Skip to main content
Search
Ch. 5 RV 5.16
Full Chapter
RV • Chapter 5: Canto 5

RV 5.16

Canonical Ref: RV 5.16
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
स्थाने भवानेकनराधिपः सन्निकिंचनत्वं मखजं व्यनक्ति । पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स्थान इति॥ भवानेकनराधिपः सार्वभौमः सन्। मखजं मखजन्यम्। न विद्यते किंचन यस्येत्यकिंचनः। मयूरव्यंसकादित्वात्तत्पुरुषः। तस्य भावस्तत्त्वं निर्धनत्वं व्यनक्ति प्रकटयति। स्थाने युक्तम्। `युक्ते द्वे सांप्रतं स्थाने` इत्यमरः । तथा हि-सुरैर्देवैः पर्यायेण क्रमेण पीतस्य हिमांशोः कलाक्षयो वृद्धेरुपचयाच्छ्लाघ्यतरो हि वरः खलु। `मणिः शाणोल्लीढः समरविजयी हेति निहतो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः। क्रलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चिर्थिषु नृपाः॥` (भर्तृ.2।44) इति भावः। अत्र कामन्दकः-`धर्मार्थं क्षीणकोशस्य क्षीणत्वमपि शोभते। सुरैः पीतावशेषस्य कृष्णपक्षे विधोरिव ॥` इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 5.16. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 5.15) All Verses in Chapter 5 Next Verse (RV 5.17) →