Skip to main content
Search
Ch. 8 RV 8.14
Full Chapter
RV • Chapter 8: Canto 8

RV 8.14

Canonical Ref: RV 8.14
Metrical Form: वियोगिनी
Sanskrit (Devanāgarī)
स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः । समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रघुः किलान्त्यमाश्रमं प्रव्रज्यामाश्रितः पुरान्नगराद्बहिरावसथे स्थाने निवसन्नविकृतेन्द्रियः। जितेन्द्रियः सन्नित्यर्थथः। अत एव स्नुषयेव वध्वेव पुत्रभोग्यया न स्वभोग्यया। श्रिया समुपास्य शुश्रूषितः। जितेन्द्रियस्य तस्य स्नुषयेव श्रियापि` पुष्पफलोदकाहरणादिशुश्रूषाव्यतिरेकेण न किंचिदपेक्षितमासीदित्यर्थः॥ अत्र यद्यपि `ब्राह्मणाः प्रव्रजन्ति` इति श्रुतेः। `आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्`(6।38) इति मनुस्मरणात्। `मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम्। बाहुजातोरुजातानामयं धर्मो न विद्यते॥` इति निषेधाञ्च ब्राह्मणस्यैव प्रव्रज्या न क्षत्रियादेरित्याहुः। तथापि `यदहरेव विरजेत्तदहरेव प्रव्रजेत्` इत्यादिश्रुतेस्त्रैवर्णिकसाधारण्यात्। `त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः` इति सूत्रकारवचनात्। `ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद्गृहात्`(मनु.10।117) इति स्मरणात्। `मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम्। बाहुजातोरुजातानां त्रिदण्डं न विधीयते॥` इति निषेधस्य त्रिदण्डविषयत्वदर्शनाञ्च। कुत्रचिद्ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित्त्रैवर्णिकाधिकारं प्रतिपेदिरे। तथा सति `स किलाश्रममन्त्यमाश्रितः`(8।14)इत्यत्रापि कवनाप्ययमेव पक्षो विवक्षित इति प्रतीमः। अन्यथा वानप्रस्थाश्रमतया व्याख्याते `विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित्`(8।25) इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः स्यात्; अग्निसंस्काररहितस्य वानप्रस्थास्यैवाभावात् इत्यलं प्रासङ्गिकेन ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 8.14. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 8.13) All Verses in Chapter 8 Next Verse (RV 8.15) →