Skip to main content
Search
Ch. 5 RV 5.75
Full Chapter
RV • Chapter 5: Canto 5

RV 5.75

Canonical Ref: RV 5.75
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
इति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः सपदि विगतनिद्रस्तल्पमुज्झांचकार । मदपटुनिनदद्भिर्बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इतीत्थँ विरचितवाग्भिर्बन्दिपुत्रैर्वैतालिकैः। `पुत्र`ग्रहणं समानवयस्कत्वद्योतनार्थम्। सपदि विगतनिद्रः कुमारः। तल्पं शय्याम्। `तल्पं शय्याट्टदारेषु` इत्यमरः (अ.को.3|3|138)। उज्झांचकार विससर्ज। `इजादेश्च गुरुमतोऽनृच्छः` (पा.3।1।36) इत्याम्प्रत्ययः। कथमिव? मदेन पटु मधुरं निनदद्भी राजहंसैर्बोधितः सुप्रतीकाख्यः सुरगज ईशानदिग्गजः। गङ्गाया इदं गाङ्गम्। सैकतं पुलिनमिव। `तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्` इत्यमरः (अ.को.1|10|9)। `सिकताशर्कराभ्यां च` (पा.5।2।104) इत्यण्प्रत्ययः। `सुप्रतीक`ग्रहणं प्रायशः कैलासवालिनस्तस्य नित्यं गङ्गातटविहारसंभवादित्यनुसंधेयम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 5.75. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 5.74) All Verses in Chapter 5 Next Verse (RV 5.76) →