Skip to main content
Search
Ch. 5 RV 5.63
Full Chapter
RV • Chapter 5: Canto 5

RV 5.63

Canonical Ref: RV 5.63
Metrical Form: वसन्ततिलका
Sanskrit (Devanāgarī)
तस्याधिकारपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम् । रम्यां रघुप्रतिनिधिः स नवोपकार्यां बाल्यात्परामिव दशां मदनोऽध्युवास ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ रघुप्रतिनिधी रघुकल्पः। रघुतुल्य इत्यर्थः। उक्तं च दण्डिना सादृश्यवाचकप्रस्तावे-`कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि` इति। सोऽजः प्रणतैर्नमस्कृतवद्भिः। कर्तरि क्तः। तस्य भोजस्याधिकारो नियोगस्तस्य पुरुषैः। अधिकृतैरित्यर्थः। प्रदिष्टां निर्दिष्टां प्राग्द्वारस्य वेद्यां विनिवेशितः प्रतिष्ठापितः पूर्णकुम्भो यस्यास्ताम्। स्थापितमङ्गलकलशामित्यर्थः। रम्यां रमणीयां नवोपकार्यां नूतनं राजभवनम्। `उपकार्या राजसद्मन्युपचारचितेऽन्यवत्` इति विश्वः। मदनो बाल्यात्परां शैशवादनन्तरां दशामिव। यौवनमिवेत्यर्थः। अध्युवासाधिष्ठितवान्। तत्रोषितवानित्यर्थः। `उपान्वध्याङ्वसः` (पा.1।4।48) इति कर्मत्वम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 5.63. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 5.62) All Verses in Chapter 5 Next Verse (RV 5.64) →