Skip to main content
Search
Full Chapter
RV • Chapter 5: Canto 5

RV 5.8

Canonical Ref: RV 5.8
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितॄणाम् । तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कञ्चित् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): निर्वर्त्यत इति॥ यैस्तीर्थजलैर्नियमाभिषेको नित्यस्नानादिर्निर्वर्त्यते निष्पाद्यते। येभ्यो जलेभ्यः। उद्धृत्येति शेषः। पितॄणामग्निष्वात्तादीनां निवापाञ्जलयस्तर्पणाञ्जलयः। `पितृदानं निवापः स्यात्` इत्यमरः (अ.को.2|7|33)। निर्वर्त्यन्ते। उञ्छानां प्रकीर्णोद्धृतधान्यानां षष्टैः षष्ठभागैः पालकत्वाद्राजग्राहैरङ्कितानि सैकतानि पुनिनानि येषां तानि तथोक्तानि वो युष्माकं तानि तीर्थजलानि शिवानि भद्राणि कञ्चित्? अनुपप्लवानि किमित्यर्थः। `उञ्छो धान्यांशकादानं कणिशाद्यर्जनं शिलम्` इति यादवः। `।षष्टाष्टमाभ्यां ञ च` (पा.5।3।50) इति षष्ठशब्दाद्भागार्थेऽन्प्रत्ययः। अत एवापूरणार्थत्वात् `पूरणगुण-` (पा.2।2।11) इत्यादिना न षष्ठीसमासप्रतिषेधः। सिकता येषु सन्ति सैकतानि। `सिकताशर्कराभ्यां च` (पा.5।2।104) इत्यण्प्रत्ययः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 5.8. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 5.7) All Verses in Chapter 5 Next Verse (RV 5.9) →