Skip to main content
Search
Full Chapter
RV • Chapter 5: Canto 5

RV 5.1

Canonical Ref: RV 5.1
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् । उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ विश्वजिति विश्वजिन्नाम्र्यध्वरे यज्ञे। `यज्ञः सवोऽध्वरो यागः` इत्यमरः (अ.को.2|7|15)। निःशेषं विश्राणितं दत्तम्। `श्रण दाने`चुरादिः। कोशानामर्थराशीनां जातं समूहो येन तं तथोक्तम्। `कोशोऽस्त्त्री कुड्भले खङ्गपिधानेऽर्यौघदिव्ययोः` इत्यमरः (अ.को.2|7|15)। `जातं जनिसमूहयोः` इति शाश्वतः। एतेन कौत्सस्यानवसरप्राप्तिं सूचयति। त्तं क्षितीशं रघुमुपात्तविद्यो लब्धविद्यो वरतन्तोः शिष्यः कौत्सः। `ऋष्यन्धक-` (पा.4।1।114) इत्यण्। इञोऽपवादः। गुरुदक्षिणार्थी। `पुष्करादिभ्यो देशे` (पा.5।2।135) इत्यत्रार्थाञ्चासंनिहिते तदन्ताञ्चेतीनेः। अप्रत्याख्येय इति भावः। प्रपेदे प्राप। अस्मिन्सर्गे वृत्तमुपजातिः। तल्लक्षणं तु-`स्यादिन्द्रवज्रा यदि तौ जगौ गः। उपेन्द्रवज्रा जतजास्ततो गौ। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीथावुपजातयस्ताः` इति॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 5.1. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 4.88) All Verses in Chapter 5 Next Verse (RV 5.2) →