Skip to main content
Search
RV
Raghuvaṁśam • Chapter 05

Canto 5

पञ्चमः सर्गः (अजस्वयंवराभिगमनम्)

Canto 5 of Raghuvaṁśam.

Total: 76 Verses • Citations: RV 5.1–76 • 1 Lexicon Terms • Page 3 of 3 (Verses 16 shown)
RV 5.61 उपजातिः
तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः । प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ नगरस्योपकण्ठे समीपे तस्थिवांसं स्थित तमजं तस्याजस्यागमेनागमनेनारूढ उत्पन्नो गुरुः प्रहर्षो यस्य स क्रथकैशिकेन्द्रो विदर्भराजः। प्रवृद्धोर्मिरूर्मिमाली समुद्रश्चन्द्रमिव। प्रत्युज्जगाम ॥
RV 5.62 उपजातिः
प्रवेश्य चैनं पुरमग्रयायी नीचैस्तथोपाचरदर्पितश्रीः । मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रवेश्येति॥ एनमजमग्रयीयी। सेवाधर्मेण पुरो गच्छन्नित्यर्थः। नीचैर्नम्रः पुरं प्रवेश्य प्रवेशं कारयित्वा प्रीत्याऽर्पितश्रीस्तथा तेन प्रकारेणोपाचरदुपचरितवान्। यथा येन प्रकारेण तत्र पुरे समेतो मिलितो जनो वैदर्भं भोजमागन्तुं प्राघूर्णिकं मेने। अजं गृहेशं गृहपतिं मेने ॥
RV 5.63 वसन्ततिलका
तस्याधिकारपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम् । रम्यां रघुप्रतिनिधिः स नवोपकार्यां बाल्यात्परामिव दशां मदनोऽध्युवास ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ रघुप्रतिनिधी रघुकल्पः। रघुतुल्य इत्यर्थः। उक्तं च दण्डिना सादृश्यवाचकप्रस्तावे-`कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि` इति। सोऽजः प्रणतैर्नमस्कृतवद्भिः। कर्तरि क्तः। तस्य भोजस्याधिकारो नियोगस्तस्य पुरुषैः। अधिकृतैरित्यर्थः। प्रदिष्टां निर्दिष्टां प्राग्द्वारस्य वेद्यां विनिवेशितः प्रतिष्ठापितः पूर्णकुम्भो यस्यास्ताम्। स्थापितमङ्गलकलशामित्यर्थः। रम्यां रमणीयां नवोपकार्यां नूतनं राजभवनम्। `उपकार्या राजसद्मन्युपचारचितेऽन्यवत्` इति विश्वः। मदनो बाल्यात्परां शैशवादनन्तरां दशामिव। यौवनमिवेत्यर्थः। अध्युवासाधिष्ठितवान्। तत्रोषितवानित्यर्थः। `उपान्वध्याङ्वसः` (पा.1।4।48) इति कर्मत्वम् ॥
RV 5.64 वसन्ततिलका
तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमलीयमजस्य लिप्सोः । भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्रोपकार्यायाम्। स्वयंवरनिमित्तं समाहृतः संमेलितो राजलोको येन तत्कमनीयं स्पृहणीयं कन्याललाम कन्यासु श्रेष्ठम्। `ललामोऽस्त्री ललामापि प्रभावे पुरुषे ध्वजे। श्रेष्ठभूषाशुण्डशृङ्गपुच्छचिह्नाश्वलिङ्गिषु` इति यादवः। लिप्सोर्लब्धुमिच्छोः। लभेः सन्नन्तादुप्रत्ययः। अजस्य भावावबोधे पुरुषस्याभिप्रायपरिज्ञाने कलुषाऽसमर्था दयितेव। रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव। `राजानं कामिनं चौरं प्रविशन्ति प्रजागराः` इति भावः। `अभिमुखी`शब्दो ङीषन्तश्च्व्यन्तो वा ॥
RV 5.65 वसन्ततिलका
तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागम् । सूतात्मजाः सवयसः प्रथितप्रबोधं प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ कर्णभूषणाभ्यां निपीडितौ पीवरौ2 पीनावंसौ यस्य तम्। शय्याया उत्तरच्छदस्योपर्यास्तरणवस्त्रस्य विमर्देन घर्षणेन कृशो विरलोऽङ्गरागो यस्य तम्। न त्वङ्गनासङ्गादिति भावः। प्रथितप्रबोधं प्रकृष्टज्ञानं तमेनमजं सवयसः समानवयस्का उदारवाचः प्रगल्भगिरः सूतात्मजा बन्दिपुत्राः। `वैतालिकाः` इति वा पाठः। `वैतालिका बोधकराः` इत्यमरः (अ.को.2|8|97)। वाग्भिः स्तुतिपाठैः। उषसि। प्राबोधयन् प्रबोधयामासुः ॥
RV 5.66 वसन्ततिलका
रात्रिर्गता मतिमतां वर! मुञ्च शय्यां धात्रा द्विधैव ननु धूर्जगतो विभक्ता । तामेकतस्तव बिभर्ति गुरुर्विनिद्रस्तस्या भवानपरधुर्यपदावलम्बी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रात्रिरिति॥ हे मतिमतां वर! निर्धारणे षष्टी। रात्रिर्गता। शय्यां मुञ्च। विनिद्रो भवेत्यर्थः। विनिद्रत्वे फलमाह-धात्रेति॥ धात्रा ब्रह्मणा जगतो धूर्भारः `धूः स्याद्यानमुखे भारे` इति यादवः। द्विधैव। द्वयोरेवेत्यर्थः। एवकारस्तृतीयनिषेधार्थः। विभक्ता ननु विभज्य स्थापिता खलु। तत्कितम आह-तां धुरमेकत एककोटौ तव गुरुः पिता विनिद्रः सन् बिभर्ति। तस्या धुरो भवान्। धुरं वहतीति धुर्यो भारवाही। तस्य पदं वहनस्थानम्। अपरं यद्धुर्यपदं तदवलम्बी। ततो विनिद्रो भवेत्यर्थः। न ह्युभयवाह्यमेको वहतीति भावः॥
RV 5.67 वसन्ततिलका
निद्रावशेन भवताप्यनवेक्षमाणा पर्युत्सुकत्वमबला निशि खण्डितेव । लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोऽपि त्वदाननरुचिं विजहाति चन्द्रः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निद्रेति॥ चन्द्रारविन्दराजवदनादयो लक्ष्मीनिवासस्थानानीति प्रसिद्धिमाश्रित्योच्यते। निद्रावशेन निद्राधीनेन। स्त्र्यन्तरासङ्गेऽत्र ध्वन्यते। भवता पर्युत्सुः कत्वमपि त्वय्यनुरक्तत्वमपीत्यर्थः। `प्रसितोत्सुकाभ्यां तृतीया च` (पा.2।3।44) इति सप्तम्यर्थे तृतीया। `अपि`शब्दस्तद्विषयानुरागस्यानपेक्ष्यत्वद्योतनार्थः। निशिखण्डिता भर्तुरन्यासङ्गज्ञानकलुषिताऽबलेव नायिकेव। `ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता`(2।25) इति दशरूपके। अनवेक्षमाणाऽविचारयन्ती सती। उपेक्षमाणेत्यर्थः। `ह्यनवेक्ष्यमाणा` इति पाठे निद्रावशेन भवताऽनवेक्ष्यमाणाऽनिरीक्ष्यमाणा। कर्मणि शानच्। लक्ष्मीः प्रयोजककत्रीं। येन। प्रयोज्येन चन्द्रेण। पर्युत्सुकत्वं त्वद्विरहवेदनाम्। `कालाक्षमत्वमौत्सुक्यं मनस्तापज्वरादिकृत्` इत्यलंकारे। विनोदयति निरासयतीति योजना। शेषं पूर्ववत्। नाथस्त्वर्थोपपत्तिमपश्यन्निमं पक्षमुपैक्षिष्ट। लक्ष्मीर्येन चन्द्रेण सह। त्वदाननसदृशत्वादिति भावः। विनोदयति विनोदं करोति। `विनोद`शब्दात् `तत्करोति तदाचष्टे`(ग.सू.204) इति णिच्प्रत्ययः। सादृश्यदर्शनादयो हि विरहिणां विनोदस्थानानीति भावः। स चन्द्रोऽपि दिगन्तलम्बी पश्चिमाशां गतः सन्। अस्तं गच्छन्नित्यर्थः। अत एव त्वदाननरुचिं त्वन्मुखसादृश्यं विजहाति। त्यजतीत्यर्थः। अतो निद्रां विहाय तां लक्ष्मीमनन्यशरणं परिगृहाणेति भावः ॥
RV 5.68 वसन्ततिलका
तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलामधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तत्तस्माल्लक्ष्मीपरिग्रहणाद्वल्गुना मनोज्ञेन। `वल्गु स्थाने मनोज्ञे च वल्गु भाषितमन्यवत्` इति विश्वः। युगपत्तावदुन्मिषितेन युगपदेवोन्मीलनेन सद्यो द्वे अपि परस्परतुलामन्योन्यसादृश्यमधिरोहतां प्राप्नुताम्। प्रार्थनायां लोट्। के द्वे? अन्तः प्रस्पन्दमाना चलन्ती परुषेतरा स्निग्धा तारा कनीनिका यस्य तत्तथोक्तम्। `तारकाक्ष्णः कनीनिका` इत्यमरः (अ.को.2|6|93)। तव चक्षुः। अन्तः प्रचलितभ्रमरं चलद्भृङ्गं पद्मं च। युगपदुन्मिषिते सति संपूर्णसादृश्यलाभ इति भावः ॥
RV 5.69 वसन्ततिलका
वृन्ताच्छ्लथं हरति पुष्पमनोकहानां संसृज्यते सरसिजैररुणांशुभिन्नैः । स्वाभाविकं परगुणेन विभातवायुः सौरभ्यमीप्सुरिव ते मुखमारुतस्य ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वृन्तादिति॥ विभातवायुः प्रभातवायुः स्वाभाविकं नैसर्गितं ते तव मुखमारुतस्य निःश्वासपवनस्य सौरभ्यम्। तादृक्सौगन्ध्यमित्यर्थः। परगुणेनान्यदीयगुणेन। सांक्रामिकगन्धेनेत्यर्थः। ईप्सुराप्नुमिच्छुरिव। `आप्ज्ञप्यृधामीत्` (पा.7।4।55) इतीकारादेशः। अनोकहानां वृक्षाणां श्लथं शिथिलं पुष्पं वृन्तात् प्रसवबन्धनात्। `वृन्तं प्रसवबन्धनम्` इत्यमरः (अ.को.2|4|15)। हरत्यादत्ते। अरुणांशुभिन्नैस्तरणिकिरणोद्बोधितैः सरसि जातैः सरसिजैः कमलैः सह। `तत्पुरुषे कृति बहुलम्` (पा.6।3।14) इति सप्तम्या अलुक्। संसृज्यते संगच्छते। सृजेर्दैवादिकात्कर्तरि लट् ॥
RV 5.70 वसन्ततिलका
ताम्रोदरेषु पतितं तरुपल्लवेषु निर्धौतहारगुलिकाविशदं हिमाम्भः । आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिरिव त्वदीयम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताम्रेति॥ ताम्रोदरेष्वरुणाभ्यन्तरेषु तरुपल्लवेषु पतितं निर्धौता या हारगुलिका मुक्तामणयस्तद्वद्विशदं हिमाम्भो लब्धपरभागतया लब्धोत्कर्षतया। `परभागो गुणोत्कर्षे` इति यादवः। अधरोष्ठे त्वदीयं सदशनार्चिर्दन्तकान्तिसहितं लीलास्मितमिवाभाति शोभते ॥
RV 5.71 वसन्ततिलका
यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम् । आयोधनाग्रसरतां त्वयि वीर! याते किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति? ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यावदिति॥ प्रतापनिधिस्तेजोनिधिर्भानुर्यावन्नाक्रमते नोद्गच्छति। `आङउद्गमने` (पा.1।3।40) इत्यात्मनेपदम्। तावत्। भानावनुदित एवेत्यर्थः। अह्नाय झिटिति। `द्राग्झटित्यञ्जसाह्राय` इत्यमरः (अ.को.2|8|103)। अरुणेनानूरुणा। `सूर्यसूतोऽरुणोऽनूरुः` इत्यमरः (अ.को.2|8|103)। तमो निरस्तम्। तथा हि- हे वीर। त्वय्यायोधनेषु युद्धेषु। `युद्धमायोधनं जन्यम्` इत्यमरः (अ.को.2|8|103)। अग्रसरतां पुरःसरतां याते सति तव गुरुः पिता रिपून् स्वयमुच्छिनत्ति किं वा? नोच्छिनत्त्येवेत्यर्थः। न खलु योग्यपुत्रन्यस्तभाराणां स्वामिनां स्वयं व्यापारखेद इति भावः ॥
RV 5.72 वसन्ततिलका
शय्यां जहत्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरश्रृङ्खलकर्षिणस्ते । येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शय्यामिति॥ उभाभ्यां पक्षाभ्यां पार्श्वाभ्यां विनीताऽपगता निद्रा येषां त उभयपक्षविनीतनिद्राः। अत्र समासविषय `उभ`शब्दस्थाने `उभय` शब्दप्रयोग एव साधुरित्यनुसंधेयम्। यथाह कैयटः-`-"उभादुदात्तो नित्यम्" इति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषय `उभ`शब्दस्य प्रयोगो मा भूत्। `उभय`शब्दस्यैव यथा स्यात्। उभयपुत्र इत्यादि भवति` इति। मुखराण्युत्थानचलनाच्छब्दायमानानि शृङ्खलानि निगडानि कर्षन्तीति तथोक्तास्ते तव स्तम्बे रमन्त इति स्तम्बेरमा हस्तिनः। `स्तम्बकर्णयो रमिजपाः` (पा.3।2।13)इत्यच्प्रत्ययः। `हस्तिसूचकयोः`(वा.1994)इति वक्तव्यात्। `इभः स्तम्बेरमः पद्मी` इत्यमरः (अ.को.2|8|35)। `तत्पुरुषे कृति बहुलम्` (पा.6।3।14) इति सप्तम्या अलुक्। शय्यां जहति त्यजन्ति येषां स्तम्बेरमाणाम्। दन्ताः कोशाः इव दन्तकोशाः। दन्तकुडम्भलास्तरुणारुणरागयोगाद्बालार्कारुणसंपर्काद्धेतोर्भिन्नाद्रागैरिकतटा इव विभान्ति। धातुरक्ता इव भान्तीत्यर्थः॥
RV 5.73 वसन्ततिलका
दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष! वनायुदेश्याः । वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दीर्घेष्विति॥ हे वनजाक्ष नीरजाक्ष! `वनं नीरं वनं सत्त्वम्` इति शाश्वतः। दीर्घेषु पटमण्डपेषु नियमिता बद्धा वनायुदेश्या वनायुदेशे भवाः। `पारसीका वनायुजाः` इति हलायुधः। अमी वाहा अश्वा निद्रां विहाय पुरोगतानि लेह्यान्यास्व्नाद्यानि सैन्धवशिलाशकनलानि। `सैन्धवोऽस्त्त्री सितशिवं माणिमन्थं च सिन्धुजे` इत्यमरः। वक्त्रोष्मणा मलिनयन्ति मलिनानि कुर्वन्ति। उक्तं च सिद्धयोगसंग्रहे-`पूर्वाह्णकाले चाश्वानां प्रयाशो लवणं हितम्। शूलानाहविबन्धघ्नं लवणं सैन्धवं वरम् ॥` इत्यादि ॥
RV 5.74 मालिनी
भवति विरलभक्तिर्म्लानपुष्पोपहारः स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः । अयमपि च गिरं नस्त्वत्प्रवोधप्रयुक्तामनुवदति शुकस्ते मञ्जुवाक्यञ्जरस्थः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भवतीति। म्लानः पुष्पोपहारः पुष्पपूजा म्लानत्वादेव विरलभक्तिर्विरलरचनो भवति। प्रदीपाश्च स्वकिरणानां परिवेषस्य मण्डलस्योद्भेदेन स्फुरणेन शून्या भवन्ति, निस्तेजस्का भवन्तीत्यर्थः। अपि चायं मञ्जुवाङ्मधुरवचनः पञ्चरस्थस्ते तव शुकस्त्वत्प्रबोधनिमित्ते प्रयुक्तामुञ्चारितां नोऽस्माकं गिरं वाणीमनुवदति, अनुकृत्य वदतीत्यर्थः। इत्थं प्रभातलिङ्गानि वर्तन्ते, अतः प्रबोद्धव्यमिति भावः ॥
RV 5.75 मालिनी
इति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः सपदि विगतनिद्रस्तल्पमुज्झांचकार । मदपटुनिनदद्भिर्बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इतीत्थँ विरचितवाग्भिर्बन्दिपुत्रैर्वैतालिकैः। `पुत्र`ग्रहणं समानवयस्कत्वद्योतनार्थम्। सपदि विगतनिद्रः कुमारः। तल्पं शय्याम्। `तल्पं शय्याट्टदारेषु` इत्यमरः (अ.को.3|3|138)। उज्झांचकार विससर्ज। `इजादेश्च गुरुमतोऽनृच्छः` (पा.3।1।36) इत्याम्प्रत्ययः। कथमिव? मदेन पटु मधुरं निनदद्भी राजहंसैर्बोधितः सुप्रतीकाख्यः सुरगज ईशानदिग्गजः। गङ्गाया इदं गाङ्गम्। सैकतं पुलिनमिव। `तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्` इत्यमरः (अ.को.1|10|9)। `सिकताशर्कराभ्यां च` (पा.5।2।104) इत्यण्प्रत्ययः। `सुप्रतीक`ग्रहणं प्रायशः कैलासवालिनस्तस्य नित्यं गङ्गातटविहारसंभवादित्यनुसंधेयम् ॥
RV 5.76 पुष्पिताग्रा
अथ विधिमवसाय्य शास्त्रदृष्टं दिवसमुखोचितमञ्चिताक्षिपक्ष्मा । कुशलविरचितानुकूलवेषः क्षितिपसमाजमगात्स्वयंवरस्थम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथोत्थानानन्तरम्। अञ्चितानि चारुण्यक्षिपक्ष्माणि यस्य सोऽजः शास्त्रे दृष्टमवगतं दिवसमुखोचितं प्रातःकालोचितं विधिमनुष्ठानमवसाय्य समाप्य। स्ततेर्ण्यन्ताल्लयम्। कुशलैः प्रसाधनदक्षैर्विरचितोऽनुकूलः स्वयंवरोचितो वेषो नेपथ्यं यस्य स तथोक्तः सन् स्वयंवरस्थं क्षितिपसमाजं राजसमूहमगादगमत्-`इणो गा लुङि` (पा.2।4।45)इति गादेशः। पुष्पिताग्रावृत्तमेतत्। तल्लक्षणम्-`अयुजि नयुगरेफलो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा` इति॥
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →