Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 29

Prakāśa 29: दूतसंप्रेषणादिप्रकाशः

प्रकाशः 29 • दूतसंप्रेषणादिप्रकाशः

Prakāśa 29 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 765 Verses • Citations: SP 29.1–765 • 4 Lexicon Terms • Page 10 of 26 (Verses 30 shown)
तुरिअ-पहाइअ-दिट्टम्मि परिअणे आगओ त्ति सोऊण।
अज्जा सज्झसविअला पअं पि दाउं ण पारेइ॥ ७६॥
{त्वरित—प्रधावित—दृष्‍टे परिजने आगत इति क्षुत्वा।
आर्या साध्वसविकला पदमपि दातुं न पारयति॥}
सज्झसवेसवेविरकोमलोरुपडिसिद्धसमुहसेभारे ।
केण व दिण्णं ताविइ पिएण परिरंभिआ रमणी॥ ७७॥
{साध्वसवेपनशीलकोमलोरुप्रतिषिद्धसमूहसंभारे ।
केन वा दत्तं तावदिति(दिण्णोदंत त्ति) प्रियेण परिरब्धा रमणी॥}
३९. नायकाप्रतिबोधनं यथा—(मामा. ६.१५)
पुरश्चक्षूरागस्तदनु मनसो मन्युपरता तनुग्लानिर्यस्य त्वयि समभवद् यत्र च तव।
युवा सोऽयं प्रेयानिह सुवदने मुञ्च जडतां विधातुर्वैदग्ध्यं विलसतु सकामोऽस्तु मदनः॥ ७८॥
त्वं वत्सलेति कथमप्यवलम्बितात्मा सत्यं जनोऽयमियतो दिवसाननैषीत्।
आविद्ध—कङ्कण—कर—प्रणय—प्रसादं आसाद्य नन्दतु चिराय फलन्तु कामाः॥ ७९॥
४०. सुहृत्परिहासो यथा—(रघु. ६.८२, कुसं. ७.१९)
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे।
आर्ये व्रजावान्यत इत्यथैनां वधूसूयाकुलितं ददर्श॥ ८०॥
पत्युः शिरश्चन्द्रकलमनेन स्पृशेति सख्या परिहासपूर्वम्।
सा रञ्जयित्वा चरणौ कृताशीर् माल्येन तां निर्वचनं जघान॥ ८१॥
अथातो दूतपुरस्कार इतिवृत्ताख्यानमवस्थाज्ञानमवधानं सम्प्रयोगसम्प्रधानं शक्तिविवेचनं समागमोपायः समीहितसिद्धिरिति प्रपञ्चतोऽभिधीयन्ते।
तत्र दूतीसखीनायकादिभेदाद् दूतपुरस्कारप्रपञ्चः। तत्र —
१. दूतीकृतो यथा—(मामा. १.१८/१९)
कामन्दकी— वत्से अवलोकिते, साधु साधु। अनेन मत्प्रियाभियोगेन स्मारयसि मे पूर्वशिष्यां सौदामनीम्।
यथा वा— साधु सखे भूरिवसो साधु। प्रभवति निजस्य कन्यकाजनस्य महाराज इति उभयलोकाविरुद्धमुत्तरमुपन्यस्तम्॥ ८२॥ (मामा. २.२/३)
एह्येहि भूरिजनजीवितदानपुण्य— सम्भारधारिणि! चिरादसि हन्त दृष्‍टा।
दत्तप्रमोदमपि नन्दय मे शरीरम् आलिङ्ग्य सौहृदनिधे! विरम प्रणामात्॥ ८३॥
वन्द्या त्वमेव जगतः स्पृहणीयसिद्धिः एवंविधैर्विलसितैरतिबोधिसत्त्वैः ।
यस्याः पुरा परिचयप्रतिबद्धबीजम् उद्भ‍ूतभूरिफलशालि विजृम्भितेन॥ ८४॥
← Previous (Ch. 28) Full Table of Contents Next (Ch. 30) →