सेहालिआण गंधो ण देइ सोत्तुं, सुअह तुम्हे॥ ३९॥
(स्वप तृतीयोऽपि गतो याम इति सख्यः! कस्मान्मां भणथ?।
शेफालिकानां गन्धो न ददाति स्वप्तुं, स्वपत यूयम्॥)
२.१२. (ङ) हेमन्तचर्याविषयो यथा—(गास. ७७४वे.)
हेमंते हिमरअधूसरस्स ओ असरणस्स पहिअस्स।
सुमरिअ—जाआ—मुह—सिज्जिरस्स सीअं चिअ पणट्ठंय़॥ ३२॥
(हेमन्ते हिमरजोधूसरस्य अहो अशरणस्य/ अप्रावरणस्य पथिकस्य।
स्मृतजायामुखस्वेदशीलस्य शीतमेव प्रनष्टम्॥)
२.१२. (च) शिशिरचर्याविषयो यथा—(गास. ९.२५वे.)
चरलच्छि! चंदवअणे! पीणत्थणि! करिकरोरु! तणुमज्झे!।
दीहा वि समप्पइ सिसिरजामिणी, कह णु दे माणो?॥ ३३॥
(तरलाक्षि! चन्द्रवदने! पीनस्तनि! करिकरोरु! तनुमध्ये!।
दीर्घाऽपि समाप्यते शिशिरयामीनि, कथं नु ते मानः?॥)
२.१२. (छ) आदिग्रहणात् प्रकीर्णविषयो यथा—
विलिम्पत्येतस्मिन् मलयजरसार्द्रेण महसा दिशां चक्रं चन्द्रे सुकृतमथ तस्या मृगदृशः।
दृशोर्बाष्पः पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं ह्नीः पृष्ठे वचसि च गुणा एव भवतः॥ ३४॥
प्रथमानुरागादीनामनन्तराणां च विस्तरतः प्रपञ्चमग्रतः१ क्रमेण वर्णयिष्यामः। इह तु दिङ्मात्रमुपलक्षणार्थमुदाह्नियते। तत्र—
१. प्रथमानुरागो यथा—(गास. १. ९३)
अविअण्हपेच्छणिज्जेण तक्खणं मामि! तेण दिट्ठेण।
सिविणअ—पीएण व पाणिएण तण्हा चिअ ण फिट्टा॥ ३५॥
(अवितृष्णप्रेक्षणीयेन तत्क्षणं मातुलानि! तेन दृष्टेन।
स्वप्नपीतेनेव पानीयेन तृष्णैव न भ्रष्टा॥)
१.१. प्रथमानुरागानन्तरो यथा—(कुसं. ८.१)
पाणिपीडनविधेरन्तरं शैलराजदुहितुर्हरं प्रति।
भावसाध्वसपरिग्रहादभूत् कामदोहदमनोहरं वपुः॥ ३६॥
२. मानो यथा—(अमरु. ८१)
कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः।
मुहुर्लग्नः कण्ठे तरलयति बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे ननु वयम्॥ ३७॥
२.१. मानानन्तरो यथा—(उरा. १. १)
पौलस्त्यपीनमुजसम्पदुदस्यमानकैलाससम्भ्रमविलोलदृशः प्रियायाः।