Skip to main content
Search
Ch. 1 KD 1.189
Full Chapter
KD • Chapter 1: Complete Text

KD 189

Canonical Ref: KD 189
Sanskrit (Devanāgarī)
एवमुक्ता दीर्घमुष्णं च निश्वस्य, बाष्पायमाणलोचन सनिर्वेदमवादीत् — “ राजपुत्र, या तदा तस्यामतिदारुणायां हतनिशायामेभिरतिनृशंसैरसुभिर्न परित्यक्ता, ते मामिदानीं परित्यजन्तीति दूरापेतम् । नूनमपुण्योपहतायाः पापाया मम भगवानन्तकोऽपि परिहरति दर्शनम् । कुतश्च मे कठिनयहृदयायाः शोकः सर्वमिदमलीकमस्य दुरात्मनः शठहृदयस्य । सर्वथाहमनेन त्यक्तत्रपेण निरपत्रपाणामग्रेसरी कृता । यया वज्रमय्येवेदमनुभूतम्, ततः का गणना कथनं प्रति । किं वा परमतः कष्टतरमाख्येयमन्यद्भविष्यति, यन्न शक्यते श्रोतुमाख्यातुं वा । केवलमस्य वज्रपातस्यानन्तरमाश्चर्यं यदभूत्, तदावेदयामि । आत्मनश्च प्राणधारणकारणलव इवाव्यक्तो यः समुत्पन्नः, तं च कथयामि । यया दुराशामृगतृष्णिकया गृहीताहमिदमुपरतकल्पं परकीयमिव भारभूतमप्रयोजनमकृतज्ञं च हतशरीरं वहामि । तदलं श्रूयताम् । ततश्च तथाभूते तस्मिन्नवस्थान्तरे, मरणैकनिश्चया तत्तद्बहु विलप्य तरलिकामब्रवम् — ‘ अयि उत्तिष्ठ निष्ठुरहृदये कियद्रोदिषि । काष्ठान्याहृत्य विरचय चिताम् । अनुसरामि जीवितेश्वरम् ’ इति ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 189. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 188) All Verses in Chapter 1 Next Verse (KD 190) →