Skip to main content
Search
Ch. 4 RV 4.88
Full Chapter
RV • Chapter 4: Canto 4

RV 4.88

Canonical Ref: RV 4.88
Sanskrit (Devanāgarī)
प्रस्थानप्रणतिभिरङ्गुलीषु चकुर्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): त इति॥ ते राजानः । रेखा एव ध्वजाश्च कुलिशानि चातपत्राणि च। ध्वजाद्याकाररेखा इत्यर्थः। तानि चिह्नानि यस्य तत्तथोक्तम्। प्रसादेनैव लभ्यं प्रसादलभ्यम्। सम्राजः सार्वभौमस्य रघोश्चरणयुगं प्रस्थाने प्रयाणसमये याः प्रणतयो नमस्कारास्ताभिः करणैः। अङ्गुलीषु। मौलिषु केशबन्धेषु याः स्रजो माल्यानि ताभ्यश्च्युतैर्मकरन्दैः पुष्परसैः। `मकरन्दः पुष्परसः` इत्यमरः (अ.को.2|4|17)। रेणुभिः परागैश्च। `परागः सुमनोरजः` इत्यमरः (अ.को.2|4|17)। गौरं गौरवर्णं चक्रुः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 4.88. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 4.87) All Verses in Chapter 4 Next Verse (RV 5.1) →