Skip to main content
Search
RV
Raghuvaṁśam • Chapter 08

Canto 8

अष्टमः सर्गः (अजविलापः)

Canto 8 of Raghuvaṁśam.

Total: 95 Verses • Citations: RV 8.1–95 • 1 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
RV 8.1 वियोगिनी
अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः । वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ पार्थिवो रघुर्ललितं सुभगं विवाहकौतुकं विवाहमङ्गलं विवाहहस्तसूत्रं वा बिभ्रत एव। `कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले` इति शाश्वतः। तस्याजस्य। अपरामिन्दुमतीमिव। वसुधामपि हस्तगामिनीमकरोत्। अस्मिन्सर्गे वैतालीयं छन्दः ॥
RV 8.2 वियोगिनी
दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् । तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दुरितैरिति॥ नृपसूनवो राजपुत्रा यद्राज्यं दुरितैरपि विषप्रयोगादिनिषिद्धोपायैरपि आत्मसात् स्वाधीनम्। `तदधीनवचने` (पा.5।4।54) इति सातिप्रत्ययः। कर्तुं प्रयतन्ते हि। प्रवर्तन्त एवेत्यर्थः। `हि` शब्दोऽवधारणे। `हि हेताववधारेण` इत्यमरः (अ.को.3|3|272)। उपस्थितं स्वतःप्राप्तं तद्राज्यम्। अजः पितुराज्ञेति हेतोरग्रहीत् स्वीचकार। भोगतृष्णया तु नाग्रहीत् ॥
RV 8.3 वियोगिनी
अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनम् । विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनुभूयेति॥ मेदिनी भूमिर्महिषी च ध्वन्यते। वसिष्ठेन संभृतैः सलिलैस्तेनाजेन सहाभिषेचनमनुभूय विशदोच्छ्वसितेन स्फुटमुद्बृहणेन। आनन्दनिर्मलोच्छ्वसितेन चेति ध्वन्यते। कृतार्थतां गुणवद्भर्तृलाभकृतं साफल्यं कथयामासेव। न चैतावता पूर्वेषामपकर्षः;प्रशंसापरत्वात्। `सर्वत्र जयमन्विच्छेत् पुत्रादिच्छेत्पराजयम्` इत्यङ्गीकृतत्वाञ्चज ॥
RV 8.4 वियोगिनी
स बभूव दुरासदः परैर्गुरुणाऽथर्वविदा कृताक्रियः । पवनाग्निसमागमो ह्ययं सहतिं ब्रह्म यदस्त्रतेजसा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ अथर्वविदाऽथर्ववेदाभिज्ञेन गुरुणा वसिष्ठेन कृतक्रियः। अथर्वोक्तविधिना कृताभिषेकसंस्कार इत्यर्थः। सोऽजः परैः शत्रुभिर्दुरासदो दुर्धर्षो बभूव। तथा हि-अस्त्रतेजसा क्षत्रतेजसा सहितं युक्तं यद्ब्रह्म ब्रह्मतेजोऽयं पवनाग्निसमागमो हि तत्कल्प इत्यर्थः। `पवनाग्नि`इत्यत्र पूर्वनिपातशास्त्रस्यानित्यत्वात् `द्वन्द्वे घि` (पा.2।232)इति नाग्निशब्दस्य पूर्वनिपातः। तथा च काशिकायाम्-`अयमेकस्तु लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम्`इति। क्षात्रेणैवायं दुर्धर्षः किमयं पुनर्वसिष्ठमन्त्रप्रभावे सतीत्यर्थः। अत्र मनुः-`नाक्षत्रं ब्रह्म भवति क्षत्रं नाब्रह्म वर्धते। ब्रह्मक्षत्रे तु संयुक्ते हहामुत्र च वर्धते॥` इति ॥
RV 8.5 वियोगिनी
रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजाः । स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रघुमिति॥ प्रजा नवेश्वरं तमजं निवृत्तयौवनं प्रत्यावृत्तयौवनं रघुमेवामन्यन्त। न किंचिद्भेदकमस्तीत्यर्थः। कुतः? हि यस्मात् सोऽजस्तस्य रघोः केवलामेकां श्रियं न प्रतिपेदे। किंतु सकलान्गुणान् शौर्यदाक्षिण्यदीनपि प्रतिपेदे। अतस्तद्गुणयोगात्तंद्बुद्धिर्यथेत्यर्थः ॥
RV 8.6 वियोगिनी
अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् । पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अधिकमिति॥ द्वयमेव शुभंयुना शुभवता। `शुभंयुस्तु शुभान्वितः` इत्यमरः (अ.को.3|1|50)। `अहंशुभमोर्युस्` (पा.5।2।140) इति युस्प्रत्ययः। द्वितयेन संगतं युतं सदधिकं शुशुभे। किं केनेत्याह-पदमिति। पैतृकं पितुरागतम्। `ऋतष्ठञ्` (पा.4।3।78)इति ठञ्प्रत्ययः। ऋद्धं समृद्धं पदं राज्यमजेन अस्याजस्य नवं यौवनं विनयेनेन्द्रियजयेन च। `विजयो हीन्द्रियजयस्तद्युक्तः शास्त्रमर्हति` इति कामभ्दकः। राज्यस्थोऽपि प्राकृतवन्न दृप्तोऽभूदित्यर्थः ॥
RV 8.7 गीति
सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहरणां वधूमिव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सदयमिति॥ सहाभुजः सोऽजोऽचिरोपनतां नवोपगतां मेदिनीं भुवम्। नवं पाणिग्रहणं विवाहो यस्यास्तां नवोढां वधूमिव। सहसा बलात्कारेण चेत्। `सहो बलं सहा मार्गः` इत्यमरः (अ.को.3|3|247)। इयं मेदिनीर्वा। उद्वेगं भयं व्रजेदिति हेतोः। सदयं सकृपं बुभुजे भुक्तवान्। `भुजोऽनवने` (पा.1।3।66) इत्यात्मनेपदम् ॥
RV 8.8 वियोगिनी
अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् । उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अहमिति॥ प्रकृतिषु प्रजासु मध्ये सर्वोऽपि जनः। अथवा, -प्रकृतिष्वित्यस्याहमित्यनेनान्वयः। व्यवधानं तु सह्यम्। सर्वोऽपि जनः प्रकृकतिष्वहमेव महीपतेर्मतो महीपतिना मन्यमानः। `मतिबुद्धिपूजार्थेभ्यश्च` (पा.3।2।188)इति वर्तमाने क्तः, `क्तस्य च वर्तमाने` (पा.2।3।67)इति षष्ठी। इत्यचिन्तयदमन्यत। उदधेर्निम्रगाशतेष्विवास्य नृपस्य कर्तुः। `कर्तृकर्मणोः कृति` (पा.2।3।65)इति कर्तरि षष्ठी। क्वचिदपि जनविषये विमाननाऽवगणना तिरस्कारो नाभवत्, यतो न कंचिदवमन्यतेऽतः सर्वोऽप्यहमेवास्य मत इत्यमन्यतेत्यर्थः ॥
RV 8.9 वियोगिनी
न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव । स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ स नृपो भूयसा बाहुल्येन खरस्तीक्ष्णो न। भूयसा मृदुरतिमृदुरपि न। कुंतु पुरस्कृतमध्यमक्रमः सन्, मध्यमपरिपाटीमवलम्ब्येत्यर्थः। पवमानो वायुः पृथिवीरुहांस्तरूनिव नृपाननुद्धरन्ननुत्पाटयन्नेव नमयामास। अत्र कामन्दकः-`मृदुश्चेदवमन्येत तीक्ष्णादुद्विजते जनः। तीक्ष्णश्चैव मृदुश्चैव प्रजानां स च संमतः ॥` इति ॥
RV 8.10 वियोगिनी
अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया । विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ रघुरात्मजं पुत्रमात्मवत्तया। निर्विकारमनस्कतयेत्यर्थः। `उदयादिष्वविकृतिर्मनसः सत्त्वमुच्यते। आत्मवान्सत्त्ववानुक्तः` इत्युत्पलमालायाम्। प्रकृतिष्वमात्यादिषु प्रतिष्ठितं रूढमूलं वीक्ष्य ज्ञात्वा विनाशो धर्मो येषां तेषु विनाशधर्मसु। अनित्येष्वित्यर्थः। `धर्मादनिच्केवलात्` (पा.5।4।124) इत्यनिच्प्रत्ययः समासान्तः। त्रिदिवस्थेषु स्वर्गस्थेष्वपि विषयेषु शब्दादिषु निःस्पृहो निर्गतेच्छोऽभवत् ॥
RV 8.11 वियोगिनी
गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः । पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गुणवदिति॥ दिलीपवंशजाः परिणामे वार्धके गुणवत्सुतेषु रोपितश्रियः स्थापितलक्ष्मीकाः प्रयताश्च सन्तः। तरुवल्कान्येव वासांसि तेषां संयमिनां यतीनां पदवीं प्रपेदिरे। यस्मात्तस्मादस्यापीदमुचितमित्यर्थः ॥
तमरण्यसमाश्रयोमन्मुखं शिरसा वेष्टनशोभिना सुतः । पितरं प्रणिपत्य पादयोरपरित्यागमयाचतात्मनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ अरण्यसमाश्रयोन्मुखं वनवासोद्युक्तं पितरं तं रघुं सुतोऽजः। वेष्टनशोभिनोष्णीषमनोहरेण शिरसा पादयोः प्रणिपत्य। आत्मनोऽपरित्यागमयाचत। मां परित्यज्य न गन्तव्यमिति प्रार्थितवानित्यर्थः ॥
RV 8.13 वियोगिनी
रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः । न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रघुरिति॥ आत्मजप्रियः पुत्रवत्सलो रघुः। अश्रूणि मुखे यस्य तस्याश्रुमुखस्याजस्य तदपरित्यागरूपमीप्सितमभिलषितं कृतवान्। किंतु सर्पस्त्वचमिव व्यपवर्जितां त्यक्तां श्रियं पुनर्न प्रतिपेदे न प्राप ॥
RV 8.14 वियोगिनी
स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः । समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रघुः किलान्त्यमाश्रमं प्रव्रज्यामाश्रितः पुरान्नगराद्बहिरावसथे स्थाने निवसन्नविकृतेन्द्रियः। जितेन्द्रियः सन्नित्यर्थथः। अत एव स्नुषयेव वध्वेव पुत्रभोग्यया न स्वभोग्यया। श्रिया समुपास्य शुश्रूषितः। जितेन्द्रियस्य तस्य स्नुषयेव श्रियापि` पुष्पफलोदकाहरणादिशुश्रूषाव्यतिरेकेण न किंचिदपेक्षितमासीदित्यर्थः॥ अत्र यद्यपि `ब्राह्मणाः प्रव्रजन्ति` इति श्रुतेः। `आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्`(6।38) इति मनुस्मरणात्। `मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम्। बाहुजातोरुजातानामयं धर्मो न विद्यते॥` इति निषेधाञ्च ब्राह्मणस्यैव प्रव्रज्या न क्षत्रियादेरित्याहुः। तथापि `यदहरेव विरजेत्तदहरेव प्रव्रजेत्` इत्यादिश्रुतेस्त्रैवर्णिकसाधारण्यात्। `त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः` इति सूत्रकारवचनात्। `ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद्गृहात्`(मनु.10।117) इति स्मरणात्। `मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम्। बाहुजातोरुजातानां त्रिदण्डं न विधीयते॥` इति निषेधस्य त्रिदण्डविषयत्वदर्शनाञ्च। कुत्रचिद्ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित्त्रैवर्णिकाधिकारं प्रतिपेदिरे। तथा सति `स किलाश्रममन्त्यमाश्रितः`(8।14)इत्यत्रापि कवनाप्ययमेव पक्षो विवक्षित इति प्रतीमः। अन्यथा वानप्रस्थाश्रमतया व्याख्याते `विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित्`(8।25) इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः स्यात्; अग्निसंस्काररहितस्य वानप्रस्थास्यैवाभावात् इत्यलं प्रासङ्गिकेन ॥
प्रशमस्थइतपूर्वपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् । नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रशमेति॥ प्रशमे स्थितः पूर्वपार्थिवो रघुर्यस्य तत्। अभ्युद्यतोऽभ्युदितो नूतनेश्वरोऽजो यस्य तत्। प्रसिद्धं कुलं निभृतेन्दुनाऽस्तमयासन्नचन्द्रेणोदितार्केण प्रकटितसूर्येण च नभसा तुलां सादृश्यं समारुरोह प्राप। न च `नभसा तुलाम्` इत्यत्र `तुल्यार्थैः-` (पा.2।3।72) इत्यादिना प्रतिषेधस्तृतीयायाः। तस्य सदृशवाचि`तुला` शब्दविषयत्वात्। `कृष्णस्य तुला नास्ति` इति प्रयोगात्; अस्य च सादृश्यवाचित्वात् ॥
RV 8.16 वियोगिनी
यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः । अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यतीति॥ यतिर्भिक्षुः। पार्थिवो राजा। तयोर्लिङ्गधारिणौ रघुराघवौ रघुतत्सुतौ। अपवर्गमहोदयार्थयोर्मोक्षाभ्युदयफलयोः। धर्मयोः। निवर्तकप्रवर्तकरूपयोरित्यर्थः। भुवं गतौ भूलोकमवतीर्णावंशाविव। जनैर्ददृशाते दृष्टौ ॥
RV 8.17 वियोगिनी
अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः । अनपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अजितेति॥ अजोऽजिताधिगमायाजितपदलाभाय नीतिविशारदैर्नीतिज्ञैर्मन्त्रिभिर्युयुजे संगतः । रघुरप्यनपायिपदस्योपलब्धये मोक्षस्य प्राप्तये यथार्थदर्शिनो यथार्थवादिनश्चाप्ताः। तैर्योगिभिः समियाय संगमः। उभयत्राप्युपायचिन्तार्थमिति शेषः ॥
RV 8.18 वियोगिनी
नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनमाददे युवा । परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नृपतिरिति॥ युवा नृपति रजः प्रकृतीः प्रजाः कार्यार्थिनीरवेक्षितुम्। दुष्टादुष्टपरिज्ञानार्थमित्यर्थः। व्यवहारासनं धर्मासनम्। आददे स्वीचकार। प्रवयाः स्थविरो नृपती रघुस्तु। `प्रवयाः स्थविरो वृद्धः` इत्यमरः (अ.को.2|6|42)। धारणां चित्तस्यैकाग्रतां परिचेतुमभ्यसितुम्। उपांशु विजने। `उपांशु विजने प्रोक्तम्` इति हलायुधः। कुशैः पूतं विष्टरमासनमाददे। `यमादिगुणसंयुक्ते मनसः स्थइतिरात्मनि। धारणा प्रोच्यते सद्भिर्योगशास्त्रविशारदैः ॥` इति वसिष्ठः ॥
RV 8.19 वियोगिनी
अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् । अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनयदिति॥ एकोऽन्यतमः। अज इत्यर्थः। अनन्तरान्स्वभूम्यनन्तरान्नृपतीन्यातव्यपार्षिणिग्राहादीन् प्रभुशक्तिसंपदा कोशदण्डमहिम्ना वशं स्वायत्ततामनयत्। `कोशो दण्डो बलं चैव प्रभुशक्तिः प्रकीर्तिता` इति मिताक्षरायाम्। अपरो रघुः प्रणिधानयोग्यया समाध्यभ्यासेन। `योगाभ्यासार्कयोषितोः` इति विश्वः। शरीरगोचरान्देहाश्रयान्पञ्च मरुतः पाणादीन्वशमनयत्। `प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। शरीरस्थाः` इत्यरमः ॥
RV 8.20 वियोगिनी
अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् । इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अकरोदिति॥ अचिरेश्वरोऽजः क्षितौ द्विषतामारम्भाः कर्माणि तेषां फलानि भस्मसादकरोत् कार्त्स्न्येन भस्मीकृतवान्। `विभाषा साति कार्त्स्न्ये` (पा.5।4।52)इति सातिप्रत्ययः। इतरो रघुर्ज्ञानमयेन आत्मज्ञानप्रचुरेण वह्निना पावकेन करणेन स्वकर्मणां भवबीजभूतानां दहने भस्मीकरणे ववृते। स्वकर्माणि दग्धुं प्रघृत्त इत्यर्थः। `ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जन इति गीतावचनात्`॥
RV 8.21 उपजातिः
पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्षअय तत्फलम् । रघुरप्यजयद्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पणबन्धेति॥ `पणबन्धः संधिः` इति कौटिल्यः। अजः पणबन्धमुखान् संध्यादीन्षङ्गुणान्। `संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः। षङ्गुणाः` इत्यमरः (अ.को.2|9|12)। तत्फलं तेषां गुणानां फलं समीक्ष्यालोच्य। उपायुङ्क्त। फलिष्यन्तमेव गुणं प्रायुङ्क्तेत्यर्थः। `प्रोपाभ्यां युजेरयज्ञपात्रेषु` (पा.1।3।64)इत्यात्मनेपदम्। समस्तुल्यतया भावितो लोष्टो मृत्पिण्डः काञ्चनं सुवर्णं च यस्य स समलोष्टकाञ्चनः निःस्पृह इत्यर्थः। `लोष्टानि लेष्टवः पुंसि` इत्यमरः (अ.को.2|9|12)। रघुरपि गुणत्रयं सत्त्वादिकम्। `गुणाः सत्त्वं रजस्तमः` इत्यमरः (अ.को.1|4|31)। प्रकृतौ साम्यावस्थायमेव तिष्ठतीति प्रकृतिस्थं पुनर्विकारशून्यं यथा तथाऽजयत् ॥
RV 8.22 वियोगिनी
न नवः प्रभुरा फळलोदयात्स्थिरकर्मा विरराम कर्मणः । न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ स्थिरकर्मा फलोदयकर्मकारी नवः प्रभुरज आ फलोदयात् फलसिद्धिपर्यन्तं कर्मण आरम्भान्न विरराम न निवृत्तः। जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्`(वा.1079) इत्यपादानात्पञ्चमी। `व्याङ्परिभ्यो रमः` (पा.1।3।83)इति परस्मैपदम्। स्थिरधीर्निश्चलचित्तो नवेतरो रघुश्चापरमात्मदर्शनात् परमात्मसाक्षात्कारपर्यन्तं योगविधेरैक्यानुसंधानान्न विरराम ॥
RV 8.23 वियोगिनी
इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ । प्रसितावुदयापवर्गयोरुभयीं सिद्धिमुभाववापतुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इत्येवं प्रतिषिद्धः प्रसरः स्वार्थप्रवृत्तिर्येषां तेषु शत्रुषु चेन्द्रियेषुप च जाग्रतावप्रमत्तावुदयापवर्गयोरभ्युदयमोक्षयोः प्रसितावासक्तौ। `तत्परे प्रसितासक्तौ` इत्यमरः (अ.को.3|1|9)। उभघावजरघू उभयीं द्विविधामभ्युदयमोक्षरूपाम्। `उभादुदात्तो नित्यम्` (पा.5।2।44) इति तपप्प्रत्ययस्यायजादेशः। `टिड्ढा-` (पा.4।1।15)इति ङीप्। सिद्धिं फलमवापतुः। उभावुभे सिद्धी यथासंख्यमवापतुरित्यर्थः॥
RV 8.24 वियोगिनी
अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः । तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ रघुः समदर्शनः सर्वभूतेषु समदृष्ठिः सन्नजव्यपेक्षयाऽजाकाङ्क्षानुरोधेन काश्चित्समाः कतिचिद्वर्षाणि। `समा वर्षं समं तुल्यम्` इति विश्वः। गमयित्वा नीत्वा योगसमाधिनैक्यानुसंधानेन। `संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः`इति वसिष्ठः। अव्ययमविनाशिनं तमसः परमविद्यायाः परम्। मायातीतमित्यर्थः। पुरुषं परमात्मानम्। आपात् प्राप। सायुज्यं प्राप्त इत्यर्थः॥
श्रउतदेहविसर्जनः पितुश्चिरमश्रूणि विमुच्य राघवः । विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): श्रुतेति॥ अग्निचिदग्निं चितवानाहितवान्। `अग्नौ चेः` (पा.3।2।91) इति क्विप्प्रत्ययः। राघवोऽजः पितुः श्रुतदेहविसर्जन आकर्णितपितृतनुत्यागः संश्चिरमश्रूणि बाष्पान्विमुच्य विसृज्यास्य पितुरनग्निम्। अग्निसंस्काररहितमित्यर्थः। नैष्ठिकं निष्ठायामन्ते भवं विधिमाचारंमन्त्येष्टिं यतिभिः संन्यासिभिः सार्धं सह विदधे चक्रे। `अनग्निं विधिम्`इत्यत्र शौनकः-`सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च। न तस्य दहनं कार्यं नैव पिण्डोदकक्रिया। निदध्यात्प्रणवैनैव बिलेभिक्षोः कलेवरम्। प्रोक्षणं खननं चैव सर्वं तेनैव कारयेत् ॥`इति ॥
RV 8.26 वियोगिनी
अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित् । न हि तेन तथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अकरोदिति॥ पितृकार्यस्य तातश्राद्धस्य कल्पविद्विधानज्ञः सोऽजः पितृभक्त्या पितरि प्रेम्णा करणेन न पितुः परलोकसुखापेक्षया। मुक्तत्वादिति भावः। तस्य रघोरौर्ध्वदैहिकम्। देहादूर्ध्वं भवतीति तत्तिलोदकपिण्डदानादिकमकरोत्। `ऊर्ध्वं देहाञ्च` इति वक्तव्याट्टक्प्रक्ययः। अनुशतिकादित्वादुभयपदवृद्धिः। ननु कथं भक्तिरेव श्राद्धादिफलप्रेप्सापि कस्मान्नाभूदित्याशङ्क्याह-न हीति। तेन पथा योगरूपेण मार्गेण तनुत्यजः शरीरत्यागिनः पुरुषास्तनयेनावर्जितं दत्तं पिण्डं काङ्क्षन्तीति तथोक्ता न हि भवन्ति ॥
RV 8.27 वियोगिनी
स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः । शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ परार्ध्यगतेः प्रशस्तगतेः प्राप्तमोक्षस्य पितुरशोच्यतामशोचनीयत्वमुद्दिश्याभिसंधाय। शोको न कर्तव्य इत्युपदिश्येत्यर्थः। सदर्थविदिभिः परमार्थज्ञैर्विद्वद्भिः शमिताधिर्निवारितमनोव्यथः। `पुंस्याधिर्मानसी व्यथा` इत्यमरः (अ.को.1|7|30)। सोऽजोऽधिज्यकार्मुकः अधिज्यमारोपितमौर्वीकं कार्मुकं यस्य स तथोक्तः सन्। जगत् कर्मभूतमप्रतिशासनं द्वितीयाज्ञारहितम्। आत्माज्ञाविधेयमित्यर्थः। कृतवांश्चकार ॥
क्षितिरिन्दुमती च भामिनी पतिमासाद्यत तमग्र्यपौरुषम् । प्रथमा बहुरत्नसूरभूदपरा वीरमजीजनत्सुतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्षितिरिति॥ क्षितिर्मही भामिनी कामिनीन्दुमती च। `भामिनी कामिनी च` इति हलायुधः। अग्र्यपौरुषं महापराक्रममुत्कृष्टभोगशक्तिं च तमजं पतिमासाद्य प्राप्य। तत्र प्रथमा क्षितिः। बहूनि रत्नानि श्रेष्ठवस्तूनि सूत इति बहुरतन्सूरभूत्। `रत्नं स्वजातिश्रेष्ठेऽपि` इत्यमरः (अ.को.3|3|134)। अपरेन्दुमती वीरं सुतमजीजनज्जनयति स्म। जायतेर्णौ लुङि रूपम्। सहोक्त्या सादृश्यमुच्यते॥
RV 8.29 वियोगिनी
दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दशेति॥ दश रश्मिशतानि यस्य स दशरश्मिशतः सूर्यः स उपमा यस्याः सा दशरश्मिशतोपमा द्युतिर्यस्य तम्। यशसा करणेन दशस्वपि दिक्ष्वाशासु श्रुतं प्रसिद्धम्। दशकण्ठारे रावणारे रामस्य गुरुं पितरं यं सुतम्। आख्यया नाम्ना दशपूर्वो `दश` शब्दपूर्वो रथो रथशब्दस्तम्। दशरथमित्यर्थः। बुधा विद्वांसो विदुर्वदन्ति। `विदो लटो वा` (पा.3।4।83)इति झेर्जुसादेशः ॥
RV 8.30 वियोगिनी
ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः । अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ऋषीति॥ श्रुतयागप्रसवैरध्ययनयज्ञसंतानैः करणैः यथासंख्यमृषीणां देवगणानामिन्द्रादीनां स्वधाभुजां पितॄणामनृणत्वमृणविमुक्तत्वम्। उपेयिवान् प्राप्तवान्। `एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा` इति श्रुतेः। स पार्थिवोऽजः परिधेः परिवेषात्। `परिवेषस्तु परिधिः` इत्यमरः (अ.को.1|3|36)। मुक्तो पार्थिवोऽजः परिधेः परिवेषात्। `परिवेषस्तु परिधिः` इत्यमरः (अ.को.1|3|36)। मुक्तोनिर्गतः। कर्मकर्ता। उष्णदीधितिः सूर्य इव। बभौ दिदीपे। इत्युपमा ॥
← Previous (Ch. 7) Full Table of Contents Next (Ch. 9) →