Skip to main content
Search
Ch. 5 RV 5.72
Full Chapter
RV • Chapter 5: Canto 5

RV 5.72

Canonical Ref: RV 5.72
Metrical Form: वसन्ततिलका
Sanskrit (Devanāgarī)
शय्यां जहत्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरश्रृङ्खलकर्षिणस्ते । येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): शय्यामिति॥ उभाभ्यां पक्षाभ्यां पार्श्वाभ्यां विनीताऽपगता निद्रा येषां त उभयपक्षविनीतनिद्राः। अत्र समासविषय `उभ`शब्दस्थाने `उभय` शब्दप्रयोग एव साधुरित्यनुसंधेयम्। यथाह कैयटः-`-"उभादुदात्तो नित्यम्" इति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषय `उभ`शब्दस्य प्रयोगो मा भूत्। `उभय`शब्दस्यैव यथा स्यात्। उभयपुत्र इत्यादि भवति` इति। मुखराण्युत्थानचलनाच्छब्दायमानानि शृङ्खलानि निगडानि कर्षन्तीति तथोक्तास्ते तव स्तम्बे रमन्त इति स्तम्बेरमा हस्तिनः। `स्तम्बकर्णयो रमिजपाः` (पा.3।2।13)इत्यच्प्रत्ययः। `हस्तिसूचकयोः`(वा.1994)इति वक्तव्यात्। `इभः स्तम्बेरमः पद्मी` इत्यमरः (अ.को.2|8|35)। `तत्पुरुषे कृति बहुलम्` (पा.6।3।14) इति सप्तम्या अलुक्। शय्यां जहति त्यजन्ति येषां स्तम्बेरमाणाम्। दन्ताः कोशाः इव दन्तकोशाः। दन्तकुडम्भलास्तरुणारुणरागयोगाद्बालार्कारुणसंपर्काद्धेतोर्भिन्नाद्रागैरिकतटा इव विभान्ति। धातुरक्ता इव भान्तीत्यर्थः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 5.72. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 5.71) All Verses in Chapter 5 Next Verse (RV 5.73) →