Skip to main content
Search
Ch. 29 SP 29.713
Full Chapter
SP • Chapter 29: Prakāśa 29: दूतसंप्रेषणादिप्रकाशः

SP 29.713

Canonical Ref: SP 29.713
Sanskrit (Devanāgarī)
तेन च निर्णीताऽभिमतफलसिद्धिः(नायकः) अलब्धलाभार्थं, लब्धपरिरक्षार्थं, रक्षिताभिवृद्धये, अर्थितोपयोगाय, उपयुक्तपर्याप्‍तये च वर्तमानः यं यं क्रियाप्रबन्ध— स्कन्धमध्यास्ते तस्य तस्य मुखप्रतिमुखाकृतिभिः सन्ध्यादयो व्यपदेशा भवन्ति। ते च सन्धयोऽवस्थासंस्थासमवस्था इति। तत्र —
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 29.713. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 29.712) All Verses in Chapter 29 Next Verse (SP 29.714) →