Skip to main content
Search
Ch. 1 KD 1.181
Full Chapter
KD • Chapter 1: Complete Text

KD 181

Canonical Ref: KD 181
Sanskrit (Devanāgarī)
अथ तं प्रयासन्नसमुद्रविद्रुमप्रभापाटलितमिवाभिनवोदयरागलोहितं रजनिकरमुदितं विलोकयन्तीम्, अन्धकारितहदयाम्, तरलिकोत्सङ्गविधृतशरीराम्, मूर्च्छा मां निमीलितलोचनामकार्षीत् । अचिरेण च संभ्रान्ततरलिकोपनीताभिः चन्दनचर्चाभिः तालवृन्तानिलैश्चोपलब्धसंज्ञा, तामेवाकुलाकुलां रुदतीं तरलिकामपश्यम् । उन्मीलितलोचनां च मां सा कृतपादप्रणामा बद्धाञ्जलिरवादीत् — “ भर्तृदारिके, किं लज्जया गुरुजनापेक्षया वा । प्रसीद । प्रेषय माम् । आनयामि ते हृदयदयितं जनम् । उत्तिष्ठ, स्वयं वा तत्र गम्यताम् ” इत्येवंवादिनीम् ‘ उत्तिष्ठ, यथाकथंचिदनुगतजीविता संभावयामि हृदयदयितं जनम् ’ इत्यभिदधाना कथंचिदवलम्ब्य तामेवोदतिष्ठम् । उच्चालितायाश्च मे दुर्निमित्तनिवेदकमस्पन्दत दक्षिणं लोचनम् । उपजातशङ्का चाचिन्तयम् — ‘ इदमपरं किमप्युपक्षिप्तं दैवेन ’ इति ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 181. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 180) All Verses in Chapter 1 Next Verse (KD 182) →