स नैषधस्यार्थपतेः सुतायामुत्पादयामास निषिद्धशत्रुः । अनूनसारं निषधान्नगेन्द्रात्पुत्रं यमाहुर्निषधाख्यमेव ॥
तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना । सुवृष्टियोगादिव जीवलोकः सस्येन संपत्तिफलोन्मुखेन ॥
शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः । कौमुद्वतेयः कुमुदावदातैर्द्यामर्जितां कर्मभिरारुरोह ॥
पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः । एकातपत्रां भुवमेकवीरः पुरार्गलादीर्घभुजो बुभोज ॥
तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः । यो नड्वलानीव गजः परेषां बलान्यमृद्गान्नलिनाभवक्त्रः ॥
नभश्चरैर्गीतयशाः स लेभे नभस्तलश्यामतनुं तनूजम् । ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासमिव प्रजानाम् ॥
तस्मै विसृज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वम् । मृगैरजयं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध ॥
तेन द्विपानामिव पुण्डरीको राज्ञामजय्योऽजनि पुण्डरीकः । शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षमिव श्रिता श्रीः ॥
स क्षेमधन्वानममोघघन्वा पुत्रं प्रजाक्षेमविधानदक्षम् । क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश्चचार ॥
अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूत् । व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य ॥
पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन । पुत्रस्तथवात्मजवत्सलेन स तेन पित्रा पितृमान्बभूव ॥
पूर्वस्तयोरात्मसमे चिरोढामात्मोद्भवे वर्णचतुष्टयस्य । धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकम् ॥
वशी सुतस्तस्य वशंवदत्वात्स्वेषामिवासीद्द्विषतामपीष्टः । सकृद्विविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान्ग्रहीतुम् ॥
अहीनगुर्नाम स गां समग्रामहीनबाहुद्रविणः शशास । यो हीनसंसर्गपराङ्मुखत्वाद्युवाप्यनर्थैर्व्यसनैर्विहीनः ॥
गुरोः स चानन्तरमन्तरज्ञः पुंसां पुमानाद्य इवावतीर्णः । उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव ॥
तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयम् । उञ्चैः शिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ॥
तस्याभवत्सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः । जितारिपक्षोऽपि शिलीमुखैर्यः शालिनतामव्रजदीड्यमानः ॥
तमात्मसंपन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव । सुखानि सोऽभुङ्क्त सुखोपरोधि वृतं हि राज्ञामुपरुद्धवृत्तम् ॥
तं रागबन्धिष्ववितृप्तमेव भोगेषु सौभाग्यविशेषभाग्यम् । विलासिनीनामरतिक्षमापि जरा वृथा मत्सरिणी जहार ॥
उन्नाभ इत्युद्गतनामधेयस्तस्यायथार्थोन्नतनाभिरन्ध्रः । सुतोऽभवत्पङ्कजनाभकल्पः कृत्स्नस्य नाभिर्नृपमण्डलस्य ॥
ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः । बभूव वज्राकरभूषणायाः पतिः पृथिव्याः किल वज्रणाभः ॥
तस्मिन्गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणमर्णवान्ता । उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः ॥
तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदमश्विरूपः । वेलातटेषूषितसैनिकाश्वं पुराविदो यं व्युषिताश्वमाहुः ॥
आराध्य विश्वेश्वरमीश्वरेण तेन क्षितेर्विश्वसहो विजज्ञे । पातुं सहो विशअवसखः समग्रां विशअवंभरामात्मजमूर्तिरात्मा ॥
अंशे हिरण्याक्षरिपोः स जाते हिरण्यनाभे तनये नयज्ञः । द्विषामसह्यः सुतरां तरूणां हिरण्यरेता इव सानिलोऽभूत् ॥
पिता पितॄणामनृणस्तमन्ते वयस्यनन्तानि सुखानि लिप्सुः । राजानमाजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान्बभूव ॥
कौसल्य इत्युत्तरकोसलानां पत्युः पतङ्गान्वयभूषणस्य । तस्यौरसः सोमसुतः सुतोऽभून्नेत्रोत्सवः सोम इव द्वितीयः ॥
यशोभिराब्रह्मसभं प्रकाशः स ब्रह्मभूयं गतिमाजगाम । ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम् ॥
तस्मिन्कुलापीडनिभे विपीडं सम्यङ्महीं शासति शासनाङ्काम् । प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः ॥
पात्रीकृतात्मा गुरुसेवनेन स्पष्टाकृतिः पत्ररथेन्द्रकेतोः । तं पुत्रिणां पुष्करपत्रनेत्रः पुत्रः समारोपयदग्नसंख्याम् ॥