Skip to main content
Search
RV
Raghuvaṁśam • Chapter 05

Canto 5

पञ्चमः सर्गः (अजस्वयंवराभिगमनम्)

Canto 5 of Raghuvaṁśam.

Total: 76 Verses • Citations: RV 5.1–76 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
RV 5.1 उपजातिः
तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् । उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ विश्वजिति विश्वजिन्नाम्र्यध्वरे यज्ञे। `यज्ञः सवोऽध्वरो यागः` इत्यमरः (अ.को.2|7|15)। निःशेषं विश्राणितं दत्तम्। `श्रण दाने`चुरादिः। कोशानामर्थराशीनां जातं समूहो येन तं तथोक्तम्। `कोशोऽस्त्त्री कुड्भले खङ्गपिधानेऽर्यौघदिव्ययोः` इत्यमरः (अ.को.2|7|15)। `जातं जनिसमूहयोः` इति शाश्वतः। एतेन कौत्सस्यानवसरप्राप्तिं सूचयति। त्तं क्षितीशं रघुमुपात्तविद्यो लब्धविद्यो वरतन्तोः शिष्यः कौत्सः। `ऋष्यन्धक-` (पा.4।1।114) इत्यण्। इञोऽपवादः। गुरुदक्षिणार्थी। `पुष्करादिभ्यो देशे` (पा.5।2।135) इत्यत्रार्थाञ्चासंनिहिते तदन्ताञ्चेतीनेः। अप्रत्याख्येय इति भावः। प्रपेदे प्राप। अस्मिन्सर्गे वृत्तमुपजातिः। तल्लक्षणं तु-`स्यादिन्द्रवज्रा यदि तौ जगौ गः। उपेन्द्रवज्रा जतजास्ततो गौ। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीथावुपजातयस्ताः` इति॥
RV 5.2 उपजातिः
स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्ध्यमनर्घशीलः । श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ अनर्घशीलोऽमूल्यस्वभावः। असाधारणस्वभाव इत्यर्थः। `मूल्ये पूजाविधआवर्धः` इति। `शीलं स्वभावे सद्वृत्ते` इति चामरशाश्वतौ। यशसा कीर्त्या। प्रकाशत इति प्रकाशः। पचाद्यच्। अतिथिषु साधुरातिथएयः। `पथ्यतिथिवसतिस्वपतेर्ढञ` (पा.4।4।104) इति ढञ्। स रघुः। हिरण्यस्य विकारो हिरण्मयम्। `दाण्डिनायन-` (पा.6।4।174) आदिसूत्रेण निपातः। वीतहिरण्मयत्वादपगतसुवर्णपात्रत्वात्। यज्ञस्य सर्वस्वदक्षिणाकत्वादिति भावः। मृण्मये मृद्विकारे पात्रे। अर्घार्थमिदमर्घअयम्। `पादार्घाभ्यां च` (पा.5।4।25)इति यत्। पूजार्थं द्रव्यं निधआय श्रुतेन शास्त्त्रेण प्रकाशं प्रसिद्धम्। श्रूयत इति श्रुतं वेदशास्त्त्रम्।`श्रुतं शास्त्त्रावधृतयोः` इत्यमरः (अ.को.2|7|36)। अतिथिमभ्यागतं कौत्सम्। `अतिथिर्ना गृहागते` इत्यमरः (अ.को.2|7|36)। प्रत्युज्जगाम ॥
RV 5.3 उपेन्द्रवज्रा
तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी । विशांपतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित्युवाच ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ विधिज्ञः शास्त्त्रज्ञः। अकरणे प्रत्यवायभीरुरित्यर्थः। मानधनानामग्रयाय्यग्रेसरः। अपयशोभीरुरित्यर्थः। कृत्यवित् कार्यज्ञः। आगमन प्रयोजनमवश्यं प्रष्टव्यमिति कृत्यवित्। विशांपतिर्मनुजेश्वरः। `द्वौ विशौ वैश्यमनुजौ` इत्यमरः (अ.को.3|3|225)। विष्टरभाजमासनगतम्। उपविष्टमित्यर्थः। `विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्` इत्यमरः। `वृक्षासनयोर्विष्टरः` (पा.8।3।93) इति निपातः। तं तपोधनं विधिवद्विध्यर्हम्। यथाशास्त्त्रमित्यर्थः। `तदर्हम्` (पा.5।1।117)इति वतिप्रत्ययः। अर्चयित्वा। आरात् समीपे। `आराद्दूरसमीपयोः` इत्यमरः (अ.को.3|3|225)। कृताञ्जलिः सन्। इति वक्ष्यमाणप्रकारेणोवाच ॥
RV 5.4 उपजातिः
अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे! कुशली गुरुस्ते । यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अप्यग्रणीरिति॥ हे कुशाग्रबुद्धे सूक्ष्मबुद्धे!`कुशाग्रीयमतिः प्रोक्तः सूक्ष्मदर्शी च यः पुमान्` इति हलायुधः। मन्त्रकृतां मन्त्रस्रष्टॄणाम्। `सुकर्मपापमन्त्र-` (पा.3।2।89)इत्यादिना क्विप्। ऋषीणामग्रणीः श्रेष्ठस्ते तव गुरुः कुशल्यपि क्षेमवान्किम्? `अपि`प्रश्ने। `गर्हासमुञ्चयप्रश्नशङ्कासंभावनास्वपि` इत्यमरः। यतो यस्माद्गुरोः सकाशात् त्वयाऽशेषं ज्ञानम्। लोकेनोष्णरश्मेः सूर्याञ्चैतन्यं प्रबोध इव। आप्तं स्वीकृतम् ॥
RV 5.5 इन्द्रवज्रा
कायेन वाचा मनसापि शश्वद्यत्संभृतं वासवधैर्यलोपि । आपाद्यते न व्ययमन्तरायैः कञ्चिन्महर्षेस्त्त्रिविधं तपस्तत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कायेनेति॥ कायेनोपवासादिकृच्छ्रचान्द्रायणादिना वाचा वेदपाठेन मनसा गायत्रीजपादिना कायेन वाचा मनसापि करणेन वासवस्येन्द्रस्य धैर्यं लुम्पतीति वासवधैर्यलोपि। स्वपदापहारशङ्काजनकमित्यर्थः। यत्तपः शश्वदसकृत्। `मुहुः पुनः पुनः शश्वदभीक्ष्णससकृत्समाः` इत्यमरः। संभृतं संचितं महर्षेर्वरतन्तोस्त्त्रिविधं वाङ्मनः कायजं तत्तपोऽन्तरायैर्विघ्नैरिन्द्रप्रेरिताप्सरः शापैर्व्ययं नाशं नापाद्यते कञ्चित् न नीयते किम्? `कञ्चित् कामप्रवेदने` इत्यमरः॥
RV 5.6 उपजातिः
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् । कञ्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आधारेति॥ आधारबन्धप्रमुखैरालवालनिर्माणादिभिः प्रयत्नैरुपायैः। `आधार आलवालेऽम्बुबन्धेऽधिकरणेऽपि च` इति विश्वः। सुतेभ्यो निर्गतो विशेषोऽतिशयो यस्मिन्कर्मणि तत्तथा संवर्धितानां श्रमच्छिदां व आश्रमपादपानां वाय्वादिः। `आदि`शब्दाद्दावानलादिः। उपप्लवो बाधको न कञ्चिन्नास्ति किम्? ॥
RV 5.7 उपजातिः
क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु । तदङ्कशय्याच्युतनाभिनाला कञ्चिन्मृगीणामनघा प्रसूतिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्रियेति॥ क्रियानिमित्तेष्वप्यनुष्टानसाधनेष्वपि कुशेषु मुनिभिर्वत्सलत्वान्मृगस्नेहादभग्नकामाऽप्रतिहतेच्छा। तेषां मुनीनामङ्का एव शय्यास्तासु च्युतानि नाभिनालानि यस्याः सा तथोक्ता मृगीणां प्रसीतिः संततिरनघाऽव्यसना कञ्चित्? अनपायिनी किमित्यर्थथः। `दुःखैनोव्यसनेष्वघम्` इति यादवः। ते हि व्यालभयाद्दशरात्रमङ्क एव धारयन्ति ॥
RV 5.8 उपजातिः
निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितॄणाम् । तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कञ्चित् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निर्वर्त्यत इति॥ यैस्तीर्थजलैर्नियमाभिषेको नित्यस्नानादिर्निर्वर्त्यते निष्पाद्यते। येभ्यो जलेभ्यः। उद्धृत्येति शेषः। पितॄणामग्निष्वात्तादीनां निवापाञ्जलयस्तर्पणाञ्जलयः। `पितृदानं निवापः स्यात्` इत्यमरः (अ.को.2|7|33)। निर्वर्त्यन्ते। उञ्छानां प्रकीर्णोद्धृतधान्यानां षष्टैः षष्ठभागैः पालकत्वाद्राजग्राहैरङ्कितानि सैकतानि पुनिनानि येषां तानि तथोक्तानि वो युष्माकं तानि तीर्थजलानि शिवानि भद्राणि कञ्चित्? अनुपप्लवानि किमित्यर्थः। `उञ्छो धान्यांशकादानं कणिशाद्यर्जनं शिलम्` इति यादवः। `।षष्टाष्टमाभ्यां ञ च` (पा.5।3।50) इति षष्ठशब्दाद्भागार्थेऽन्प्रत्ययः। अत एवापूरणार्थत्वात् `पूरणगुण-` (पा.2।2।11) इत्यादिना न षष्ठीसमासप्रतिषेधः। सिकता येषु सन्ति सैकतानि। `सिकताशर्कराभ्यां च` (पा.5।2।104) इत्यण्प्रत्ययः ॥
RV 5.9 इन्द्रवज्रा
नीवारपाकादि कडंगरीयैरामृश्यते जानपदैर्न कञ्चित् । कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नीवारेति॥ कालेषु योग्यकालेषूपपन्नानामगतानामतिथीनां कल्प्याभागा यस्य तत्तथोक्तम्। वने भवं वन्यम्। शरीरस्थिते र्जीवनस्य साधनं वो युष्माकम्। पच्यत इति पाकः फलम्। धान्यमिति यावत्। नीवारपाकादि। `आदि`शब्दाञ्छ्यामाकादिधान्यसंग्रहः। जनपदेभ्य आगतैर्जानपदैः। `तत आगतः` (पा.4।3।74) इत्यण्। कडंगरीयैः। कडंगरं बुसमर्हन्तीति कडंगरीयाः। `कडंगरो बुसंक्लीबे धान्यत्वचि तुषः पुमान्` इत्यमरः। `कडंगरदक्षिणाच्छ च` (पा.5।1।69) इति छप्रत्ययः। तैर्गोमहिषादिभिर्नामृश्यते कञ्चित् ? न भक्ष्यते किमित्यर्थः॥
RV 5.10 उपजातिः
अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय । कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अपीति॥ किंच, त्वं प्रसन्नेन सता महर्षिणा सम्यग्विनीय शिक्षयित्वा। विद्यामुपदिश्येत्यर्थः। गृहाय गृहस्थाश्रमं प्रवेष्मुम्। `क्रियार्थोपपद-` (पा.2।3।14)इत्यादिना चतुर्थी। अनुमतोऽप्यनुज्ञातः किम् ? हि यस्मात्ते तव सर्वेषामाश्रमाणां ब्रह्मचर्य-वनप्रस्थ यतीनामुपकारे क्षमं शक्तम्। `क्षमं शक्ते हिते त्रिषु` इत्यमरः (अ.को.3|3|151)। द्वितीयमाश्रमं गार्हस्थ्यं संक्रमितुं प्राप्तुमयं कालः। विद्याग्रहणानन्तर्यात्तस्येति भावः। `कालसमयवेलासु तुमुन्` (पा.3।3।164) इति तुमुन्। सर्वोपकारक्षममित्यत्र मनुः(3।77)-`यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः। वर्तन्ते गृहीणस्तद्वदाश्रित्येतर आश्रमाः ॥` इति ॥
RV 5.11 उपजातिः
तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे । अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तवेति॥ अर्हतः पूज्यस्य प्रशंस्यस्य। `अर्हः प्रशंसायाम्` (पा.3।2।113) इति शतृप्रत्ययः। तवाभिगमेनागमनमात्रेण मे मनो न तृप्तं न तुष्टम्। किंतु नियोगक्रिययाऽऽज्ञाकरणेनोत्सुकं सोत्कण्ठम्। `इष्टार्थोद्युक्त उत्सुकः` इत्यमरः (अ.को.3|1|9)। `प्रसितोत्सुकाभ्यां तृतीया च` (पा.2।3।44) इति सप्तम्यर्थे तृतीया। शासितुर्गुरोराज्ञयाप्यात्मना स्वतो वा। `प्रकृत्यादिभ्य उपसंख्यानम्`(वा.1466) इति तृतीया। मां संभावयितुं वनात्प्राप्तोऽसि? गुर्वर्थं स्वार्थं वाऽऽगमनमित्यर्थः॥
RV 5.12 उपजातिः
इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य । स्वार्थोपपत्तिं प्रति दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्यः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ अर्घ्यपात्रेण मृष्मयेनानुमितो व्ययः सर्वस्वत्यागो यस्य तस्य रघोरित्युक्तप्रकारामुदारामौदार्ययुक्तामपि गां वाचम्। `मनो नियोगक्रिययोत्सुकं मे` (5।11) इत्येवंरूपाम्। `स्वर्गेषुपशुवाग्वज्रदिङ्गेत्रघृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः` इत्यमरः। निशम्य श्रुत्वा वरतन्तुशिष्यः कौत्सः स्वार्थोपपत्तिं स्वकार्यसिद्धिं प्रति दुर्बलाशः सन् मृण्मयपात्रदर्शनाच्छिथिलमनोरथथः सन्। तं रघुमिति वक्ष्यमाणप्रकारेणावोचत् ॥
RV 5.13 इन्द्रवज्रा
सर्वत्र नो वार्तमवेहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम् । सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सर्वत्रेति॥ हे राजन्! त्वं सर्वत्र नोऽस्माकं वार्तं स्वास्थ्यमवेहि जानीहि। `वार्तं वल्गुन्यरोगे च` इत्यमरः (अ.को.1|8|3)। `वार्तं पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम्` इति यादवः। न चैतदाश्चर्यमित्याह-नाथ इति। त्वयि नाथ ईश्वरे सति प्रजानामशुभं दुःखं कुतः? तथा हि-अर्थान्तरं न्यस्यति सूर्य इत्यादिना। सूर्ये तपति प्रकाशमाने सति तमिस्रा तमस्ततिः। `तमिस्रं तिमिरं रोगे तमिस्रा तु समस्ततौ । कृष्णपक्षे निशायां च` इति विश्वः। `तमिस्रम्` इति पाठे तमिस्रं तिमिरम्। `तमिस्रं तिमिरं तमः` इत्यमरः (अ.को.1|8|3)। लोकस्य जनस्य। `लोकस्तु भुवने जने` इत्यमरः (अ.को.3|3|2)। दृष्टेरावरणाय कथं कल्पेत? दृष्टिमावरितुं नालमित्यर्थः। क्लृपेरलमर्थत्वात्तद्योगे `नमःस्वस्ति-` (पा.2।3।16) इत्यादिना चतुर्थी। `अलमिति पर्याप्त्यर्थग्रहणम्` इति भगवान्भाष्यकारः। कल्पेत। संपद्येत। न कल्पत इत्यर्थः। `क्लृपि संपद्यमाने चतुर्थी` (वा.1459) इति वक्तव्यात् ॥
RV 5.14 उपजातिः
भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग! तयातिशेषे । व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भक्तिरिति॥ प्रतीक्ष्येषु पूज्येषु। `पूज्यः प्रतीक्ष्यः` इत्यमरः (अ.को.3|1|5)। भक्तिरनुरागविशेषस्ते तव कुलोचिता कुलाभ्यस्ता। `अभ्यस्तेऽप्युचितं न्याय्यम्` इति यादवः। हे महाभाग सार्वभौम! तया भक्त्या पूर्वानतिशेषेऽतिवर्तसे। किंतु सर्वत्र वार्तं चेत्तर्हि कथं खेदखिन्न इव दृश्यसेऽत आह-व्यतीतेति। अहं व्यतीतकालोऽतिक्रान्तकालः सन्नर्थिभावात्त्वामभ्युपेत इति मे मम विषादः ॥
RV 5.15 उपजातिः
शरीरमात्रेण नरेन्द्र! तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः । आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शरीरेति॥ हे नरेन्द्र! तीर्थे सत्पात्रे प्रतिपादिता दत्ता ऋद्धिर्येन स तथोक्तः। `योनौ जलावतारे च मन्त्त्र्याद्यष्टादशस्वपि। पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद्दर्शनेष्वपि ॥` इति हलायुधः। शरीरमात्रेण तिष्ठन्। आरण्यका अरण्ये भवा मनुष्या मुनिप्रमुखाः। `अरण्यान्मनुष्ये` (पा.4।2।129) इति वुञ्प्रत्ययः। तैरुपात्ता फलमेव प्रसूतिर्यस्य स स्तम्बेन काण्डेनावशिष्टः। प्रकृत्यादित्वात्तृतीया। नीवार इव। आभासि शोभसे ॥
RV 5.16 उपजातिः
स्थाने भवानेकनराधिपः सन्निकिंचनत्वं मखजं व्यनक्ति । पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्थान इति॥ भवानेकनराधिपः सार्वभौमः सन्। मखजं मखजन्यम्। न विद्यते किंचन यस्येत्यकिंचनः। मयूरव्यंसकादित्वात्तत्पुरुषः। तस्य भावस्तत्त्वं निर्धनत्वं व्यनक्ति प्रकटयति। स्थाने युक्तम्। `युक्ते द्वे सांप्रतं स्थाने` इत्यमरः । तथा हि-सुरैर्देवैः पर्यायेण क्रमेण पीतस्य हिमांशोः कलाक्षयो वृद्धेरुपचयाच्छ्लाघ्यतरो हि वरः खलु। `मणिः शाणोल्लीढः समरविजयी हेति निहतो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः। क्रलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चिर्थिषु नृपाः॥` (भर्तृ.2।44) इति भावः। अत्र कामन्दकः-`धर्मार्थं क्षीणकोशस्य क्षीणत्वमपि शोभते। सुरैः पीतावशेषस्य कृष्णपक्षे विधोरिव ॥` इति ॥
RV 5.17 उपजातिः
तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्टे । स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्धनं नार्दति चातकोऽपि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तत्तस्मात्। तावदनन्यकार्यः। `यावत्तावञ्च साकल्येऽवधौ मानेऽवधारणे` इति विश्वः। प्रयोजनान्तररहितोऽहमन्यतो वदान्यान्तराद्गुर्वर्थं गुरु-धनमाहर्तुमर्जयितुं यतिष्य उद्योक्ष्ये। ते तुभ्यं स्वस्ति शुभमस्तु। `नमःस्वस्ति-` (पा.2।3।16) इत्यादिना चतुर्थी। तथा हि-चातकोऽपि। `धरणीपतितं तोयं चातकानां रुजाकरम्` इतिहेतोरनन्यगतिकोऽपीत्यर्थः। निर्गलितोऽम्ब्वेव गर्भो यस्य तं शरद्धनं नार्दति न याचते। `अर्द गतौ याचने च` इति धातुः। `याचनार्थे रणेऽर्दनम्` इति यादवः ॥
RV 5.18 उपजातिः
एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य । किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुक्तः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एतावदिति॥ एतावद्वाक्यमुक्त्वा प्रतियातुं कामो यस्य तं प्रतियातुकामं गन्तुकामम् । `तुं काममनसोरपि` इति मकारलोपः। महर्षेर्वरतन्तोः शिष्यं कौत्सं नृपती रघुर्निषिध्य निवार्य, हे विद्वन्! त्वया गुरवे प्रदेयं वस्तु किं किमात्मकं कियत् किंपरिमाणं वा? इत्येवं तं कौत्समन्वयुङ्क्तापृच्छत्। `प्रश्नोऽनुयोगः पृच्छा च` इत्यमरः (अ.को.1|6|10) ॥
RV 5.19 उपजातिः
ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय । वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततो यथावद्यथार्हम्। अर्हार्थे वतिः। विहिताध्वराय विधिवदनुष्ठितयज्ञाय। सदाचारायेत्यर्थः। स्मयावेशविवर्जिताय गर्वाभिनिवेशशून्याय। अनुद्धतायेत्यर्थः। वर्णानां ब्राह्मणादीनामश्रमाणां ब्रह्मचर्यादीनां च गुरवे नियामकाय। `वर्णाः स्युर्ब्राह्मणादयः` इति। `ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये। आश्रमोऽस्त्त्री` इति चामरः। सर्वकार्यनिर्वाहकायेत्यर्थः। तस्मै रघवे विचंक्षणो विद्वान् वर्णी ब्रह्मचारी। `वर्णिनो ब्रह्मचारिणः` इत्यमरः (अ.को.2|7|46)। `वर्णाद्ब्रह्मचारिणि` (पा.5।2।134) इतीनिप्रत्ययः। सः कौत्सः प्रस्तुतं प्रकृतमाचचक्षे ॥
RV 5.20 उपजातिः
समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै । स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): समाप्तेति॥ समाप्तविद्येन मया महर्षिर्गुरुदक्षिणायै गुरुदक्षिणास्वीकारार्थं विज्ञापितोऽभूत्। स च गुरुश्चिरायास्खलितोपचारां तां दुष्करां मे भक्तिमेव पुरस्तात् प्रथमम्। अगणयत् संख्यातवान्। भक्त्यैव संतुष्टः, किं दक्षिणयेत्युक्तवानित्यर्थः। अथवा, -भक्तिमेव तां दक्षिणामगणयदिति योज्यम् ॥
RV 5.21 उपजातिः
निर्बन्धसंजातरुषार्थकार्श्यमचिन्तयित्वा गुरुणाहमुक्तः । वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निर्बन्धेति॥ निर्बन्धेन प्रार्थनातिशयेन संजातरुषा संजातक्रोधेन गुरुणा। अर्थकार्श्यं दारिद्र्यमचिन्तयित्वाऽविचार्य। अहं वित्तस्य धनस्य चतस्रो दश च कोटीश्चतुर्दशकोटीर्मे मह्यमाहरानयेति विद्यापरिसंख्यया विद्यपरिसंख्यानुसारेणैवोक्तः। अत्र मनुः-`अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश॥` इति ॥
RV 5.22 इन्द्रवज्रा
सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् । अभ्युत्सहे संप्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सोऽहमितिः॥ सोऽहं सपर्याविधिभाजनेनार्घ्यपात्रेण भवन्तं `प्रभु`-शब्द एव शेषो यस्य तं मत्वा। निःस्वं निश्चित्येत्यर्थः। श्रुतनिष्क्रयस्य विद्यामूल्यस्याल्पेतरत्वादतिमहत्त्वात् संप्रत्युपरोद्धुं निर्बन्धुं नाभ्युत्सहे ॥
RV 5.23 उपजातिः
इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण । एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इत्थमिति॥ द्विजराजकान्तिश्चन्द्रकान्तिः। `द्विजराजः शशधरो नक्षत्रेशः क्षपाकरैः` इत्यमरः (अ.को.1|3|17)। `तस्मात्सोमो राजा नो ब्राब्मणानाम्`इति श्रुतेः। द्विजराजकान्तित्वेनार्थावाप्तिवैराग्यं वारयति। एनसः पापान्निवृत्तेन्द्रियवृत्तिर्यस्य स जगदेकनाथो रघुर्वेदविदां वरेण श्रेष्ठेन द्विजेन कौत्सेन। इत्थमावेदितो निवेदितः सन्। एनं कौत्सं भूयः पुनर्जगाद ॥
RV 5.24 उपजातिः
गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् । गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गुर्वर्थमिति॥ श्रुतस्य पारं दृष्टवाञ्च्छ्रुतपारदृश्वा। `दृशेः क्वनिप्` (पा3।2।94) इति क्वनिप्। गुर्वर्थं गुरुदक्षिणार्थं यथा तथाऽर्थी याचकः। विशेषणद्वयेनाप्यस्याप्रत्याख्येयत्वमाह। रघोः सकाशात् कामं मनोरथमनवाप्याप्राप्य वदान्यान्तरं तात्रन्तरं गतः। `स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे` इत्यमरः (अ.को.3|1|6)। इत्येवंरेूपोऽयं परीवादस्यापवादस्य नवो नूतनः प्रथमोऽवतार आविर्भावो मे मा भून्माऽस्तु। `रघोः` इति स्वनामग्रहणं संभावितत्वद्योतनार्थम्। तथा च(भ.गी.2।34)-`संभावितस्य चाकीर्तिर्मरणादतिरिच्यते` इति भावः ॥
RV 5.25 उपजातिः
स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे । द्वित्राण्यहान्यर्हसि सोढुमर्हन्! यावद्यते साधयितुं त्वदर्थम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स त्वं महिते पूजिते प्रशस्ते प्रसिद्धे मदीयेऽग्न्यगारे त्रेताग्निशालायां चतुर्थोऽग्निरिव वसन् द्वित्राणि द्वे त्रीणि वाऽहानि दिनानि। `संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये` (पा.2।2।25) इति बहुव्रीहिः। `बहुव्रीहौ संख्येये डजबहुगणात्` (पा.5।4।73) इति डच्प्रत्ययः समासान्तः। सोढुमर्हसि। हे अर्हन्मान्य! त्वदर्थं तव प्रयोजनं साधयितुं यावद्यते यतिष्ये। `यावत्पुरानिपातयोर्लट्` (पा.3।3।4) इति भविष्यदर्थे लट् ॥
RV 5.26 उपजातिः
तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्संगरमग्रजन्मा । गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तथेतीति॥ अग्रजन्मा ब्राह्मणः प्रतीतः प्रीतः सन्, तस्य रघोरवितथममोघं संगरं प्रतिज्ञाम्। `अथ प्रतिज्ञाजिसंविदापत्सु संगरः` इत्यमरः। `तां गिरम्` इति केचित्पठन्ति। तथेति प्रत्यग्रहीत्। रघुरपि गां भूमिमात्तसारां गृहीतधनामवेक्ष्य कुबेरादर्थं निष्क्रष्टुमाहर्तुं चकम इयेष ॥
RV 5.27 उपेन्द्रवज्रा
वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु । मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वसिष्ठेति॥ वसिष्ठस्य यन्मन्त्रेणोक्षणमभिमन्त्र्य प्रोक्षणं तज्जात्प्रभावात् सामर्थ्याद्धेतोः। उदन्वदाकाशमहीधरेषूदन्वत्युदधावाकाशे महीधरेषु वा। मरुत्सखस्य। मरुतः सखेति तत्पुरुषो बहुव्रीहौ समासान्ताभावात्। ततो वायुसहायस्येति लभ्यते। वारीणां वाहको बलाहकः। पृषोदरादित्वात्साधुः, तस्येव मेघस्येव। तद्रथस्य गतिः संचारो न विजघ्ने न विहता हि ॥
RV 5.28 उपजातिः
अथाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितशस्त्त्रगर्भम् । सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ प्रदोषे रजनीमुखे। तत्काले यानाधिरोहणविधानात्। प्रयतो धीरो रघुः। समन्ताद्भवः सामन्तः राजमात्रमिति संभावनयैव कैलासनाथं कुबेरं तरसा बलेन जिगीषुर्जेतुमिच्छुः सन्। कल्पितं सज्जितं शस्त्त्रं गर्भे यस्य तं रथमधिशिश्ये। रथे शयितवानित्यर्थः। `अधिशीङ्स्थासां कर्म` (पा.1।4।46) इति कर्मत्वम् ॥
RV 5.29 उपजातिः
प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोषगृहे नियुक्ताः । हिरण्मयीं कोषगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रातरिति॥ प्रातः प्रयाणाभिमुखाय तस्मै रघवे कोषगृहे नियुक्ता अधिकृता भाण्डागारिकाः सविस्मयाः सन्तः कोषगृहस्य मध्ये नभस्तो नभसः। पञ्चम्यास्तसिल्प्रत्ययः। पतितां हिरण्मयीं सुवर्णमयीम्। `दाण्डिनायन-` (पा.6।4।174) इत्यादिना निपातनात्साधुः। वृष्टिं शशंसुः कथयामासुः ॥
RV 5.30 उपजातिः
तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् । दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ भूपती रघुः। अभियास्यमानादभिगमिष्यमाणात् कुबेराल्लब्धम्। वज्रेण कुलिशेन भिन्नं सुमेरोः पादं प्रत्यन्तपर्वनमिव स्थितम्। `पादाः प्रत्यन्तपर्वताः` इत्यमरः (अ.को.2|3|7)। `शृङ्गम्` इति क्वचित्पाठः। तं भासुरं भास्वरम्। `भञ्जभासमिदो घुरच्` (पा.3।2।161) इति घुरच्। हेमराशिं समस्तं कृत्स्नमेव कौत्साय दिदेश ददौ। न तु चतुर्दशकोटिमात्रमित्येवकारार्थः ॥
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →