५. धर्मादीनामन्यतमपुरुषार्थः कार्यम्, यथोच्यते—(नाशा. १९.२६)२
यदाधिकारिकं वस्तु सम्यक् प्राज्ञैः प्रयुज्यते।
यदर्थस्तु समारम्भः तत् कार्यमिति कीर्तितम्॥ १९५॥
अत्रोदाहरणानि—(मवीच. १.७)
प्राचेतसो मुनिवृषः प्रवरः कवीनां यत् पावनं रघुपतेः प्रणिनाय वृत्तम्।
भक्तस्य तत्र सुमहान्ति ममापि वाच— स्ताः सुप्रसन्नमनसः कृतिनो भजन्ताम्॥ १९६॥
इति बीजस्य।
'हा वत्साः खरदूषणत्रिशिरसो वध्याः स्थ पापस्य मे'॥ ११७॥
(पृ. ६९६)
(मवीच. ४.११) इत्यादि बिन्दोः।
मूर्ध्ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापती— नाश्वास्याश्रुमुखान् मुहुः प्रियसखान् प्रेष्यान् समादिश्य च।
आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन् मारुतिः॥ १९८॥
इति पताकायाः (राच. १.५.६७)
मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपात/पतनाद् भीतो महेन्द्रादपि।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावण— मा ज्ञातं स जटायुरेष जरयाक्लिष्टो वधं वाञ्छति॥ १९९॥
इति प्रकर्याः (उराच. २.३१)
यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले इत्यादि;॥ २००॥ (रत्ना. ४.१९)
(पृ.६३९) इति कार्यस्य।
NOTES pg=1315! १—२. अस्मत्संस्करणे १९.२४,२५.
(विचारः) एवमर्थप्रकृतीनां साधर्म्यवैधर्म्याभ्याम् अवगतत्वस्य हानोपादानोपेक्षाबुद्धिहेतवे विचारः। स च पञ्चाङ्गः — १. कर्मणामारम्भोपायः, २. पुरुषद्रव्यसम्पत्, ३. देशकालविभागः, ४. विनिपातप्रतीकारः, ५. कार्यसिद्धिश्चेति।
तस्य च विनिश्चयावस्थायां पञ्च कर्माणि —
१. अनुपलब्धस्य ज्ञानम्, २. उपलब्धस्य निश्चयबलाधानम्; ३. अनर्थद्वैधस्य संशयच्छेदनम्; ४. एकदेशद्ृष्टस्य शेषोपलब्धिः, ५. विपर्ययविचिकित्सा चेति।
तेन च निर्णीताऽभिमतफलसिद्धिः(नायकः) अलब्धलाभार्थं, लब्धपरिरक्षार्थं, रक्षिताभिवृद्धये, अर्थितोपयोगाय, उपयुक्तपर्याप्तये च वर्तमानः यं यं क्रियाप्रबन्ध— स्कन्धमध्यास्ते तस्य तस्य मुखप्रतिमुखाकृतिभिः सन्ध्यादयो व्यपदेशा भवन्ति। ते च सन्धयोऽवस्थासंस्थासमवस्था इति। तत्र —
(पञ्चनाटकसन्धयः)
मुखः प्रतिमुखो गर्भो विमर्शो निर्वहणम् इत्यारम्भात् परिसमाप्तिपर्यन्तायाः प्रवृत्तेः पञ्च सन्धयो भवन्ति। यथोच्यते—(नाशा. १९.३५)
मुखं प्रतिमुखं गर्भो विमर्शश्च तथैव हि।
तथा निर्वहणं चेति सन्धयः पञ्च नाटके॥ २०१॥
१. तत्राधिकारिणो नायकादेर्यत्र निर्देशस्तन् मुखम्। उक्तं च—(नाशा. १९.३६)
यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा।
कथाशरीरानुगता तन्मुखं परिकीर्तितम्॥ २०२॥