यमुच्छ्वसितुमपि । अतिपिशुनानि चास्यैकान्तनिष्ठुरस्य दैवहतकस्य विलसितानि न क्षमन्ते दीर्घकालमव्याजरमणीयं प्रेम । प्रायेण च निसर्गत एवानायतस्वभावभङ्गुराणि सुखानि । आयतस्वभावानि च दुःखानि । तथा हि — कथमप्येकस्मिञ्जन्मनि समागमः, जन्मान्तरसहस्राणि च विरहः प्राणिनाम् । अतो नार्हस्यनिन्द्यमात्मानं निन्दितुम् । आपतन्ति हि संसारपथम् अतिगहनमवतीर्णानामेते वृत्तान्ताः । धीरा हि तरन्त्यापदम् ” इत्येवंविधैरन्यैश्च मृदुभिरुपसान्त्वनैः संस्थाप्य ताम्, पुनरपि निर्झरजलेनाञ्जलिपुटोपनीतेन अनिच्छन्तीमपि बलात्प्रक्षालितमुखीमकारयत् ॥
अत्रान्तरे च श्रुतमहाश्वेतावृत्तान्तोपजातशोक इव समुत्सृष्टदिवसव्यापारो रविरपि भगवानधोमुखतामयासीत् । अथ क्षीणे दिवसे, महाश्वेता मन्दं मन्दमुत्थाय, भगवतीमुपास्य पश्चिमां सन्ध्याम्, कमण्डलुजलेन प्रक्षालितचरणा, वल्कलशयनीये सखेदमुष्णं च निःश्वस्य निषसाद । चन्द्रापीडोऽप्युत्थाय कृतसन्ध्याप्रणामः, तसिन्द्वितीये शिलातले मृदुभिर्लतापल्लवैः शय्यामकल्पयत् । उपविष्टश्च तस्याम्, पुनःपुनस्तमेव मनसा महाश्वेतावृत्तान्तमभावयत् । पुन: पप्रच्छ चैनाम् — ‘ भगवति, सा तव परिचारिका वनवासव्यसनमित्रं दुःखसब्रह्मचारिणी तरलिका क्व गता ’ इति ॥
अथ साकथयत् — “ महाभाग, यत्तन्मया कथितममृतसंभवमप्सरसां कुलम्, तस्मान्मदिरेति नाम्ना मदिरायतेक्षणा कन्यकाभूत् । तस्याश्चासौ देवश्चित्ररथः पाणिमग्रहीत् । तयोश्च दुहितृरत्नमुदपादि कादम्बरीति नाम्ना । सा च मे जन्मनः प्रभृति एकासनशयनपानाशना परं प्रेमस्थानमखिलविस्रम्भधाम द्वितीयमिव हृदयं बालमित्रम् । एकत्र तया मया च नृत्यगीतादिकलासु कृताः परिचयाः । शिशुजनोचिताभिश्च क्रीडाभिरनियन्त्रणनिर्भरमपनीतो बालभावः । सा चामुनैव मदीयेन हतवृत्तान्तेन समुपजातशोका निश्चयमकार्षीत् — ‘ नाहं कथंचिदपि सशोकायां महाश्वेतायाम्, आत्मनः पाणिं ग्राहयिष्यामि ’ इति । सखीजनस्य पुरतः सशपथमभिहितवती च — ‘ यदि कथमपि मामनिच्छन्तीमपि बलात्तातः कदाचित्कस्मैचिद्दातुमिच्छति, तदाहमनशनेन वा हुताशनेन वा रज्ज्वा वा विषेण वा नियतमात्मानमुत्स्रक्ष्यामि ’ इति । सर्वं च तदात्मदुहितुर्निश्चलभाषितं कर्णपरंपरया गन्धर्वराजश्चित्ररथः स्वयमशृणोत् । गच्छति च काले, समुपारूढनिर्भरयौवनाम् आलोक्य स ताम्, बलवदुपतापपरवशः क्षणमपि न धृतिमलभत । एकापत्यतया च अतिप्रियतया च न शक्तः किंचिदपि तामभिधातुम्, अपश्यंश्चान्यदुपायान्तरम्, ‘ इदमत्र प्राप्तकालम् ’ इति मत्वा, तया महादेव्या मदिरया सहावधार्य, क्षीरोदनामानं कञ्चुकिनम् ‘ वत्से महाश्वेते, त्वद्वयतिरेकेणैव दग्धहृदयानाम् इदमपरम् अस्माकमुपस्थितम् । इदानीं तु कादम्बरीमनुनेतुं त्वं शरणम् ’ इति संदिश्य मत्समीपमद्यैव प्रत्युषसि प्रेषितवान् । ततो मया गुरुवचनगौरवेण सखीप्रेम्णा च क्षीरोदेन सार्धं सा तरलिका ‘ सखि कादम्बरि, किं दुखितमपि जनमतितरां दुःखयसि । जीवन्तीमिच्छसि चेन्माम्, तत्कुरु गुरुवचनमवितथम् ’ इति सन्दिश्य विसर्जिता । नातिचिरं गतायां च तस्याम्, अनन्तरमेवेमां भूमिमनुप्राप्तो महाभागः ” इत्यभिधाय तूष्णीमभवत् ॥
अत्रान्तरे लाञ्छनच्छलेन विडम्बयन्निव शोकानलदग्धमध्यं महाश्वेताहृदयम्, उद्वहन्निव कुमारवधमहापातकम्, उदगात्तारकाराजः । क्रमेण चोद्गते शशाङ्कमण्डले, चन्द्रापीडः सुप्तामालोक्य महाश्वेताम्, पल्लवशयने शनैः शनैः समुपाविशत् । ‘ अस्यां वेलायां किं नु खलु मामन्तरेण चिन्तयति वैशम्पायनः, किं वा वराकी पत्रलेखा, किं वा राजपुत्रलोकः ’ इति चिन्तयन्नेव निद्रां ययौ ॥
अथ क्षीणायां क्षपायाम्, उषसि सन्ध्यामुपास्य शिलातलोपविष्टायां पवित्राण्यघमर्षणानि जपन्त्यां महाश्वेतायाम्, निर्वर्तितप्राभातिकविधौ चन्द्रापीडे, तरलिका षोडशवर्षवयसा सावष्टम्भाकृतिना गन्धर्वदारकेण केयूरकनाम्नानुगम्यमाना प्रत्युषस्येव प्रादुरासीत् । आगत्य च ‘ कोऽयम् ’ इत्युपजातकुतूहला चन्द्रापीडं सुचिरमालोक्य, महाश्वेतायाः समीपमुपसृत्य, कृतप्रणामा सविनयमुपाविशत् । अनन्तरं चातिदूरानतेनोत्तमाङ्गेन प्रणम्य, केयूरकोऽपि महाश्वेतादृष्टिनिसृष्टं नातिसमीपवर्ति शिलातलं भेजे । समुपविष्टश्च तत्र तमदृष्टपूर्वं रूपातिशयं चन्द्रापीडस्य दृष्ट्वा विस्मयमापेदे ॥
परिसमाप्तजपा तु महाश्वेता पप्रच्छ तरलिकाम् — ‘ किं त्वया दृष्टा प्रियसखी कादम्बरी कुशलिनी । करिष्यति वा तदस्मद्वचनम् ’ इति । अथ सा तरलिका विनयावनतमौलिः, ईषदालम्बितकर्णपाशम् अतिमधुरया गिरा व्यजिज्ञपत् — ‘ भर्तृदारिके, दृष्टा खलु मया
भर्तृदारिका कादम्बरी । सर्वतः कुशलिनी । विज्ञापिता च निखिलं भर्तृदुहितुः सन्देशम् । आकर्ण्य च यत्तया संततमुक्तस्थूलाश्रुबिन्दुवर्षं रुदित्वा प्रतिसंदिष्टम्, तदेष तयैव विसर्जितः, तस्या एव वीणावाहक: केयूरकः कथयिष्यति ’ इत्युक्त्वा विरराम । विरतवचसि तस्यां केयूरकोऽब्रवीत् — “ भर्तृदारिके महाश्वेते, देवी कादम्बरी दृढदत्तकण्ठग्रहा त्वां विज्ञापयति — ‘ यदियमागत्य मामवदत्तरलिका, तत्कथय, किमयं गुरुजनवचनानुरोधः, किमिदं मच्चित्तपरीक्षणम्, किं गृहनिवासापराधनिपुणोपालम्भः, किं प्रेमविच्छेदाभिलाषः, किं भक्तजनपरित्यागोपायः, किं वा प्रकोपः । जानास्येव मे सहजप्रेमनिस्यन्दनिर्भरं हृदयम् । एवमतिनिष्ठुरं संदिशन्ती कथमसि न लज्जिता । तथा मधुरभाषिणी केनासि शिक्षिता वक्तुमप्रियम् । स्वस्थोऽपि तावत्क इव सहृदयः कनीयस्यवसानविरसे कर्मणीदृशे मतिमुपसर्पयेत् । किमुतातिदुःखाभिहतहृदयोऽस्मद्विधो जनः । सुहृदुःखखेदिते हि मनसि कैव सुखाशा, कैव निर्वृतिः, कीदृशा भोगाः, कानि वा हसितानि । येनेदृशीं दशामुपनीता प्रियसखी, कथमतिदारुणं तमहं विषमिवाप्रियकारिणं कामं सकामं कुर्याम् । दिवसकरास्तमयविधुरासु नलिनीषु सहवासपरिचयाच्चक्रवाकयुवतिरपि पतिसमागमसुखानि परित्यजति । किमुत नार्यः । अपि च, यत्र भर्तृविरहविधुरा परिहृतपरपुरुषदर्शना दिवानिशं निवसति प्रियसखी, कथमिव तन्मम हृदयमपरः प्रविशेज्जनः । यत्र च भर्तृविरहविधुरा तीव्रतकर्शिताङ्गी प्रियसखी महत्कृच्छ्मनुभवति, तत्राहमवगणय्यैतत्, कथमात्मसुखार्थिनी पाणिं ग्राहयिष्यामि । कथं वा मम सुखं भविष्यति । त्वत्प्रेम्णा चास्मिन् वस्तुनि मया कुमारिकाजनविरुद्धं स्वातन्त्र्यमालम्ब्य, अङ्गीकृतमयशः, समवधीरितो विनयः, गुरुवचनमतिक्रान्तम्, न गणितो लोकापवादः, वनिताजनस्य सहजमाभरणमुत्सृष्टा लज्जा । सा, कथय, कथमिव पुनरत्र प्रवर्तते । तदयमञ्जलिरुपरचितः, प्रणामोऽयम्, इदं च पादग्रहणम् । अनुगृहाण माम् । वनमितो गतासि मे जीवितेन सह । मा कृथाः स्वप्नेऽपि पुनरिममर्थं मनसि ’ इत्यभिधाय तूष्णीमभूत् ” इति ॥
महाश्वेता तु तच्छ्रुत्वा, सुचिरं विचार्य, — ‘ गच्छ, स्वयमेवाहमागत्य यथार्हमाचरिष्यामि ’ इत्युक्त्वा केयूरकं प्राहिणोत् । गते च केयूरके, चन्द्रापीडमुवाच — “ राजपुत्र, रमणीयो हेमकूटः। चित्रा च चित्ररथराजधानी । बहुकुतूहल: किंपुरुषविषयः । पेशलो गन्धर्वलोकः । सरलहृदया महानुभावा च कादम्बरी । यदि नातिखेदकरमिव गमनं कलयसि, नावसीदति वा गुरु प्रयोजनम्, अदृष्टचरविषयकुतूहलि वा चेतः, मद्वचनमनुरुध्यते वा भवान्, ततो नार्हसि निष्फलां कर्तुमभ्यर्थनामिमाम् । इतो मयैव सहं गत्वा हेमकूटम् अतिरमणीयतानिधानम्, तत्र दृष्ट्वा च मन्निर्विशेषां कादम्बरीम्, अपनीय तस्याः कुमतिमनोमोहविलसितम्, एकमहो विश्रम्य, श्वोभूते प्रत्यागमिष्यसि । मम हि निष्कारणबान्धवं भवन्तमालोक्यैव दु:खान्धकारभाराक्रान्तेन महतः कालादुच्छ्वसितमिव चेतसा । श्रावयित्वा स्ववृत्तान्तमिमं सह्यतामिव गतः शोकः । दुःखितमपि जन रमयन्ति सज्जनसमागमाः । परसुखोपपादनपराधीनश्च भवादृशां गुणोदयः ” इत्युक्तवती च चन्द्रापीडः — ‘ भगवति, दर्शनात्प्रभृति परवानयं जनः । कर्तव्येषु यथेष्टमशङ्किततया नियुज्यताम् ’ इत्यभिधाय तया सहैवोदचलत् ॥
क्रमेण च गत्वा हेमकूटम्, आसाद्य गन्धर्वराजकुलम्, समतीत्य काञ्चनतोरणानि सप्त कक्षान्तरणि, कन्यान्तःपुरद्वारमवाप । महाश्वेतादर्शनप्रधावितेन दूरादेव कृतप्रणामेन कनकवेत्रलताहस्तेन प्रतीहारजनेन उपदिश्यमानमार्गः प्रविश्य, असंख्येयनारीशतसहस्रसंबाधम्, इयत्तां ग्रहीतुमेकत्र त्रैलोक्यस्त्रैणमिव संहतम्, अपुरुषमिव सर्गान्तरम्, अनेककल्पकल्पनार्थमुत्पाद्य स्थापितमिवाङ्गनाकोशम्, शृङ्गारमयमिव सौन्दर्यमयमिव कुतूहलमयमिव कुमारः कुमारीपुराभ्यन्तरं ददर्श ॥
यत्र च कन्यकाजनस्य लोचनान्येव कर्णोत्पलानि, निःश्वासा एवाधिवासगन्धयुक्तयः, आलापा एव तन्त्रीनिनादाः, करतलान्येव लीलाकमलानि, निजदेहप्रभैवांशुकावगुण्ठनम्, कोमलाङ्गुलिराग एव चरणालक्तकरसः । यत्र चालक्तकरसोऽपि चरणातिभारः, अवतंसकुसुमधारणमपि श्रमः, सखीदर्शनेषु अकृतहस्तावलम्बनमुत्थानम् अतिसाहसम्, कुसुमावचयेषु द्वितीयकुसुमग्रहणमपि अयुवतिजनोचितम्, कन्यकाविज्ञानेषु माल्यग्रथनम् असुकुमारजनव्यापारः ॥
तस्य चैवंविधस्य किंचिदभ्यन्तरमतिक्रम्य, इतश्चेतश्च परिभ्रमतः कादम्बरीप्रत्यासन्नस्य परिजनस्य तांस्तानतिमनोहरानालापान् शृण्वन्नेव, कादम्बरीभवनसमीपमुपययौ ॥
पुलिनायमानम् उपवनलतागलितकुसुमरेणुपटलैः, काञ्चनद्वीपायमानं चम्पकदलोपहारैः, सेवार्थमागतेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन प्राकारेणेव लावण्यमयेन कृतदीर्घरथ्यामुखाकारं मार्गमद्राक्षीत् । तेन चान्तर्निपतितमाभरणकिरणालोकं संपिण्डितं नदीवेणिकाजलप्रवाहमिव वहन्तमपश्यत् । तन्मध्ये च प्रतिस्रोत इव गत्वा प्रतिहारीमण्डलाधिष्ठितपुरोभागं श्रीमण्डपं ददर्श ॥
तत्र च मध्यभागे, पर्यन्तरचितमण्डलोपविष्टेन चानेकसहस्रसंख्येन परिस्फुरदाभरणसमूहेन कल्पलतानिवहेनेव कन्यकाजनेन परिवृताम्, नीलांशुकप्रच्छदपटप्रावृतस्य नातिमहतः पर्यङ्कस्योपाश्रये धवलोपधानन्यस्तद्विगुणभुजलतावष्टम्भेन अवस्थिताम्, निपतितप्रतिबिम्बतया अधस्तान्मणिकुट्टिमेषु नागैरिवापह्रियमाणाम्, उपान्ते च रत्नभित्तिषु दिक्पालैरिव नीयमानाम्, उपरि मणिमण्डपेष्वमरैः इवोत्क्षिप्यमाणाम्, अकृतपुण्यमिव मुञ्चन्तीं बालभावम्, पादाभरणरत्नांशुलेखासंदेहदायिनीभिः अतिकोमलतया नखविवरेण वमन्तीभिरिव रुधिरधारावर्षम् अङ्गुलिभिरुपेताभ्यां विद्रुमरसनदीमिव चरणाभ्यां प्रवर्तयन्तीम्, प्रजापतिकरदृढनिष्पीडितमध्यभागगलितं जघनशिलातलप्रतिघाताल्लावण्यजलस्रोत इव द्विधागतमूरुद्वयं दधानाम्, सर्वतः प्रसारितदीर्घमयूखमण्डलेनेर्ष्यया परपुरुषदर्शनमिव निरुन्धता काञ्चीदाम्ना नितम्बबिम्बस्य विरचितपरिवेषाम्, प्रजापतेः स्पृशतः सौकुमार्यादङ्गुलिमुद्रामिव निमग्नां नाभिमण्डलीमावर्तिनीमुद्वहन्तीम्, नखकिरणविसरवर्षिणा च माणिक्यवलयगौरवश्रमवशात् स्वेदजलधाराजालकम् इव मुञ्चता करयुगलेन समुद्भासिताम्, अभिनवयौवनपवनक्षोभितस्य रागसागरस्य तरङ्गाभ्यामिवोद्गताभ्यां विद्रमलतालोहिताभ्याम् अधराभ्यां रक्तावदातस्वच्छकान्तिना च मदिरारसपूर्णमाणिक्यशुक्तिसंपुटच्छविना कपोलयुगलेन रतिपरिवादिनीरत्नकोणचारुणा च नासावंशेन गतिप्रसरनिरोधिश्रवणकोपादिव किंचिदारक्तापाङ्गेन लोचनयुगलेन च विराजमानाम्, उन्मदयौवनकुञ्जरमदराजिभ्यां भ्रूलताभ्यां मनःशिलापङ्कलिखितेन च वदनलग्नेन तिलकबिन्दुना विद्योतितललाटपट्टाम्, उत्कृष्टहेमतालीपट्टाभरणमयं कर्णपाशं दोलायमानमरकतमाणिक्यकुण्डलं दधतीम्, पाटलीकृतललाटेन सीमन्तचुम्बिनश्चूडामणेः क्षरतांशुजालेन प्रक्षाल्यमानदीर्घकेशकलापाम्, रजनिजागरखिन्नस्य परिचितचक्रवाकमिथुनस्य स्वप्तुं क्रीडानदिकासु कमलधूलिवालुकाभिः बालपुलिनानि कारयन्तीम्, आत्मसंवर्धितलताप्रथमकुसुमनिर्गमनिवेदनागताम् उद्यानपालीम् अशेषाभरणदानेन संमानयन्तीम्, उपनीतविविधवनकुसुमफलपूर्णपत्रपुटाम् अविज्ञायमानालापतया हासहेतुं पुनः पुनः क्रोडापर्वतपत्रशबरीम् आलापयन्तीम्, गौरीमिव श्वेतांशुकरचितोत्तमाङ्गाभरणाम्, दिनमुखलक्ष्मीम् इव भास्वन्मुक्तांशुभिन्नपद्मरागप्रसाधनाम्, कल्पतरुलतामिव कामफलप्रदाम्, पुरः समीपे संमुखोपविष्टम् — ‘ कोऽसौ ? कस्य वापत्यम् ? किमभिधानो वा ? कीदृशमस्य रूपम् ? कियद्वा वयः ? किमभिधत्ते ? भवता किमभिहितः ? कियच्चिरं दृष्टस्त्वया ? कथं चास्य महाश्वेतया सह परिचय उपजातः ? किमयमत्रागमिष्यति ? ’ इति मुहुर्मुहुश्चन्द्रापीडसंबद्धालापं तद्रूपवर्णनामुखरं केयूरकं पृच्छन्ती कादम्बरीं ददर्श ॥
तस्य तु दृष्टकादम्बरीवदनचन्द्रलेखालक्ष्मीकस्य सागरस्येवामृतमुल्ललास हृदयम् । आसीञ्चास्य मनसि — “ शेषेन्द्रियाण्यपि मे वेधसा किमिति लोचनमयान्येव न कृतानि । किं वानेन कृतमवदातं कर्म चक्षुषा, यदनिवारितमेनां पश्यति । अहो चित्रमेतदुत्पादितं वेधसा सर्वरमणीयानामेकं धाम । कुत पते रूपातिशयपरमाणवः समासादिताः । तन्नूनमेनामुत्पादयतो विधेः करतलपरामर्शक्लेशेन ये विगलिता लोचनयुगलादश्रुबिन्दवः, तेभ्य एतानि जगति कुमुदकमलकुवलयसौगन्धिकवनान्युत्पन्नानि ” इत्येवं चिन्तयत एवास्य तस्या नयनयुगले निपपात चक्षुः । तदा तस्या अपि ‘ नूनमयं स केयूरकेणावेदितः ’ इति चिन्तयन्त्या रूपातिशयविलोकनविस्मयस्मेरं निश्चलनिवद्धलक्षं चक्षुस्तस्मिन्सुचिरं पपात
दृष्ट्वा च प्रथमं रोमोद्गमः, ततो भूषणरवः, तदनु कादम्बरी समुत्तस्थौ । अथ तस्याः कुसुमायुध एव स्वेदमजनयत् ; ससंभ्रमोत्थानश्रमो व्यपदेशोऽभवत् । ऊरुकम्प एव गतिं रुरोध ; नूपुररवाकृष्टहंसमण्डलमपयशो लेभे । निश्वासप्रवृत्तिरेवांशुकं चलं चकार, चामरानिलो निमित्ततां ययौ । आनन्द एवाश्रुजलमपातयत् ; चलितकर्णावतंसकुसुमरजो व्याज आसीत् । लज्जैव वक्तुं न ददौ ; मुखकमलपरिमलागतालिबृन्दं द्वारतामगात् ॥
कादम्बरी तु कृच्छ्रादिव दत्तकतिपयपदा महाश्वेतां स्नेहनिर्भरं चिरदर्शनजातोत्कण्ठां सोत्कण्ठं कण्ठे जग्राह । महाश्वेतापि दृढतरदत्तकण्ठग्रहा तामवादीत् — ‘ सखि कादम्बरि, भारते वर्षे राजा रक्षितप्रजापीडस्तारापीडो नाम । तस्यायं निजभुजशिलास्तम्भविश्रान्तविश्वविश्वंभरापीडः चन्द्रापीडो नाम सूनुर्दिग्विजयप्रसङ्गेनानुगतो भूमिमिमाम् । एष च दर्शनात्प्रभृति प्रकृत्या मे निष्कारणबन्धुतां गतः । परित्यक्तसकलसङ्गनिष्ठुरामपि मे सविशेषैः स्वभावसरलैर्गुणैराकृष्य चित्तवृत्तिं वर्तते । दुर्लभो हि दाक्षिण्यपरवशो निर्निमित्तमित्रमकृत्रिमहृदयो विदग्धजनः । यतो दृष्ट्वेममहमिव त्वमपि निर्माणकौशलं प्रजापतेः, निःसपत्नतां च रूपस्य, स्थानाभिनिवेशित्वं च लक्ष्म्याः, सद्भर्तृतासुखं च पृथिव्याः, सुरलोकातिरिक्ततां च मर्त्यलोकस्य, सफलतां च मानुषीलोचनानाम्, एकस्थानसमागमं च सर्वकलानां ज्ञास्यसीति बलादानीतोऽयम् । कथिता चास्य मया बहुप्रकारं प्रियसखी । तदपूर्वदर्शनोऽयमिति विमुच्य लज्जाम्, अनुपजातपरिचय इत्युत्सृज्याविस्रम्भताम्, अविज्ञातशील इत्यपहाय शङ्काम्, यथा मयि, तथात्रापि वर्तितव्यम् । एष ते मित्रं च, बान्धवश्च, परिजनश्च ” इत्यावेदिते तया, चन्द्रापीडः प्रणाममकरोत् ॥
कादम्बरी तु सविभ्रमकृतप्रणामा महाश्वेतया सह पर्यङ्के निषसाद । ससंभ्रमं परिजनोपनीतायां च हेमपादाङ्कितायां पीठिकायां चन्द्रापीडः समुपाविशत् । महाश्वेतानुरोधेन च विदितकादम्बरीचित्ताभिप्रायाः संवृतमुखन्यस्तहस्तदत्तशब्दनिवारणसंज्ञाः प्रतिहार्यो वेणुरवान् वीणाघोषान् गीतध्वनीन् मागधीजयशब्दांश्च सर्वतो निवारयाञ्चक्रुः । त्वरितपरिजनोपनीतेन च सलिलेन कादम्बरी स्वयमुत्थाय महाश्वेतायाश्चरणौ प्रक्षाल्य, उत्तरीयांशुकेनापमृज्य, पुनः पर्यङ्कमारुरोह । चन्द्रापीडस्यापि कादम्बर्याः सखी रूपानुरूपा जीवितनिर्विशेषा सर्वविस्रम्भभूमिर्मदलेखेति नाम्ना बलादनिच्छतोऽपि प्रक्षालितवती चरणौ । महाश्वेता तु कर्णाभरणप्रभावर्षिण्यंसदेशे सप्रेम पाणिना स्पृशन्ती, चामरपवनविधुतिपर्यस्तां चालकवल्लरीमनुष्वजमाना कदम्बरीमनामयं पप्रच्छ । सा तु सखीप्रेम्णा गृहनिवासेन कृतापराधेवानामयेनैव लज्जमाना कृच्छ्रादिव कुशलमाचचक्षे । मुहूर्तापगमे च ताम्बूलदानोद्यतां महाश्वेता तामभाषत — ‘ सखि कादम्बरि, संप्रतिपन्नमेव सर्वाभिरस्माभिः अयमभिनवागतः चन्द्रापीड आराधनीयः । तदस्मै तावद्दीयताम् ’ इत्युक्ता च किञ्चिद्विवर्तितावनमितमुखी शनैरव्यक्तमिव ‘ प्रियसखि, लज्जेऽहमनुपजातपरिचया प्रागल्भ्येनानेन । गृहाण, त्वमेवास्मै प्रयच्छ ’ इत्युवाच सा ताम् । पुनः पुनरभिधीयमाना च तया कथमपि ग्राम्येव चिराद्दानाभिमुखं मनश्चक्रे । महाश्वेतामुखादनाकृष्टदृष्टिरेव साध्वसपरवशा पतामीति लगितुमिव कृतप्रयत्ना प्रसारयामास ताम्बूलगर्भं हस्तपल्लवम् । चन्द्रापीडस्तु जयकुञ्जरकुम्भस्थलास्फालनसंक्रान्तसिन्दूरमिव स्वभावपाटलं प्रसारितवान् पाणिम् । तत्र च सा तेनानिबद्धलक्षशून्यप्रसारितेन हस्तेन स्वेदसलिलपातपूर्वकम् ‘ गृह्यतामयं मन्मथेन दत्तो दासजनः ’ इत्यात्मानमिव प्रतिग्राहयन्ती ताम्बूलमदात् । गृहीत्वा चापरं ताम्बूलं महाश्वेतायै प्रायच्छत् ॥
अथ सहसैव त्वरितगतिः, त्रिवर्णरागमिन्द्रायुधमिव कुण्डलीकृतं कण्ठेन वहता मन्थरगतेन शुकेनानुबध्यमाना, शारिका सकोधमवादीत् — ‘ भर्तृदारिके कादम्बरि, कस्मान्न निवारयस्येनम् अलीकसुभगाभिमानिनम् अतिदुर्विनीतं मामनुबध्नन्तं विहङ्गापशदम् । यदिमामनेन परिभूयमानामुपेक्षसे, ततोऽहं नियतमात्मानमत्सृजामि । सत्यं शपामि ते पादपङ्कजस्पर्शेन ’ इत्येवमभिहिता तया कादम्बरी स्मितमकरोत् । अविदितवृत्तान्ता तु महाश्वेता ‘ किमियं वदति ’ इति मदलेखां पप्रच्छ । सा चाकथयन् — ‘ एषा भर्तृदुहितुः सखी कादम्बर्याः कालिन्दीति नाम्ना शारिका । इयमस्य च परिहासनाम्नः शुकस्य भर्तृदारिकयैव पाणिग्रहणपूर्वकं जायापदं ग्राहिता । अद्य चायमनया प्रत्युषसि कादम्बर्यास्ताम्बूलकरङ्कवाहिनीमिमां तमालिकामेकाकिनीं किमपि पाठयन्दृष्टो यतः, ततः प्रभृति संजातेर्ष्या कोपपराङ्मुखी नैनमुपसर्पति, नालपति, न स्पृशति, न विलोकयति । सर्वाभिरस्माभिः प्रसाद्यमानापि न प्रसीदति ’ इति । एतदाकर्ण्य, स्फुटस्फुरितकपोलोदरः चन्द्रापीडो मन्दं मन्दं विहस्याब्रवीत् — ‘ अस्त्येषा कथा, श्रूयत एवैतद्राजकुले कर्णपरंपरया, परिजनोऽप्येवमामन्त्रयते, बहिरपि जनाः कथयन्त्येवम्, दिगन्तरेष्वप्ययमालापो वर्तत एव, अस्माभिरप्येतदाकर्णितमेव; यथा किल — देव्याः कादम्बर्यास्ताम्बूलवाहिनीं तमालिकां कामयमानः परिहासनामा शुको मदनपरवशो गतान्यपि दिनानि न वेत्तीति । तदयमास्तां तावद्वामाचारः परित्यक्तनिजकलत्रो निस्त्रपोऽनया सह । देव्यास्तु कादम्बर्याः कथमेतद्युक्तम् — यन्न निवारयतीमां चपलां दुष्टदासीम् । अथवा देव्यापि कथितैव निःस्नेहता प्रथममेव वराकीमिमां कालिन्दीमीदृशाय दुर्विनीताय विहङ्गाय प्रयच्छन्त्या । किमिदानीमियं करोतु ? यदेतत्सापत्न्यकरणं नारीणां प्रधानं कोपकारणम्, अग्रणीर्विरागहेतुः, परं परिभवस्थानम् । इयमेव केवलमतिधीरा, यदनयानेन दौर्भाग्यगरिम्णा जातवैराग्यया विषं वा नास्वादितम्, अनलो वा नासादितः, अनशनं वा नाङ्गीकृतम् । न ह्येवंविधमपरमस्ति योषितां लघिम्नः कारणम् । यदि चेयमीदृशेऽप्यपराधेऽनुनीयमानानेन प्रत्यासत्तिमेष्यति, तदा धिगिमाम् । अलमनया, दूरतो वर्जनीयेयमभिभवनिरस्या । क एनां पुनरालापयिष्यति, को वावलोकयिष्यति, को वास्या नाम ग्रहीष्यति ’ इत्येवमभिहितवति तस्मिन्, सर्वास्ताः सह कादम्बर्या क्रीडालापभाविता जहसुरङ्गनाः ॥
Full Table of Contents