Skip to main content
Search
Ch. 4 RV 4.87
Full Chapter
RV • Chapter 4: Canto 4

RV 4.87

Canonical Ref: RV 4.87
Metrical Form: प्रहर्षिणी
Sanskrit (Devanāgarī)
सत्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान् । काकुत्स्थश्चिरविरहोत्सुकावरोधान् राजन्यान्स्वपुरनिवृत्तयेऽनुमेने ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): सत्रान्त इति॥ काकुत्स्थो रघुः सत्रान्ते यज्ञान्ते। `सत्रमाच्छादने यज्ञे सदादाने धनेऽपि च` इत्यमरः (अ.को.2|8|1)। सचिवानाममात्यानां सखेति सचिवसखः सन्। `सचिवो भृतकेऽमात्ये` इति हैमः। तेषामत्यन्तानुसरणद्योतनार्थं राज्ञः सखित्वव्यपदेशः। `राजाहःसखिभ्यष्टच्` (पा.5।4।91) गुर्वीभिर्महतीभिः। `गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके` इति हैमः। पुरस्क्रियाभिः पूजाभिः शमितं पराजयेन व्यलीकं दुःखं वैलक्ष्यं वा येषां तान्। `दुःखे वैलक्ष्ये व्यलीकम्` इति यादवः। चिरविरहेणोत्सुका उत्कण्ठिता अवरोधा अन्तःपुराङ्गना येषां तान्। राज्ञोऽपत्यानि राजन्याः क्षत्रियाः। तान्। `राजश्वशुराद्यत्` (पा.4।1।137) इत्यपत्यार्थे यत्प्रत्ययः। `मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्` इत्यमरः (अ.को.2|8|1)। स्वपुरं प्रतिनिवृत्तये प्रतिगमनायानुमेनेऽनुज्ञातवान् । प्रहर्षिणीवृत्तमेतत्। तदुक्तम्-`म्नौ ज्रौ गस्त्त्रिदशयतिः प्रहर्षिणीयम्`इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 4.87. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 4.86) All Verses in Chapter 4 Next Verse (RV 4.88) →