Skip to main content
Search
Ch. 1 KD 1.203
Full Chapter
KD • Chapter 1: Complete Text

KD 203

Canonical Ref: KD 203
Sanskrit (Devanāgarī)
यत्र च कन्यकाजनस्य लोचनान्येव कर्णोत्पलानि, निःश्वासा एवाधिवासगन्धयुक्तयः, आलापा एव तन्त्रीनिनादाः, करतलान्येव लीलाकमलानि, निजदेहप्रभैवांशुकावगुण्ठनम्, कोमलाङ्गुलिराग एव चरणालक्तकरसः । यत्र चालक्तकरसोऽपि चरणातिभारः, अवतंसकुसुमधारणमपि श्रमः, सखीदर्शनेषु अकृतहस्तावलम्बनमुत्थानम् अतिसाहसम्, कुसुमावचयेषु द्वितीयकुसुमग्रहणमपि अयुवतिजनोचितम्, कन्यकाविज्ञानेषु माल्यग्रथनम् असुकुमारजनव्यापारः ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 203. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 202) All Verses in Chapter 1 Next Verse (KD 204) →