Skip to main content
Search
Ch. 1 KD 1.188
Full Chapter
KD • Chapter 1: Complete Text

KD 188

Canonical Ref: KD 188
Sanskrit (Devanāgarī)
इत्येवमात्मवृत्तान्तमावदयन्त्या एव तस्याः समतिक्रान्तं कथमप्यतिकष्टमवस्थान्तरम् अनुभवन्त्या इव चेतनां जहार मूर्छा । वेगान्निपतन्ती च शिलातले तां ससंभ्रमं प्रसारितकरः परिजन इव जातपीडश्चन्द्रापीडो विधृतवान् । अश्रुजलाद्रेण च तदीयेनैवोत्तरीयवल्कलप्रान्तेन शनैः शनैर्वीजयन्, संज्ञां ग्राहितवान् । उपजातकारुण्यश्च बाष्पसलिलोत्पीडेन प्रक्षाल्यमानकपोल्युगलो लब्धचेतनामवादीत् — “ भगवति, मया पापेन तवायं पुनरग्निवतामुपनीतः शोकः, येनेदृशीं दशामुपनीतासि । तदलमनया कथया । संह्रियतामियम् । अहमप्यसमर्थः श्रोतुम् । अतिक्रान्तान्यपि हि संकीर्त्यमानानि प्रियजनविश्वासवचनान्यनुभवसमां वेदनामुपजनयन्ति सुहृज्जनस्य दुःखानि । तन्नार्हसि कथं कथमपि विधृतनिमानसुलभानसून् पुनः पुनः स्मरणशोकानलेन्धनतामुपनेतुम् ” इति ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 188. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 187) All Verses in Chapter 1 Next Verse (KD 189) →