Skip to main content
Search
Full Chapter
RV • Chapter 5: Canto 5

RV 5.4

Canonical Ref: RV 5.4
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे! कुशली गुरुस्ते । यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अप्यग्रणीरिति॥ हे कुशाग्रबुद्धे सूक्ष्मबुद्धे!`कुशाग्रीयमतिः प्रोक्तः सूक्ष्मदर्शी च यः पुमान्` इति हलायुधः। मन्त्रकृतां मन्त्रस्रष्टॄणाम्। `सुकर्मपापमन्त्र-` (पा.3।2।89)इत्यादिना क्विप्। ऋषीणामग्रणीः श्रेष्ठस्ते तव गुरुः कुशल्यपि क्षेमवान्किम्? `अपि`प्रश्ने। `गर्हासमुञ्चयप्रश्नशङ्कासंभावनास्वपि` इत्यमरः। यतो यस्माद्गुरोः सकाशात् त्वयाऽशेषं ज्ञानम्। लोकेनोष्णरश्मेः सूर्याञ्चैतन्यं प्रबोध इव। आप्तं स्वीकृतम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 5.4. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 5.3) All Verses in Chapter 5 Next Verse (RV 5.5) →